Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.23
Saṃhitā
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः |
पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ||
avasyaté stuvaté kṛṣṇiyā́ya ṛjūyaté nāsatyā śácībhiḥ ǀ
paśúm ná naṣṭámiva dárśanāya viṣṇāpvám dadathurvíśvakāya ǁ
avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya ||
Padapāṭha
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः ।
प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥
अवस्यते । स्तुवते । कृष्णियाय । ऋजुऽयते । नासत्या । शचीभिः ।
पशुम् । न । नष्टम्ऽइव । दर्शनाय । विष्णाप्वम् । ददथुः । विश्वकाय ॥
avasyaté ǀ stuvaté ǀ kṛṣṇiyā́ya ǀ ṛju-yaté ǀ nāsatyā ǀ śácībhiḥ ǀ
paśúm ǀ ná ǀ naṣṭám-iva ǀ dárśanāya ǀ viṣṇāpvám ǀ dadathuḥ ǀ víśvakāya ǁ
avasyate ǀ stuvate ǀ kṛṣṇiyāya ǀ ṛju-yate ǀ nāsatyā ǀ śacībhiḥ ǀ
paśum ǀ na ǀ naṣṭam-iva ǀ darśanāya ǀ viṣṇāpvam ǀ dadathuḥ ǀ viśvakāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.23
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.12.03
- Maṇḍala · Anuvāka · Ṛk
- 1.17.023
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.