Sūkta 62
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles ārṣītriṣṭup (10-13); virāḍārṣītriṣṭup (1, 4, 6); nicṛdārṣītriṣṭup (2, 5, 9); bhurigārṣīpaṅkti (3, 7, 8)
2nd set of styles triṣṭubh
-
Ṛk 1
प्र म॑न्महे शवसा॒नाय॑ शू॒षमां॑गू॒षं गिर्व॑णसे अंगिर॒स्वत् ।
सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥प्र मन्महे शवसानाय शूषम् आङ्गूषं गिर्वणसे अङ्गिरस्वत् |
सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ||prá manmahe śavasānā́ya śūṣámāṅgūṣám gírvaṇase aṅgirasvát ǀ
suvṛktíbhiḥ stuvatá ṛgmiyā́yā́rcāmārkám náre víśrutāya ǁpra manmahe śavasānāya śūṣam āṅgūṣaṃ girvaṇase aṅgirasvat |
suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya ||प्र । म॒न्म॒हे॒ । श॒व॒सा॒नाय॑ । शू॒षम् । आ॒ङ्गू॒षम् । गिर्व॑णसे । अ॒ङ्गि॒र॒स्वत् ।
सु॒वृ॒क्तिऽभिः॑ । स्तु॒व॒ते । ऋ॒ग्मि॒याय॑ । अर्चा॑म । अ॒र्कम् । नरे॑ । विऽश्रु॑ताय ॥प्र । मन्महे । शवसानाय । शूषम् । आङ्गूषम् । गिर्वणसे । अङ्गिरस्वत् ।
सुवृक्तिऽभिः । स्तुवते । ऋग्मियाय । अर्चाम । अर्कम् । नरे । विऽश्रुताय ॥prá ǀ manmahe ǀ śavasānā́ya ǀ śūṣám ǀ āṅgūṣám ǀ gírvaṇase ǀ aṅgirasvát ǀ
suvṛktí-bhiḥ ǀ stuvaté ǀ ṛgmiyā́ya ǀ árcāma ǀ arkám ǀ náre ǀ ví-śrutāya ǁpra ǀ manmahe ǀ śavasānāya ǀ śūṣam ǀ āṅgūṣam ǀ girvaṇase ǀ aṅgirasvat ǀ
suvṛkti-bhiḥ ǀ stuvate ǀ ṛgmiyāya ǀ arcāma ǀ arkam ǀ nare ǀ vi-śrutāya ǁ1.62.1 Aṣṭaka 1.5.1.0
-
Ṛk 2
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमांगू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।
येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्चं॑तो॒ अंगि॑रसो॒ गा अविं॑दन् ॥प्र वो महे महि नमो भरध्वम् आङ्गूष्यं शवसानाय साम |
येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ||prá vo mahé máhi námo bharadhvamāṅgūṣyám śavasānā́ya sā́ma ǀ
yénā naḥ pū́rve pitáraḥ padajñā́ árcanto áṅgiraso gā́ ávindan ǁpra vo mahe mahi namo bharadhvam āṅgūṣyaṃ śavasānāya sāma |
yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan ||प्र । वः॒ । म॒हे । महि॑ । नमः॑ । भ॒र॒ध्व॒म् । आ॒ङ्गू॒ष्य॑म् । श॒व॒सा॒नाय॑ । साम॑ ।
येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । अर्च॑न्तः । अङ्गि॑रसः । गाः । अवि॑न्दन् ॥प्र । वः । महे । महि । नमः । भरध्वम् । आङ्गूष्यम् । शवसानाय । साम ।
येन । नः । पूर्वे । पितरः । पदऽज्ञाः । अर्चन्तः । अङ्गिरसः । गाः । अविन्दन् ॥prá ǀ vaḥ ǀ mahé ǀ máhi ǀ námaḥ ǀ bharadhvam ǀ āṅgūṣyám ǀ śavasānā́ya ǀ sā́ma ǀ
