Ṛgveda · Maṇḍala 1 · Sūkta 184
Ṛk 1.184.4
Saṃhitā
अ॒स्मे सा वां॑ माध्वी रा॒तिर॑स्तु॒ स्तोमं॑ हिनोतं मा॒न्यस्य॑ का॒रोः ।
अनु॒ यद्वां॑ श्रव॒स्या॑ सुदानू सु॒वीर्या॑य चर्ष॒णयो॒ मदं॑ति ॥
अस्मे सा वाम् माध्वी रातिर् अस्तु स्तोमं हिनोतम् मान्यस्य कारोः |
अनु यद् वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ||
asmé sā́ vām mādhvī rātírastu stómam hinotam mānyásya kāróḥ ǀ
ánu yádvām śravasyā́ sudānū suvī́ryāya carṣaṇáyo mádanti ǁ
asme sā vām mādhvī rātir astu stomaṃ hinotam mānyasya kāroḥ |
anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayo madanti ||
Padapāṭha
अ॒स्मे इति॑ । सा । वा॒म् । मा॒ध्वी॒ इति॑ । रा॒तिः । अ॒स्तु॒ । स्तोम॑म् । हि॒नो॒त॒म् । मा॒न्यस्य॑ । का॒रोः ।
अनु॑ । यत् । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । सु॒ऽवीर्या॑य । च॒र्ष॒णयः॑ । मद॑न्ति ॥
अस्मे इति । सा । वाम् । माध्वी इति । रातिः । अस्तु । स्तोमम् । हिनोतम् । मान्यस्य । कारोः ।
अनु । यत् । वाम् । श्रवस्या । सुदानू इति सुऽदानू । सुऽवीर्याय । चर्षणयः । मदन्ति ॥
asmé íti ǀ sā́ ǀ vām ǀ mādhvī íti ǀ rātíḥ ǀ astu ǀ stómam ǀ hinotam ǀ mānyásya ǀ kāróḥ ǀ
ánu ǀ yát ǀ vām ǀ śravasyā́ ǀ sudānū íti su-dānū ǀ su-vī́ryāya ǀ carṣaṇáyaḥ ǀ mádanti ǁ
asme iti ǀ sā ǀ vām ǀ mādhvī iti ǀ rātiḥ ǀ astu ǀ stomam ǀ hinotam ǀ mānyasya ǀ kāroḥ ǀ
anu ǀ yat ǀ vām ǀ śravasyā ǀ sudānū iti su-dānū ǀ su-vīryāya ǀ carṣaṇayaḥ ǀ madanti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.184.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.