Ṛgveda · Maṇḍala 1 · Sūkta 184
Ṛk 1.184.1
Saṃhitā
ता वा॑म॒द्य ताव॑प॒रं हु॑वेमो॒च्छंत्या॑मु॒षसि॒ वह्नि॑रु॒क्थैः ।
नास॑त्या॒ कुह॑ चि॒त्संता॑व॒र्यो दि॒वो नपा॑ता सु॒दास्त॑राय ॥
ता वाम् अद्य ताव् अपरं हुवेमोच्छन्त्याम् उषसि वह्निर् उक्थैः |
नासत्या कुह चित् सन्ताव् अर्यो दिवो नपाता सुदास्तराय ||
tā́ vāmadyá tā́vaparám huvemocchántyāmuṣási váhniruktháiḥ ǀ
nā́satyā kúha citsántāvaryó divó nápātā sudā́starāya ǁ
tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ |
nāsatyā kuha cit santāv aryo divo napātā sudāstarāya ||
Padapāṭha
ता । वा॒म् । अ॒द्य । तौ । अ॒प॒रम् । हु॒वे॒म॒ । उ॒च्छन्त्या॑म् । उ॒षसि॑ । वह्निः॑ । उ॒क्थैः ।
नास॑त्या । कुह॑ । चि॒त् । सन्तौ॑ । अ॒र्यः । दि॒वः । नपा॑ता । सु॒दाःऽत॑राय ॥
ता । वाम् । अद्य । तौ । अपरम् । हुवेम । उच्छन्त्याम् । उषसि । वह्निः । उक्थैः ।
नासत्या । कुह । चित् । सन्तौ । अर्यः । दिवः । नपाता । सुदाःऽतराय ॥
tā́ ǀ vām ǀ adyá ǀ táu ǀ aparám ǀ huvema ǀ ucchántyām ǀ uṣási ǀ váhniḥ ǀ uktháiḥ ǀ
nā́satyā ǀ kúha ǀ cit ǀ sántau ǀ aryáḥ ǀ diváḥ ǀ nápātā ǀ sudā́ḥ-tarāya ǁ
tā ǀ vām ǀ adya ǀ tau ǀ aparam ǀ huvema ǀ ucchantyām ǀ uṣasi ǀ vahniḥ ǀ ukthaiḥ ǀ
nāsatyā ǀ kuha ǀ cit ǀ santau ǀ aryaḥ ǀ divaḥ ǀ napātā ǀ sudāḥ-tarāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.184.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.