yéna ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ pada-jñā́ḥ ǀ árcantaḥ ǀ áṅgirasaḥ ǀ gā́ḥ ǀ ávindan ǁpra ǀ vaḥ ǀ mahe ǀ mahi ǀ namaḥ ǀ bharadhvam ǀ āṅgūṣyam ǀ śavasānāya ǀ sāma ǀ
yena ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ pada-jñāḥ ǀ arcantaḥ ǀ aṅgirasaḥ ǀ gāḥ ǀ avindan ǁ1.62.2 Aṣṭaka 1.5.1.0
-
Ṛk 3
इंद्र॒स्यांगि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिं ।
बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः समु॒स्रिया॑भिर्वावशंत॒ नरः॑ ॥इन्द्रस्याङ्गिरसां चेष्टौ विदत् सरमा तनयाय धासिम् |
बृहस्पतिर् भिनद् अद्रिं विदद् गाः सम् उस्रियाभिर् वावशन्त नरः ||índrasyā́ṅgirasām ceṣṭáu vidátsarámā tánayāya dhāsím ǀ
bṛ́haspátirbhinádádrim vidádgā́ḥ sámusríyābhirvāvaśanta náraḥ ǁindrasyāṅgirasāṃ ceṣṭau vidat saramā tanayāya dhāsim |
bṛhaspatir bhinad adriṃ vidad gāḥ sam usriyābhir vāvaśanta naraḥ ||इन्द्र॑स्य । अङ्गि॑रसाम् । च॒ । इ॒ष्टौ । वि॒दत् । स॒रमा॑ । तन॑याय । धा॒सिम् ।
बृह॒स्पतिः॑ । भि॒नत् । अद्रि॑म् । वि॒दत् । गाः । सम् । उ॒स्रिया॑भिः । वा॒व॒श॒न्त॒ । नरः॑ ॥इन्द्रस्य । अङ्गिरसाम् । च । इष्टौ । विदत् । सरमा । तनयाय । धासिम् ।
बृहस्पतिः । भिनत् । अद्रिम् । विदत् । गाः । सम् । उस्रियाभिः । वावशन्त । नरः ॥índrasya ǀ áṅgirasām ǀ ca ǀ iṣṭáu ǀ vidát ǀ sarámā ǀ tánayāya ǀ dhāsím ǀ
bṛ́haspátiḥ ǀ bhinát ǀ ádrim ǀ vidát ǀ gā́ḥ ǀ sám ǀ usríyābhiḥ ǀ vāvaśanta ǀ náraḥ ǁindrasya ǀ aṅgirasām ǀ ca ǀ iṣṭau ǀ vidat ǀ saramā ǀ tanayāya ǀ dhāsim ǀ
bṛhaspatiḥ ǀ bhinat ǀ adrim ǀ vidat ǀ gāḥ ǀ sam ǀ usriyābhiḥ ǀ vāvaśanta ǀ naraḥ ǁ1.62.3 Aṣṭaka 1.5.1.0
-
Ṛk 4
स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः॑ स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः ।
स॒र॒ण्युभिः॑ फलि॒गमिं॑द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः |
सरण्युभिः फलिगम् इन्द्र शक्र वलं रवेण दरयो दशग्वैः ||sá suṣṭúbhā sá stubhā́ saptá vípraiḥ svaréṇā́drim svaryó návagvaiḥ ǀ
saraṇyúbhiḥ phaligámindra śakra valám ráveṇa darayo dáśagvaiḥ ǁsa suṣṭubhā sa stubhā sapta vipraiḥ svareṇādriṃ svaryo navagvaiḥ |
saraṇyubhiḥ phaligam indra śakra valaṃ raveṇa darayo daśagvaiḥ ||सः । सु॒ऽस्तुभा॑ । सः । स्तु॒भा । स॒प्त । विप्रैः॑ । स्व॒रेण॑ । अद्रि॑म् । स्व॒र्यः॑ । नव॑ऽग्वैः ।
स॒र॒ण्युऽभिः॑ । फ॒लि॒ऽगम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे॑ण । द॒र॒यः॒ । दश॑ऽग्वैः ॥सः । सुऽस्तुभा । सः । स्तुभा । सप्त । विप्रैः । स्वरेण । अद्रिम् । स्वर्यः । नवऽग्वैः ।
