Sūkta 109
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 4, 6, 8); triṣṭup (2, 5); virāṭtrisṭup (7)
2nd set of styles triṣṭubh
-
Ṛk 1
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निंद्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यंती॑मतक्षं ॥वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् |
नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ||ví hyákhyam mánasā vásya icchánníndrāgnī jñāsá utá vā sajātā́n ǀ
nā́nyā́ yuvátprámatirasti máhyam sá vām dhíyam vājayántīmatakṣam ǁvi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān |
nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam ||वि । हि । अख्य॑म् । मन॑सा । वस्यः॑ । इ॒च्छन् । इन्द्रा॑ग्नी॒ इति॑ । ज्ञा॒सः । उ॒त । वा॒ । स॒ऽजा॒तान् ।
न । अ॒न्या । यु॒वत् । प्रऽम॑तिः । अ॒स्ति॒ । मह्य॑म् । सः । वा॒म् । धिय॑म् । वा॒ज॒ऽयन्ती॑म् । अ॒त॒क्ष॒म् ॥वि । हि । अख्यम् । मनसा । वस्यः । इच्छन् । इन्द्राग्नी इति । ज्ञासः । उत । वा । सऽजातान् ।
न । अन्या । युवत् । प्रऽमतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाजऽयन्तीम् । अतक्षम् ॥ví ǀ hí ǀ ákhyam ǀ mánasā ǀ vásyaḥ ǀ icchán ǀ índrāgnī íti ǀ jñāsáḥ ǀ utá ǀ vā ǀ sa-jātā́n ǀ
ná ǀ anyā́ ǀ yuvát ǀ prá-matiḥ ǀ asti ǀ máhyam ǀ sáḥ ǀ vām ǀ dhíyam ǀ vāja-yántīm ǀ atakṣam ǁvi ǀ hi ǀ akhyam ǀ manasā ǀ vasyaḥ ǀ icchan ǀ indrāgnī iti ǀ jñāsaḥ ǀ uta ǀ vā ǀ sa-jātān ǀ
na ǀ anyā ǀ yuvat ǀ pra-matiḥ ǀ asti ǀ mahyam ǀ saḥ ǀ vām ǀ dhiyam ǀ vāja-yantīm ǀ atakṣam ǁ1.109.1 Aṣṭaka 1.7.28.1Anuvāka 1.16.24
-
Ṛk 2
अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् ।
अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिंद्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्यं॑ ॥अश्रवं हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् |
अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ||áśravam hí bhūridā́vattarā vām víjāmāturutá vā ghā syālā́t ǀ
áthā sómasya práyatī yuvábhyāmíndrāgnī stómam janayāmi návyam ǁaśravaṃ hi bhūridāvattarā vāṃ vijāmātur uta vā ghā syālāt |
athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam ||अश्र॑वम् । हि । भू॒रि॒दाव॑त्ऽतरा । वा॒म् । विऽजा॑मातुः । उ॒त । वा॒ । घ॒ । स्या॒लात् ।
अथ॑ । सोम॑स्य । प्रऽय॑ती । यु॒वऽभ्या॑म् । इन्द्रा॑ग्नी॒ इति॑ । स्तोम॑म् । ज॒न॒या॒मि॒ । नव्य॑म् ॥अश्रवम् । हि । भूरिदावत्ऽतरा । वाम् । विऽजामातुः । उत । वा । घ । स्यालात् ।
अथ । सोमस्य । प्रऽयती । युवऽभ्याम् । इन्द्राग्नी इति । स्तोमम् । जनयामि । नव्यम् ॥áśravam ǀ hí ǀ bhūridā́vat-tarā ǀ vām ǀ ví-jāmātuḥ ǀ utá ǀ vā ǀ gha ǀ syālā́t ǀ
átha ǀ sómasya ǀ prá-yatī ǀ yuvá-bhyām ǀ índrāgnī íti ǀ stómam ǀ janayāmi ǀ návyam ǁaśravam ǀ hi ǀ bhūridāvat-tarā ǀ vām ǀ vi-jāmātuḥ ǀ uta ǀ vā ǀ gha ǀ syālāt ǀ
atha ǀ somasya ǀ pra-yatī ǀ yuva-bhyām ǀ indrāgnī iti ǀ stomam ǀ janayāmi ǀ navyam ǁ1.109.2 Aṣṭaka 1.7.28.2Anuvāka 1.16.25
-
Ṛk 3
मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः ।
इं॒द्रा॒ग्निभ्यां॒ कं वृष॑णो मदंति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥मा च्छेद्म रश्मींर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः |
इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ||mā́ cchedma raśmī́m̐ríti nā́dhamānāḥ pitṝṇā́m śaktī́ranuyácchamānāḥ ǀ
