Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.17
Saṃhitā
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जयं॑ती ।
विश्वे॑ दे॒वा अन्व॑मन्यंत हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती |
विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ||
ā́ vām rátham duhitā́ sū́ryasya kā́rṣmevātiṣṭhadárvatā jáyantī ǀ
víśve devā́ ánvamanyanta hṛdbhíḥ sámu śriyā́ nāsatyā sacethe ǁ
ā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī |
viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe ||
Padapāṭha
आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती ।
विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊं॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥
आ । वाम् । रथम् । दुहिता । सूर्यस्य । कार्ष्मऽइव । अतिष्ठत् । अर्वता । जयन्ती ।
विश्वे । देवाः । अनु । अमन्यन्त । हृत्ऽभिः । सम् । ऊं इति । श्रिया । नासत्या । सचेथे इति ॥
ā́ ǀ vām ǀ rátham ǀ duhitā́ ǀ sū́ryasya ǀ kā́rṣma-iva ǀ atiṣṭhat ǀ árvatā ǀ jáyantī ǀ
víśve ǀ devā́ḥ ǀ ánu ǀ amanyanta ǀ hṛt-bhíḥ ǀ sám ǀ ūṃ íti ǀ śriyā́ ǀ nāsatyā ǀ sacethe íti ǁ
ā ǀ vām ǀ ratham ǀ duhitā ǀ sūryasya ǀ kārṣma-iva ǀ atiṣṭhat ǀ arvatā ǀ jayantī ǀ
viśve ǀ devāḥ ǀ anu ǀ amanyanta ǀ hṛt-bhiḥ ǀ sam ǀ ūṃ iti ǀ śriyā ǀ nāsatyā ǀ sacethe iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.11.02
- Maṇḍala · Anuvāka · Ṛk
- 1.17.017
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.