Ṛgveda · Maṇḍala 1 · Sūkta 184
Ṛk 1.184.2
Saṃhitā
अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मदं॑ता ।
श्रु॒तं मे॒ अच्छो॑क्तिभिर्मती॒नामेष्टा॑ नरा॒ निचे॑तारा च॒ कर्णैः॑ ॥
अस्मे ऊ षु वृषणा मादयेथाम् उत् पणींर् हतम् ऊर्म्या मदन्ता |
श्रुतम् मे अच्छोक्तिभिर् मतीनाम् एष्टा नरा निचेतारा च कर्णैः ||
asmé ū ṣú vṛṣaṇā mādayethāmútpaṇī́m̐rhatamūrmyā́ mádantā ǀ
śrutám me ácchoktibhirmatīnā́méṣṭā narā nícetārā ca kárṇaiḥ ǁ
asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā |
śrutam me acchoktibhir matīnām eṣṭā narā nicetārā ca karṇaiḥ ||
Padapāṭha
अ॒स्मे इति॑ । ऊं॒ इति॑ । सु । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् । उत् । प॒णीन् । ह॒त॒म् । ऊ॒र्म्या । मद॑न्ता ।
श्रु॒तम् । मे॒ । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । एष्टा॑ । न॒रा॒ । निऽचे॑तारा । च॒ । कर्णैः॑ ॥
अस्मे इति । ऊं इति । सु । वृषणा । मादयेथाम् । उत् । पणीन् । हतम् । ऊर्म्या । मदन्ता ।
श्रुतम् । मे । अच्छोक्तिऽभिः । मतीनाम् । एष्टा । नरा । निऽचेतारा । च । कर्णैः ॥
asmé íti ǀ ūṃ íti ǀ sú ǀ vṛṣaṇā ǀ mādayethām ǀ út ǀ paṇī́n ǀ hatam ǀ ūrmyā́ ǀ mádantā ǀ
śrutám ǀ me ǀ ácchokti-bhiḥ ǀ matīnā́m ǀ éṣṭā ǀ narā ǀ ní-cetārā ǀ ca ǀ kárṇaiḥ ǁ
asme iti ǀ ūṃ iti ǀ su ǀ vṛṣaṇā ǀ mādayethām ǀ ut ǀ paṇīn ǀ hatam ǀ ūrmyā ǀ madantā ǀ
śrutam ǀ me ǀ acchokti-bhiḥ ǀ matīnām ǀ eṣṭā ǀ narā ǀ ni-cetārā ǀ ca ǀ karṇaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.184.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.