Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.11
Saṃhitā
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थं ।
यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वंद॑नाय ॥
तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् |
यद् विद्वांसा निधिम् इवापगूऌहम् उद् दर्शताद् ऊपथुर् वन्दनाय ||
tádvām narā śáṃsyam rā́dhyam cābhiṣṭimánnāsatyā várūtham ǀ
yádvidvā́ṃsā nidhímivā́pagūḷhamúddarśatā́dūpáthurvándanāya ǁ
tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham |
yad vidvāṃsā nidhim ivāpagūḷham ud darśatād ūpathur vandanāya ||
Padapāṭha
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् ।
यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥
तत् । वाम् । नरा । शंस्यम् । राध्यम् । च । अभिष्टिऽमत् । नासत्या । वरूथम् ।
यत् । विद्वांसा । निधिम्ऽइव । अपऽगूळ्हम् । उत् । दर्शतात् । ऊपथुः । वन्दनाय ॥
tát ǀ vām ǀ narā ǀ śáṃsyam ǀ rā́dhyam ǀ ca ǀ abhiṣṭi-mát ǀ nāsatyā ǀ várūtham ǀ
yát ǀ vidvā́ṃsā ǀ nidhím-iva ǀ ápa-gūḷham ǀ út ǀ darśatā́t ǀ ūpáthuḥ ǀ vándanāya ǁ
tat ǀ vām ǀ narā ǀ śaṃsyam ǀ rādhyam ǀ ca ǀ abhiṣṭi-mat ǀ nāsatyā ǀ varūtham ǀ
yat ǀ vidvāṃsā ǀ nidhim-iva ǀ apa-gūḷham ǀ ut ǀ darśatāt ǀ ūpathuḥ ǀ vandanāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.10.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.011
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.