Ṛgveda · Maṇḍala 1 · Sūkta 184
Ṛk 1.184.3
Saṃhitā
श्रि॒ये पू॑षन्निषु॒कृते॑व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः॑ ।
व॒च्यंते॑ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः॑ ॥
श्रिये पूषन्न् इषुकृतेव देवा नासत्या वहतुं सूर्यायाः |
वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ||
śriyé pūṣanniṣukṛ́teva devā́ nā́satyā vahatúm sūryā́yāḥ ǀ
vacyánte vām kakuhā́ apsú jātā́ yugā́ jūrṇéva váruṇasya bhū́reḥ ǁ
śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ |
vacyante vāṃ kakuhā apsu jātā yugā jūrṇeva varuṇasya bhūreḥ ||
Padapāṭha
श्रि॒ये । पू॒ष॒न् । इ॒षु॒कृता॑ऽइव । दे॒वा । नास॑त्या । व॒ह॒तुम् । सू॒र्यायाः॑ ।
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हाः । अ॒प्ऽसु । जा॒ताः । यु॒गा । जू॒र्णाऽइ॑व । वरु॑णस्य । भूरेः॑ ॥
श्रिये । पूषन् । इषुकृताऽइव । देवा । नासत्या । वहतुम् । सूर्यायाः ।
वच्यन्ते । वाम् । ककुहाः । अप्ऽसु । जाताः । युगा । जूर्णाऽइव । वरुणस्य । भूरेः ॥
śriyé ǀ pūṣan ǀ iṣukṛ́tā-iva ǀ devā́ ǀ nā́satyā ǀ vahatúm ǀ sūryā́yāḥ ǀ
vacyánte ǀ vām ǀ kakuhā́ḥ ǀ ap-sú ǀ jātā́ḥ ǀ yugā́ ǀ jūrṇā́-iva ǀ váruṇasya ǀ bhū́reḥ ǁ
śriye ǀ pūṣan ǀ iṣukṛtā-iva ǀ devā ǀ nāsatyā ǀ vahatum ǀ sūryāyāḥ ǀ
vacyante ǀ vām ǀ kakuhāḥ ǀ ap-su ǀ jātāḥ ǀ yugā ǀ jūrṇā-iva ǀ varuṇasya ǀ bhūreḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.184.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.5.01.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.