Ṛk 1.62.11
Saṃhitā
स॒ना॒युवो॒ नम॑सा॒ नव्यो॑ अ॒र्कैर्व॑सू॒यवो॑ म॒तयो॑ दस्म दद्रुः ।
पतिं॒ न पत्नी॑रुश॒तीरु॒शंतं॑ स्पृ॒शंति॑ त्वा शवसावन्मनी॒षाः ॥
सनायुवो नमसा नव्यो अर्कैर् वसूयवो मतयो दस्म दद्रुः |
पतिं न पत्नीर् उशतीर् उशन्तं स्पृशन्ति त्वा शवसावन् मनीषाः ||
sanāyúvo námasā návyo arkáirvasūyávo matáyo dasma dadruḥ ǀ
pátim ná pátnīruśatī́ruśántam spṛśánti tvā śavasāvanmanīṣā́ḥ ǁ
sanāyuvo namasā navyo arkair vasūyavo matayo dasma dadruḥ |
patiṃ na patnīr uśatīr uśantaṃ spṛśanti tvā śavasāvan manīṣāḥ ||
Padapāṭha
स॒ना॒ऽयुवः॑ । नम॑सा । नव्यः॑ । अ॒र्कैः । व॒सु॒ऽयवः॑ । म॒तयः॑ । द॒स्म॒ । द॒द्रुः॒ ।
पति॑म् । न । पत्नीः॑ । उ॒श॒तीः । उ॒शन्त॑म् । स्पृ॒शन्ति॑ । त्वा॒ । श॒व॒सा॒ऽव॒न् । म॒नी॒षाः ॥
सनाऽयुवः । नमसा । नव्यः । अर्कैः । वसुऽयवः । मतयः । दस्म । दद्रुः ।
पतिम् । न । पत्नीः । उशतीः । उशन्तम् । स्पृशन्ति । त्वा । शवसाऽवन् । मनीषाः ॥
sanā-yúvaḥ ǀ námasā ǀ návyaḥ ǀ arkáiḥ ǀ vasu-yávaḥ ǀ matáyaḥ ǀ dasma ǀ dadruḥ ǀ
pátim ǀ ná ǀ pátnīḥ ǀ uśatī́ḥ ǀ uśántam ǀ spṛśánti ǀ tvā ǀ śavasā-van ǀ manīṣā́ḥ ǁ
sanā-yuvaḥ ǀ namasā ǀ navyaḥ ǀ arkaiḥ ǀ vasu-yavaḥ ǀ matayaḥ ǀ dasma ǀ dadruḥ ǀ
patim ǀ na ǀ patnīḥ ǀ uśatīḥ ǀ uśantam ǀ spṛśanti ǀ tvā ǀ śavasā-van ǀ manīṣāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.062.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.5.02.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nodhas Gautama
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.