Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.6
Saṃhitā
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति |
तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ||
yámaśvinā dadáthuḥ śvetámáśvamaghā́śvāya śáśvadítsvastí ǀ
tádvām dātrám máhi kīrtényam bhūtpaidvó vājī́ sádamíddhávyo aryáḥ ǁ
yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti |
tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ ||
Padapāṭha
यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति ।
तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥
यम् । अश्विना । ददथुः । श्वेतम् । अश्वम् । अघऽअश्वाय । शश्वत् । इत् । स्वस्ति ।
तत् । वाम् । दात्रम् । महि । कीर्तेन्यम् । भूत् । पैद्वः । वाजी । सदम् । इत् । हव्यः । अर्यः ॥
yám ǀ aśvinā ǀ dadáthuḥ ǀ śvetám ǀ áśvam ǀ aghá-aśvāya ǀ śáśvat ǀ ít ǀ svastí ǀ
tát ǀ vām ǀ dātrám ǀ máhi ǀ kīrtényam ǀ bhūt ǀ paidváḥ ǀ vājī́ ǀ sádam ǀ ít ǀ hávyaḥ ǀ aryáḥ ǁ
yam ǀ aśvinā ǀ dadathuḥ ǀ śvetam ǀ aśvam ǀ agha-aśvāya ǀ śaśvat ǀ it ǀ svasti ǀ
tat ǀ vām ǀ dātram ǀ mahi ǀ kīrtenyam ǀ bhūt ǀ paidvaḥ ǀ vājī ǀ sadam ǀ it ǀ havyaḥ ǀ aryaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.09.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.