सरण्युऽभिः । फलिऽगम् । इन्द्र । शक्र । वलम् । रवेण । दरयः । दशऽग्वैः ॥sáḥ ǀ su-stúbhā ǀ sáḥ ǀ stubhā́ ǀ saptá ǀ vípraiḥ ǀ svaréṇa ǀ ádrim ǀ svaryáḥ ǀ náva-gvaiḥ ǀ
saraṇyú-bhiḥ ǀ phali-gám ǀ indra ǀ śakra ǀ valám ǀ ráveṇa ǀ darayaḥ ǀ dáśa-gvaiḥ ǁsaḥ ǀ su-stubhā ǀ saḥ ǀ stubhā ǀ sapta ǀ vipraiḥ ǀ svareṇa ǀ adrim ǀ svaryaḥ ǀ nava-gvaiḥ ǀ
saraṇyu-bhiḥ ǀ phali-gam ǀ indra ǀ śakra ǀ valam ǀ raveṇa ǀ darayaḥ ǀ daśa-gvaiḥ ǁ1.62.4 Aṣṭaka 1.5.1.0
-
Ṛk 5
गृ॒णा॒नो अंगि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रंधः॑ ।
वि भूम्या॑ अप्रथय इंद्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥गृणानो अङ्गिरोभिर् दस्म वि वर् उषसा सूर्येण गोभिर् अन्धः |
वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरम् अस्तभायः ||gṛṇānó áṅgirobhirdasma ví varuṣásā sū́ryeṇa góbhirándhaḥ ǀ
ví bhū́myā aprathaya indra sā́nu divó rája úparamastabhāyaḥ ǁgṛṇāno aṅgirobhir dasma vi var uṣasā sūryeṇa gobhir andhaḥ |
vi bhūmyā aprathaya indra sānu divo raja uparam astabhāyaḥ ||गृ॒णा॒नः । अङ्गि॑रःऽभिः । द॒स्म॒ । वि । वः॒ । उ॒षसा॑ । सूर्ये॑ण । गोभिः॑ । अन्धः॑ ।
वि । भूम्याः॑ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु॑ । दि॒वः । रजः॑ । उप॑रम् । अ॒स्त॒भा॒यः॒ ॥गृणानः । अङ्गिरःऽभिः । दस्म । वि । वः । उषसा । सूर्येण । गोभिः । अन्धः ।
वि । भूम्याः । अप्रथयः । इन्द्र । सानु । दिवः । रजः । उपरम् । अस्तभायः ॥gṛṇānáḥ ǀ áṅgiraḥ-bhiḥ ǀ dasma ǀ ví ǀ vaḥ ǀ uṣásā ǀ sū́ryeṇa ǀ góbhiḥ ǀ ándhaḥ ǀ
ví ǀ bhū́myāḥ ǀ aprathayaḥ ǀ indra ǀ sā́nu ǀ diváḥ ǀ rájaḥ ǀ úparam ǀ astabhāyaḥ ǁgṛṇānaḥ ǀ aṅgiraḥ-bhiḥ ǀ dasma ǀ vi ǀ vaḥ ǀ uṣasā ǀ sūryeṇa ǀ gobhiḥ ǀ andhaḥ ǀ
vi ǀ bhūmyāḥ ǀ aprathayaḥ ǀ indra ǀ sānu ǀ divaḥ ǀ rajaḥ ǀ uparam ǀ astabhāyaḥ ǁ1.62.5 Aṣṭaka 1.5.1.0
-
Ṛk 6
तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ ।
उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥तद् उ प्रयक्षतमम् अस्य कर्म दस्मस्य चारुतमम् अस्ति दंसः |
उपह्वरे यद् उपरा अपिन्वन् मध्वर्णसो नद्यश् चतस्रः ||tádu práyakṣatamamasya kárma dasmásya cā́rutamamasti dáṃsaḥ ǀ
upahvaré yádúparā ápinvanmádhvarṇaso nadyáścátasraḥ ǁtad u prayakṣatamam asya karma dasmasya cārutamam asti daṃsaḥ |
upahvare yad uparā apinvan madhvarṇaso nadyaś catasraḥ ||तत् । ऊं॒ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ । कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् । अ॒स्ति॒ । दंसः॑ ।
