Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.3
Saṃhitā
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरंतरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवां अवाहाः |
तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ||
túgro ha bhujyúmaśvinodameghé rayím ná káścinmamṛvā́m̐ ávāhāḥ ǀ
támūhathurnaubhírātmanvátībhirantarikṣaprúdbhirápodakābhiḥ ǁ
tugro ha bhujyum aśvinodameghe rayiṃ na kaś cin mamṛvāṃ avāhāḥ |
tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ ||
Padapāṭha
तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवान् । अव॑ । अ॒हाः॒ ।
तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥
तुग्रः । ह । भुज्युम् । अश्विना । उदऽमेघे । रयिम् । न । कः । चित् । ममृऽवान् । अव । अहाः ।
तम् । ऊहथुः । नौभिः । आत्मन्ऽवतीभिः । अन्तरिक्षप्रुत्ऽभिः । अपऽउदकाभिः ॥
túgraḥ ǀ ha ǀ bhujyúm ǀ aśvinā ǀ uda-meghé ǀ rayím ǀ ná ǀ káḥ ǀ cit ǀ mamṛ-vā́n ǀ áva ǀ ahāḥ ǀ
tám ǀ ūhathuḥ ǀ naubhíḥ ǀ ātman-vátībhiḥ ǀ antarikṣaprút-bhiḥ ǀ ápa-udakābhiḥ ǁ
tugraḥ ǀ ha ǀ bhujyum ǀ aśvinā ǀ uda-meghe ǀ rayim ǀ na ǀ kaḥ ǀ cit ǀ mamṛ-vān ǀ ava ǀ ahāḥ ǀ
tam ǀ ūhathuḥ ǀ naubhiḥ ǀ ātman-vatībhiḥ ǀ antarikṣaprut-bhiḥ ǀ apa-udakābhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.08.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.