indrāgníbhyām kám vṛ́ṣaṇo madanti tā́ hyádrī dhiṣáṇāyā upásthe ǁmā cchedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ |
indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe ||मा । छे॒द्म॒ । र॒श्मीन् । इति॑ । नाध॑मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒ऽयच्छ॑मानाः ।
इ॒न्द्रा॒ग्निऽभ्या॑म् । कम् । वृष॑णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति॑ । धि॒षणा॑याः । उ॒पऽस्थे॑ ॥मा । छेद्म । रश्मीन् । इति । नाधमानाः । पितॄणाम् । शक्तीः । अनुऽयच्छमानाः ।
इन्द्राग्निऽभ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उपऽस्थे ॥mā́ ǀ chedma ǀ raśmī́n ǀ íti ǀ nā́dhamānāḥ ǀ pitṝṇā́m ǀ śaktī́ḥ ǀ anu-yácchamānāḥ ǀ
indrāgní-bhyām ǀ kám ǀ vṛ́ṣaṇaḥ ǀ madanti ǀ tā́ ǀ hí ǀ ádrī íti ǀ dhiṣáṇāyāḥ ǀ upá-sthe ǁmā ǀ chedma ǀ raśmīn ǀ iti ǀ nādhamānāḥ ǀ pitṝṇām ǀ śaktīḥ ǀ anu-yacchamānāḥ ǀ
indrāgni-bhyām ǀ kam ǀ vṛṣaṇaḥ ǀ madanti ǀ tā ǀ hi ǀ adrī iti ǀ dhiṣaṇāyāḥ ǀ upa-sthe ǁ1.109.3 Aṣṭaka 1.7.28.3Anuvāka 1.16.26
-
Ṛk 4
यु॒वाभ्यां॑ दे॒वी धि॒षणा॒ मदा॒येंद्रा॑ग्नी॒ सोम॑मुश॒ती सु॑नोति ।
ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा॑वतं॒ मधु॑ना पृं॒क्तम॒प्सु ॥युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोमम् उशती सुनोति |
ताव् अश्विना भद्रहस्ता सुपाणी आ धावतम् मधुना पृङ्क्तम् अप्सु ||yuvā́bhyām devī́ dhiṣáṇā mádāyéndrāgnī sómamuśatī́ sunoti ǀ
tā́vaśvinā bhadrahastā supāṇī ā́ dhāvatam mádhunā pṛṅktámapsú ǁyuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti |
tāv aśvinā bhadrahastā supāṇī ā dhāvatam madhunā pṛṅktam apsu ||यु॒वाभ्या॑म् । दे॒वी । धि॒षणा॑ । मदा॑य । इन्द्रा॑ग्नी॒ इति॑ । सोम॑म् । उ॒श॒ती । सु॒नो॒ति॒ ।
तौ । अ॒श्वि॒ना॒ । भ॒द्र॒ऽह॒स्ता॒ । सु॒पा॒णी॒ इति॑ सुऽपाणी । आ । धा॒व॒त॒म् । मधु॑ना । पृ॒ङ्क्तम् । अ॒प्ऽसु ॥युवाभ्याम् । देवी । धिषणा । मदाय । इन्द्राग्नी इति । सोमम् । उशती । सुनोति ।
तौ । अश्विना । भद्रऽहस्ता । सुपाणी इति सुऽपाणी । आ । धावतम् । मधुना । पृङ्क्तम् । अप्ऽसु ॥yuvā́bhyām ǀ devī́ ǀ dhiṣáṇā ǀ mádāya ǀ índrāgnī íti ǀ sómam ǀ uśatī́ ǀ sunoti ǀ
táu ǀ aśvinā ǀ bhadra-hastā ǀ supāṇī íti su-pāṇī ǀ ā́ ǀ dhāvatam ǀ mádhunā ǀ pṛṅktám ǀ ap-sú ǁyuvābhyām ǀ devī ǀ dhiṣaṇā ǀ madāya ǀ indrāgnī iti ǀ somam ǀ uśatī ǀ sunoti ǀ
tau ǀ aśvinā ǀ bhadra-hastā ǀ supāṇī iti su-pāṇī ǀ ā ǀ dhāvatam ǀ madhunā ǀ pṛṅktam ǀ ap-su ǁ1.109.4 Aṣṭaka 1.7.28.4Anuvāka 1.16.27
-
Ṛk 5
यु॒वामिं॑द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ ।
तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥युवाम् इन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये |
ताव् आसद्या बर्हिषि यज्ञे अस्मिन् प्र चर्षणी मादयेथां सुतस्य ||yuvā́mindrāgnī vásuno vibhāgé tavástamā śuśrava vṛtrahátye ǀ
tā́vāsádyā barhíṣi yajñé asmínprá carṣaṇī mādayethām sutásya ǁyuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye |
tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya ||यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति॑ । वसु॑नः । वि॒ऽभा॒गे । त॒वःऽत॑मा । शु॒श्र॒व॒ । वृ॒त्र॒ऽहत्ये॑ ।
तौ । आ॒ऽसद्य॑ । ब॒र्हिषि॑ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति॑ । मा॒द॒ये॒था॒म् । सु॒तस्य॑ ॥युवाम् । इन्द्राग्नी इति । वसुनः । विऽभागे । तवःऽतमा । शुश्रव । वृत्रऽहत्ये ।