उ॒प॒ऽह्व॒रे । यत् । उप॑राः । अपि॑न्वत् । मधु॑ऽअर्णसः । न॒द्यः॑ । चत॑स्रः ॥तत् । ऊं इति । प्रयक्षऽतमम् । अस्य । कर्म । दस्मस्य । चारुऽतमम् । अस्ति । दंसः ।
उपऽह्वरे । यत् । उपराः । अपिन्वत् । मधुऽअर्णसः । नद्यः । चतस्रः ॥tát ǀ ūṃ íti ǀ práyakṣa-tamam ǀ asya ǀ kárma ǀ dasmásya ǀ cā́ru-tamam ǀ asti ǀ dáṃsaḥ ǀ
upa-hvaré ǀ yát ǀ úparāḥ ǀ ápinvat ǀ mádhu-arṇasaḥ ǀ nadyáḥ ǀ cátasraḥ ǁtat ǀ ūṃ iti ǀ prayakṣa-tamam ǀ asya ǀ karma ǀ dasmasya ǀ cāru-tamam ǀ asti ǀ daṃsaḥ ǀ
upa-hvare ǀ yat ǀ uparāḥ ǀ apinvat ǀ madhu-arṇasaḥ ǀ nadyaḥ ǀ catasraḥ ǁ1.62.6 Aṣṭaka 1.5.2.0
-
Ṛk 7
द्वि॒ता वि व॑व्रे स॒नजा॒ सनी॑ळे अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः ।
भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द्रोद॑सी सु॒दंसाः॑ ॥द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिर् अर्कैः |
भगो न मेने परमे व्योमन्न् अधारयद् रोदसी सुदंसाः ||dvitā́ ví vavre sanájā sánīḷe ayā́syaḥ stávamānebhirarkáiḥ ǀ
bhágo ná méne paramé vyómannádhārayadródasī sudáṃsāḥ ǁdvitā vi vavre sanajā sanīḷe ayāsya stavamānebhir arkaiḥ |
bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ ||द्वि॒ता । वि । व॒व्रे॒ । स॒ऽनजा॑ । सनी॑ळे॒ इति॒ सऽनी॑ळे । अ॒यास्यः॑ । स्तव॑मानेभिः । अ॒र्कैः ।
भगः॑ । न । मेने॒ इति॑ । प॒र॒मे । विऽओ॑मन् । अधा॑रयत् । रोद॑सी॒ इति॑ । सु॒ऽदंसाः॑ ॥द्विता । वि । वव्रे । सऽनजा । सनीळे इति सऽनीळे । अयास्यः । स्तवमानेभिः । अर्कैः ।
भगः । न । मेने इति । परमे । विऽओमन् । अधारयत् । रोदसी इति । सुऽदंसाः ॥dvitā́ ǀ ví ǀ vavre ǀ sa-nájā ǀ sánīḷe íti sá-nīḷe ǀ ayā́syaḥ ǀ stávamānebhiḥ ǀ arkáiḥ ǀ
bhágaḥ ǀ ná ǀ méne íti ǀ paramé ǀ ví-oman ǀ ádhārayat ǀ ródasī íti ǀ su-dáṃsāḥ ǁdvitā ǀ vi ǀ vavre ǀ sa-najā ǀ sanīḷe iti sa-nīḷe ǀ ayāsyaḥ ǀ stavamānebhiḥ ǀ arkaiḥ ǀ
bhagaḥ ǀ na ǀ mene iti ǀ parame ǀ vi-oman ǀ adhārayat ǀ rodasī iti ǀ su-daṃsāḥ ǁ1.62.7 Aṣṭaka 1.5.2.0
-
Ṛk 8
स॒नाद्दिवं॒ परि॒ भूमा॒ विरू॑पे पुन॒र्भुवा॑ युव॒ती स्वेभि॒रेवैः॑ ।
कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या॑ ॥सनाद् दिवम् परि भूमा विरूपे पुनर्भुवा युवती स्वेभिर् एवैः |
कृष्णेभिर् अक्तोषा रुशद्भिर् वपुर्भिर् आ चरतो अन्यान्या ||sanā́ddívam pári bhū́mā vírūpe punarbhúvā yuvatī́ svébhirévaiḥ ǀ
kṛṣṇébhiraktóṣā́ rúśadbhirvápurbhirā́ carato anyā́nyā ǁsanād divam pari bhūmā virūpe punarbhuvā yuvatī svebhir evaiḥ |
