Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.21
Saṃhitā
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
निर॑हतं दु॒च्छुना॒ इंद्र॑वंता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा |
निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ||
ékasyā vástorāvatam ráṇāya váśamaśvinā sanáye sahásrā ǀ
nírahatam ducchúnā índravantā pṛthuśrávaso vṛṣaṇāvárātīḥ ǁ
ekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā |
nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ ||
Padapāṭha
एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ ।
निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥
एकस्याः । वस्तोः । आवतम् । रणाय । वशम् । अश्विना । सनये । सहस्रा ।
निः । अहतम् । दुच्छुनाः । इन्द्रऽवन्ता । पृथुऽश्रवसः । वृषणौ । अरातीः ॥
ékasyāḥ ǀ vástoḥ ǀ āvatam ǀ ráṇāya ǀ váśam ǀ aśvinā ǀ sanáye ǀ sahásrā ǀ
níḥ ǀ ahatam ǀ ducchúnāḥ ǀ índra-vantā ǀ pṛthu-śrávasaḥ ǀ vṛṣaṇau ǀ árātīḥ ǁ
ekasyāḥ ǀ vastoḥ ǀ āvatam ǀ raṇāya ǀ vaśam ǀ aśvinā ǀ sanaye ǀ sahasrā ǀ
niḥ ǀ ahatam ǀ ducchunāḥ ǀ indra-vantā ǀ pṛthu-śravasaḥ ǀ vṛṣaṇau ǀ arātīḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.21
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.12.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.021
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.