Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.1
Saṃhitā
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृं॑जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमां इयर्म्य् अभ्रियेव वातः |
याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ||
nā́satyābhyām barhíriva prá vṛñje stómām̐ iyarmyabhríyeva vā́taḥ ǀ
yā́várbhagāya vimadā́ya jāyā́m senājúvā nyūhátū ráthena ǁ
nāsatyābhyām barhir iva pra vṛñje stomāṃ iyarmy abhriyeva vātaḥ |
yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena ||
Padapāṭha
नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ ।
यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥
नासत्याभ्याम् । बर्हिःऽइव । प्र । वृञ्जे । स्तोमान् । इयर्मि । अभ्रियाऽइव । वातः ।
यौ । अर्भगाय । विऽमदाय । जायाम् । सेनाऽजुवा । निऽऊहतुः । रथेन ॥
nā́satyābhyām ǀ barhíḥ-iva ǀ prá ǀ vṛñje ǀ stómān ǀ iyarmi ǀ abhríyā-iva ǀ vā́taḥ ǀ
yáu ǀ árbhagāya ǀ vi-madā́ya ǀ jāyā́m ǀ senā-júvā ǀ ni-ūhátuḥ ǀ ráthena ǁ
nāsatyābhyām ǀ barhiḥ-iva ǀ pra ǀ vṛñje ǀ stomān ǀ iyarmi ǀ abhriyā-iva ǀ vātaḥ ǀ
yau ǀ arbhagāya ǀ vi-madāya ǀ jāyām ǀ senā-juvā ǀ ni-ūhatuḥ ǀ rathena ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.08.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.