Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.10
Saṃhitā
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामुं॑चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीनां॑ ॥
जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् |
प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ||
jujurúṣo nāsatyotá vavrím prā́muñcatam drāpímiva cyávānāt ǀ
prā́tiratam jahitásyā́yurdasrā́dítpátimakṛṇutam kanī́nām ǁ
jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt |
prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām ||
Padapāṭha
जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् ।
प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥
जुजुरुषः । नासत्या । उत । वव्रिम् । प्र । अमुञ्चतम् । द्रापिम्ऽइव । च्यवानात् ।
प्र । अतिरतम् । जहितस्य । आयुः । दस्रा । आत् । इत् । पतिम् । अकृणुतम् । कनीनाम् ॥
jujurúṣaḥ ǀ nāsatyā ǀ utá ǀ vavrím ǀ prá ǀ amuñcatam ǀ drāpím-iva ǀ cyávānāt ǀ
prá ǀ atiratam ǀ jahitásya ǀ ā́yuḥ ǀ dasrā ǀ ā́t ǀ ít ǀ pátim ǀ akṛṇutam ǀ kanī́nām ǁ
jujuruṣaḥ ǀ nāsatyā ǀ uta ǀ vavrim ǀ pra ǀ amuñcatam ǀ drāpim-iva ǀ cyavānāt ǀ
pra ǀ atiratam ǀ jahitasya ǀ āyuḥ ǀ dasrā ǀ āt ǀ it ǀ patim ǀ akṛṇutam ǀ kanīnām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.09.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.