kṛṣṇebhir aktoṣā ruśadbhir vapurbhir ā carato anyānyā ||स॒नात् । दिव॑म् । परि॑ । भूम॑ । विरू॑पे॒ इति॒ विऽरू॑पे । पु॒नः॒ऽभुवा॑ । यु॒व॒ती इति॑ । स्वेभिः॑ । एवैः॑ ।
कृ॒ष्णेभिः॑ । अ॒क्ता । उ॒षाः । रुश॑त्ऽभिः । वपुः॑ऽभिः । आ । च॒र॒तः॒ । अ॒न्याऽअ॑न्या ॥सनात् । दिवम् । परि । भूम । विरूपे इति विऽरूपे । पुनःऽभुवा । युवती इति । स्वेभिः । एवैः ।
कृष्णेभिः । अक्ता । उषाः । रुशत्ऽभिः । वपुःऽभिः । आ । चरतः । अन्याऽअन्या ॥sanā́t ǀ dívam ǀ pári ǀ bhū́ma ǀ vírūpe íti ví-rūpe ǀ punaḥ-bhúvā ǀ yuvatī́ íti ǀ svébhiḥ ǀ évaiḥ ǀ
kṛṣṇébhiḥ ǀ aktā́ ǀ uṣā́ḥ ǀ rúśat-bhiḥ ǀ vápuḥ-bhiḥ ǀ ā́ ǀ carataḥ ǀ anyā́-anyā ǁsanāt ǀ divam ǀ pari ǀ bhūma ǀ virūpe iti vi-rūpe ǀ punaḥ-bhuvā ǀ yuvatī iti ǀ svebhiḥ ǀ evaiḥ ǀ
kṛṣṇebhiḥ ǀ aktā ǀ uṣāḥ ǀ ruśat-bhiḥ ǀ vapuḥ-bhiḥ ǀ ā ǀ carataḥ ǀ anyā-anyā ǁ1.62.8 Aṣṭaka 1.5.2.0
-
Ṛk 9
सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसाः॑ ।
आ॒मासु॑ चिद्दधिषे प॒क्वमं॒तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥सनेमि सख्यं स्वपस्यमानः सूनुर् दाधार शवसा सुदंसाः |
आमासु चिद् दधिषे पक्वम् अन्तः पयः कृष्णासु रुशद् रोहिणीषु ||sánemi sakhyám svapasyámānaḥ sūnúrdādhāra śávasā sudáṃsāḥ ǀ
āmā́su ciddadhiṣe pakvámantáḥ páyaḥ kṛṣṇā́su rúśadróhiṇīṣu ǁsanemi sakhyaṃ svapasyamānaḥ sūnur dādhāra śavasā sudaṃsāḥ |
āmāsu cid dadhiṣe pakvam antaḥ payaḥ kṛṣṇāsu ruśad rohiṇīṣu ||सने॑मि । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सू॒नुः । दा॒धा॒र॒ । शव॑सा । सु॒ऽदंसाः॑ ।
आ॒मासु॑ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति॑ । पयः॑ । कृ॒ष्णासु॑ । रुश॑त् । रोहि॑णीषु ॥सनेमि । सख्यम् । सुऽअपस्यमानः । सूनुः । दाधार । शवसा । सुऽदंसाः ।
आमासु । चित् । दधिषे । पक्वम् । अन्तरिति । पयः । कृष्णासु । रुशत् । रोहिणीषु ॥sánemi ǀ sakhyám ǀ su-apasyámānaḥ ǀ sūnúḥ ǀ dādhāra ǀ śávasā ǀ su-dáṃsāḥ ǀ
āmā́su ǀ cit ǀ dadhiṣe ǀ pakvám ǀ antáríti ǀ páyaḥ ǀ kṛṣṇā́su ǀ rúśat ǀ róhiṇīṣu ǁsanemi ǀ sakhyam ǀ su-apasyamānaḥ ǀ sūnuḥ ǀ dādhāra ǀ śavasā ǀ su-daṃsāḥ ǀ
āmāsu ǀ cit ǀ dadhiṣe ǀ pakvam ǀ antariti ǀ payaḥ ǀ kṛṣṇāsu ǀ ruśat ǀ rohiṇīṣu ǁ1.62.9 Aṣṭaka 1.5.2.0
-
Ṛk 10
स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षंते अ॒मृताः॒ सहो॑भिः ।
पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यंति॒ स्वसा॑रो॒ अह्र॑याणं ॥सनात् सनीऌआ अवनीर् अवाता व्रता रक्षन्ते अमृताः सहोभिः |
पुरू सहस्रा जनयो न पत्नीर् दुवस्यन्ति स्वसारो अह्रयाणम् ||sanā́tsánīḷā avánīravātā́ vratā́ rakṣante amṛ́tāḥ sáhobhiḥ ǀ
purū́ sahásrā jánayo ná pátnīrduvasyánti svásāro áhrayāṇam ǁsanāt sanīḷā avanīr avātā vratā rakṣante amṛtāḥ sahobhiḥ |
purū sahasrā janayo na patnīr duvasyanti svasāro ahrayāṇam ||स॒नात् । सऽनी॑ळाः । अ॒वनीः॑ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः॑ । सहः॑ऽभिः ।
पु॒रु । स॒हस्रा॑ । जन॑यः । न । पत्नीः॑ । दु॒व॒स्यन्ति॑ । स्वसा॑रः । अह्र॑याणम् ॥सनात् । सऽनीळाः । अवनीः । अवाताः । व्रता । रक्षन्ते । अमृताः । सहःऽभिः ।
पुरु । सहस्रा । जनयः । न । पत्नीः । दुवस्यन्ति । स्वसारः । अह्रयाणम् ॥sanā́t ǀ sá-nīḷāḥ ǀ avánīḥ ǀ avātā́ḥ ǀ vratā́ ǀ rakṣante ǀ amṛ́tāḥ ǀ sáhaḥ-bhiḥ ǀ
purú ǀ sahásrā ǀ jánayaḥ ǀ ná ǀ pátnīḥ ǀ duvasyánti ǀ svásāraḥ ǀ áhrayāṇam ǁsanāt ǀ sa-nīḷāḥ ǀ avanīḥ ǀ avātāḥ ǀ vratā ǀ rakṣante ǀ amṛtāḥ ǀ sahaḥ-bhiḥ ǀ
puru ǀ sahasrā ǀ janayaḥ ǀ na ǀ patnīḥ ǀ duvasyanti ǀ svasāraḥ ǀ ahrayāṇam ǁ1.62.10 Aṣṭaka 1.5.2.0
-
Ṛk 11
स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
पतिं॒ न पत्नी॑रुश॒तीरु॒शंतं॑ स्पृ॒शंति॑ त्वा शवसावन्मनी॒षाः ॥सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः |
पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ||sanāyúvo námasā návyo arkáirvasūyávo matáyo dasma dadruḥ ǀ
pátim ná pátnīruśatī́ruśántam spṛśánti tvā śavasāvanmanīṣā́ḥ ǁsanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ |
patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ ||स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ ।
पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥सनाऽयुवः । नमसा । नव्यः । अर्कैः । वसुऽयवः । मतयः । दस्म । दद्रुः ।
पतिम् । न । पत्नीः । उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसाऽवन् । मनीषाः ॥sanā-yúvaḥ ǀ námasā ǀ návyaḥ ǀ arkáiḥ ǀ vasu-yávaḥ ǀ matáyaḥ ǀ dasma ǀ dadruḥ ǀ
pátim ǀ ná ǀ pátnīḥ ǀ uśatī́ḥ ǀ uśántam ǀ spṛśánti ǀ tvā ǀ śavasā-van ǀ manīṣā́ḥ ǁsanā-yuvaḥ ǀ namasā ǀ navyaḥ ǀ arkaiḥ ǀ vasu-yavaḥ ǀ matayaḥ ǀ dasma ǀ dadruḥ ǀ
patim ǀ na ǀ patnīḥ ǀ uśatīḥ ǀ uśantam ǀ spṛśanti ǀ tvā ǀ śavasā-van ǀ manīṣāḥ ǁ1.62.11 Aṣṭaka 1.5.2.0
-
Ṛk 12
स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीयं॑ते॒ नोप॑ दस्यंति दस्म ।
द्यु॒माँ अ॑सि॒ क्रतु॑माँ इंद्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ॥सनाद् एव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म |