तौ । आऽसद्य । बर्हिषि । यज्ञे । अस्मिन् । प्र । चर्षणी इति । मादयेथाम् । सुतस्य ॥yuvā́m ǀ indrāgnī íti ǀ vásunaḥ ǀ vi-bhāgé ǀ taváḥ-tamā ǀ śuśrava ǀ vṛtra-hátye ǀ
táu ǀ ā-sádya ǀ barhíṣi ǀ yajñé ǀ asmín ǀ prá ǀ carṣaṇī íti ǀ mādayethām ǀ sutásya ǁyuvām ǀ indrāgnī iti ǀ vasunaḥ ǀ vi-bhāge ǀ tavaḥ-tamā ǀ śuśrava ǀ vṛtra-hatye ǀ
tau ǀ ā-sadya ǀ barhiṣi ǀ yajñe ǀ asmin ǀ pra ǀ carṣaṇī iti ǀ mādayethām ǀ sutasya ǁ1.109.5 Aṣṭaka 1.7.28.5Anuvāka 1.16.28
-
Ṛk 6
प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
प्र सिंधु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेंद्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश् च |
प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ||prá carṣaṇíbhyaḥ pṛtanāháveṣu prá pṛthivyā́ riricāthe diváśca ǀ
prá síndhubhyaḥ prá giríbhyo mahitvā́ préndrāgnī víśvā bhúvanā́tyanyā́ ǁpra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca |
pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā ||प्र । च॒र्ष॒णिऽभ्यः॑ । पृ॒त॒ना॒ऽहवे॑षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति॑ । दि॒वः । च॒ ।
प्र । सिन्धु॑ऽभ्यः । प्र । गि॒रिऽभ्यः॑ । म॒हि॒ऽत्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति॑ । विश्वा॑ । भुव॑ना । अति॑ । अ॒न्या ॥प्र । चर्षणिऽभ्यः । पृतनाऽहवेषु । प्र । पृथिव्याः । रिरिचाथे इति । दिवः । च ।
प्र । सिन्धुऽभ्यः । प्र । गिरिऽभ्यः । महिऽत्वा । प्र । इन्द्राग्नी इति । विश्वा । भुवना । अति । अन्या ॥prá ǀ carṣaṇí-bhyaḥ ǀ pṛtanā-háveṣu ǀ prá ǀ pṛthivyā́ḥ ǀ riricāthe íti ǀ diváḥ ǀ ca ǀ
prá ǀ síndhu-bhyaḥ ǀ prá ǀ girí-bhyaḥ ǀ mahi-tvā́ ǀ prá ǀ indrāgnī íti ǀ víśvā ǀ bhúvanā ǀ áti ǀ anyā́ ǁpra ǀ carṣaṇi-bhyaḥ ǀ pṛtanā-haveṣu ǀ pra ǀ pṛthivyāḥ ǀ riricāthe iti ǀ divaḥ ǀ ca ǀ
pra ǀ sindhu-bhyaḥ ǀ pra ǀ giri-bhyaḥ ǀ mahi-tvā ǀ pra ǀ indrāgnī iti ǀ viśvā ǀ bhuvanā ǀ ati ǀ anyā ǁ1.109.6 Aṣṭaka 1.7.29.1Anuvāka 1.16.29
-
Ṛk 7
आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इं॑द्राग्नी अवतं॒ शची॑भिः ।
इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आस॑न् ॥आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः |
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वम् पितरो न आसन् ||ā́ bharatam śíkṣatam vajrabāhū asmā́m̐ indrāgnī avatam śácībhiḥ ǀ
imé nú té raśmáyaḥ sū́ryasya yébhiḥ sapitvám pitáro na ā́san ǁā bharataṃ śikṣataṃ vajrabāhū asmāṃ indrāgnī avataṃ śacībhiḥ |
ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan ||आ । भ॒र॒त॒म् । शिक्ष॑तम् । व॒ज्र॒बा॒हू॒ इति॑ वज्रऽबाहू । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । शची॑भिः ।
इ॒मे । नु । ते । र॒श्मयः॑ । सूर्य॑स्य । येभिः॑ । स॒ऽपि॒त्वम् । पि॒तरः॑ । नः॒ । आस॑न् ॥आ । भरतम् । शिक्षतम् । वज्रबाहू इति वज्रऽबाहू । अस्मान् । इन्द्राग्नी इति । अवतम् । शचीभिः ।
इमे । नु । ते । रश्मयः । सूर्यस्य । येभिः । सऽपित्वम् । पितरः । नः । आसन् ॥ā́ ǀ bharatam ǀ śíkṣatam ǀ vajrabāhū íti vajra-bāhū ǀ asmā́n ǀ indrāgnī íti ǀ avatam ǀ śácībhiḥ ǀ
imé ǀ nú ǀ té ǀ raśmáyaḥ ǀ sū́ryasya ǀ yébhiḥ ǀ sa-pitvám ǀ pitáraḥ ǀ naḥ ǀ ā́san ǁā ǀ bharatam ǀ śikṣatam ǀ vajrabāhū iti vajra-bāhū ǀ asmān ǀ indrāgnī iti ǀ avatam ