Sūkta 184
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 3); nicṛtpaṅkti (5, 6); paṅktiḥ (1); bhurikpaṅkti (4)
2nd set of styles triṣṭubh
-
Ṛk 1
ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छंत्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः ।
नास॑त्या॒ कुह॑ चि॒त्संता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः |
नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ||tā́ vāmadyá tā́vaparám huvemocchántyāmuṣási váhniruktháiḥ ǀ
nā́satyā kúha citsántāvaryó divó nápātā sudā́starāya ǁtā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ |
nāsatyā kuha cit santāv aryo divo napātā sudāstarāya ||ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः ।
नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः ।
नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाःऽतराय ॥tā́ ǀ vām ǀ adyá ǀ táu ǀ aparám ǀ huvema ǀ ucchántyām ǀ uṣási ǀ váhniḥ ǀ uktháiḥ ǀ
nā́satyā ǀ kúha ǀ cit ǀ sántau ǀ aryáḥ ǀ diváḥ ǀ nápātā ǀ sudā́ḥ-tarāya ǁtā ǀ vām ǀ adya ǀ tau ǀ aparam ǀ huvema ǀ ucchantyām ǀ uṣasi ǀ vahniḥ ǀ ukthaiḥ ǀ
nāsatyā ǀ kuha ǀ cit ǀ santau ǀ aryaḥ ǀ divaḥ ǀ napātā ǀ sudāḥ-tarāya ǁ1.184.1 Aṣṭaka 2.5.1.0
-
Ṛk 2
अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मदं॑ता ।
श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णैः॑ ॥अस्मे ऊ षु वृषणा मादयेथाम् उत् पणींर् हतम् ऊर्म्या मदन्ता |
श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ||asmé ū ṣú vṛṣaṇā mādayethāmútpaṇī́m̐rhatamūrmyā́ mádantā ǀ
śrutám me ácchoktibhirmatīnā́méṣṭā narā nícetārā ca kárṇaiḥ ǁasme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā |
śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ ||अ॒स्मे इति॑ । ऊं॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता ।
श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥अस्मे इति । ऊं इति । सु । वृषणा । मादयेथाम् । उत् । पणीन् । हतम् । ऊर्म्या । मदन्ता ।
श्रुतम् । मे । अच्छोक्तिऽभिः । मतीनाम् । एष्टा । नरा । निऽचेतारा । च । कर्णैः ॥asmé íti ǀ ūṃ íti ǀ sú ǀ vṛṣaṇā ǀ mādayethām ǀ út ǀ paṇī́n ǀ hatam ǀ ūrmyā́ ǀ mádantā ǀ
śrutám ǀ me ǀ ácchokti-bhiḥ ǀ matīnā́m ǀ éṣṭā ǀ narā ǀ ní-cetārā ǀ ca ǀ kárṇaiḥ ǁasme iti ǀ ūṃ iti ǀ su ǀ vṛṣaṇā ǀ mādayethām ǀ ut ǀ paṇīn ǀ hatam ǀ ūrmyā ǀ madantā ǀ
śrutam ǀ me ǀ acchokti-bhiḥ ǀ matīnām ǀ eṣṭā ǀ narā ǀ ni-cetārā ǀ ca ǀ karṇaiḥ ǁ1.184.2 Aṣṭaka 2.5.1.0
-
Ṛk 3
श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः॑ ।
व॒च्यंते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः॑ ॥श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः |
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ||śriyé pūṣanniṣukṛ́teva devā́ nā́satyā vahatúm sūryā́yāḥ ǀ
vacyánte vām kakuhā́ apsú jātā́ yugā́ jūrṇéva váruṇasya bhū́reḥ ǁśriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ |
vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||श्रि॒ये । पू॒ष॒न् । इ॒षु॒कृता॑ऽइव । दे॒वा । नास॑त्या । व॒ह॒तुम् । सू॒र्यायाः॑ ।
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हाः । अ॒प्ऽसु । जा॒ताः । यु॒गा । जू॒र्णाऽइ॑व । वरु॑णस्य । भूरेः॑ ॥श्रिये । पूषन् । इषुकृताऽइव । देवा । नासत्या । वहतुम् । सूर्यायाः ।
वच्यन्ते । वाम् । ककुहाः । अप्ऽसु । जाताः । युगा । जूर्णाऽइव । वरुणस्य । भूरेः ॥śriyé ǀ pūṣan ǀ iṣukṛ́tā-iva ǀ devā́ ǀ nā́satyā ǀ vahatúm ǀ sūryā́yāḥ ǀ
vacyánte ǀ vām ǀ kakuhā́ḥ ǀ ap-sú ǀ jātā́ḥ ǀ yugā́ ǀ jūrṇā́-iva ǀ váruṇasya ǀ bhū́reḥ ǁśriye ǀ pūṣan ǀ iṣukṛtā-iva ǀ devā ǀ nāsatyā ǀ vahatum ǀ sūryāyāḥ ǀ
vacyante ǀ vām ǀ kakuhāḥ ǀ ap-su ǀ jātāḥ ǀ yugā ǀ jūrṇā-iva ǀ varuṇasya ǀ bhūreḥ ǁ1.184.3 Aṣṭaka 2.5.1.0
-
Ṛk 4
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः ।
अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मदं॑ति ॥अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः |
अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ||asmé sā́ vām mādhvī rātírastu stómam hinotam mānyásya kāróḥ ǀ
ánu yádvām śravasyā́ sudānū suvī́ryāya carṣaṇáyo mádanti ǁasme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ |
anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti ||अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः ।
अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम् । मान्यस्य । कारोः ।
अनु । यत् । वाम् । श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदन्ति ॥asmé íti ǀ sā́ ǀ vām ǀ mādhvī íti ǀ rātíḥ ǀ astu ǀ stómam ǀ hinotam ǀ mānyásya ǀ kāróḥ ǀ
ánu ǀ yát ǀ vām ǀ śravasyā́ ǀ sudānū íti su-dānū ǀ su-vī́ryāya ǀ carṣaṇáyaḥ ǀ mádanti ǁasme iti ǀ sā ǀ vām ǀ mādhvī iti ǀ rātiḥ ǀ astu ǀ stomam ǀ hinotam ǀ mānyasya ǀ kāroḥ ǀ
anu ǀ yat ǀ vām ǀ śravasyā ǀ sudānū iti su-dānū ǀ su-vīryāya ǀ carṣaṇayaḥ ǀ madanti ǁ1.184.4 Aṣṭaka 2.5.1.0
-
Ṛk 5
ए॒ष वां॒ स्तोमो॑ अश्विनावकारि॒ माने॑भिर्मघवाना सुवृ॒क्ति ।
या॒तं व॒र्तिस्तन॑याय॒ त्मने॑ चा॒गस्त्ये॑ नासत्या॒ मदं॑ता ॥एष वां स्तोमो अश्विनाव् अकारि मानेभिर् मघवाना सुवृक्ति |
यातं वर्तिस् तनयाय त्मने चागस्त्ये नासत्या मदन्ता ||eṣá vām stómo aśvināvakāri mā́nebhirmaghavānā suvṛktí ǀ
yātám vartístánayāya tmáne cāgástye nāsatyā mádantā ǁeṣa vāṃ stomo aśvināv akāri mānebhir maghavānā suvṛkti |
yātaṃ vartis tanayāya tmane cāgastye nāsatyā madantā ||ए॒षः । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒का॒रि॒ । माने॑भिः । म॒घ॒ऽवा॒ना॒ । सु॒ऽवृ॒क्ति ।
या॒तम् । व॒र्तिः । तन॑याय । त्मने॑ । च॒ । अ॒गस्त्ये॑ । ना॒स॒त्या॒ । मद॑न्ता ॥एषः । वाम् । स्तोमः । अश्विनौ । अकारि । मानेभिः । मघऽवाना । सुऽवृक्ति ।
यातम् । वर्तिः । तनयाय । त्मने । च । अगस्त्ये । नासत्या । मदन्ता ॥eṣáḥ ǀ vām ǀ stómaḥ ǀ aśvinau ǀ akāri ǀ mā́nebhiḥ ǀ magha-vānā ǀ su-vṛktí ǀ
yātám ǀ vartíḥ ǀ tánayāya ǀ tmáne ǀ ca ǀ agástye ǀ nāsatyā ǀ mádantā ǁeṣaḥ ǀ vām ǀ stomaḥ ǀ aśvinau ǀ akāri ǀ mānebhiḥ ǀ magha-vānā ǀ su-vṛkti ǀ
yātam ǀ vartiḥ ǀ tanayāya ǀ tmane ǀ ca ǀ agastye ǀ nāsatyā ǀ madantā ǁ1.184.5 Aṣṭaka 2.5.1.0
-
Ṛk 6
अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो॑ अश्विनावधायि ।
एह या॑तं प॒थिभि॑र्देव॒यानै॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥अतारिष्म तमसस् पारम् अस्य प्रति वां स्तोमो अश्विनाव् अधायि |
एह यातम् पथिभिर् देवयानैर् विद्यामेषं वृजनं जीरदानुम् ||átāriṣma támasaspārámasyá práti vām stómo aśvināvadhāyi ǀ
éhá yātam pathíbhirdevayā́nairvidyā́meṣám vṛjánam jīrádānum ǁatāriṣma tamasas pāram asya prati vāṃ stomo aśvināv adhāyi |
eha yātam pathibhir devayānair vidyāmeṣaṃ vṛjanaṃ jīradānum ||अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । वा॒म् । स्तोमः॑ । अ॒श्वि॒नौ॒ । अ॒धा॒यि॒ ।
आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥अतारिष्म । तमसः । पारम् । अस्य । प्रति । वाम् । स्तोमः । अश्विनौ । अधायि ।
आ । इह । यातम् । पथिऽभिः । देवऽयानैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥átāriṣma ǀ támasaḥ ǀ pārám ǀ asyá ǀ práti ǀ vām ǀ stómaḥ ǀ aśvinau ǀ adhāyi ǀ
ā́ ǀ ihá ǀ yātam ǀ pathí-bhiḥ ǀ deva-yā́naiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁatāriṣma ǀ tamasaḥ ǀ pāram ǀ asya ǀ prati ǀ vām ǀ stomaḥ ǀ aśvinau ǀ adhāyi ǀ
ā ǀ iha ǀ yātam ǀ pathi-bhiḥ ǀ deva-yānaiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.184.6 Aṣṭaka 2.5.1.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.