द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस् तव नः शचीभिः ||sanā́devá táva rā́yo gábhastau ná kṣī́yante nópa dasyanti dasma ǀ
dyumā́m̐ asi krátumām̐ indra dhī́raḥ śíkṣā śacīvastáva naḥ śácībhiḥ ǁsanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma |
dyumāṃ asi kratumāṃ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ ||स॒नात् । ए॒व । तव॑ । रायः॑ । गभ॑स्तौ । न । क्षीय॑न्ते । न । उप॑ । द॒स्य॒न्ति॒ । द॒स्म॒ ।
द्यु॒ऽमान् । अ॒सि॒ । क्रतु॑ऽमान् । इ॒न्द्र॒ । धीरः॑ । शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । नः॒ । शची॑भिः ॥सनात् । एव । तव । रायः । गभस्तौ । न । क्षीयन्ते । न । उप । दस्यन्ति । दस्म ।
द्युऽमान् । असि । क्रतुऽमान् । इन्द्र । धीरः । शिक्ष । शचीऽवः । तव । नः । शचीभिः ॥sanā́t ǀ evá ǀ táva ǀ rā́yaḥ ǀ gábhastau ǀ ná ǀ kṣī́yante ǀ ná ǀ úpa ǀ dasyanti ǀ dasma ǀ
dyu-mā́n ǀ asi ǀ krátu-mān ǀ indra ǀ dhī́raḥ ǀ śíkṣa ǀ śacī-vaḥ ǀ táva ǀ naḥ ǀ śácībhiḥ ǁsanāt ǀ eva ǀ tava ǀ rāyaḥ ǀ gabhastau ǀ na ǀ kṣīyante ǀ na ǀ upa ǀ dasyanti ǀ dasma ǀ
dyu-mān ǀ asi ǀ kratu-mān ǀ indra ǀ dhīraḥ ǀ śikṣa ǀ śacī-vaḥ ǀ tava ǀ naḥ ǀ śacībhiḥ ǁ1.62.12 Aṣṭaka 1.5.3.0
-
Ṛk 13
स॒ना॒य॒ते गोत॑म इंद्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय ।
सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥सनायते गोतम इन्द्र नव्यम् अतक्षद् ब्रह्म हरियोजनाय |
सुनीथाय नः शवसान नोधाः प्रातर् मक्षू धियावसुर् जगम्यात् ||sanāyaté gótama indra návyamátakṣadbráhma hariyójanāya ǀ
sunīthā́ya naḥ śavasāna nodhā́ḥ prātármakṣū́ dhiyā́vasurjagamyāt ǁsanāyate gotama indra navyam atakṣad brahma hariyojanāya |
sunīthāya naḥ śavasāna nodhāḥ prātar makṣū dhiyāvasur jagamyāt ||स॒ना॒ऽय॒ते । गोत॑मः । इ॒न्द्र॒ । नव्य॑म् । अत॑क्षत् । ब्रह्म॑ । ह॒रि॒ऽयोज॑नाय ।
सु॒ऽनी॒थाय॑ । नः॒ । श॒व॒सा॒न॒ । नो॒धाः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥सनाऽयते । गोतमः । इन्द्र । नव्यम् । अतक्षत् । ब्रह्म । हरिऽयोजनाय ।
सुऽनीथाय । नः । शवसान । नोधाः । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥sanā-yaté ǀ gótamaḥ ǀ indra ǀ návyam ǀ átakṣat ǀ bráhma ǀ hari-yójanāya ǀ
su-nīthā́ya ǀ naḥ ǀ śavasāna ǀ nodhā́ḥ ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁsanā-yate ǀ gotamaḥ ǀ indra ǀ navyam ǀ atakṣat ǀ brahma ǀ hari-yojanāya ǀ
su-nīthāya ǀ naḥ ǀ śavasāna ǀ nodhāḥ ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ1.62.13 Aṣṭaka 1.5.3.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.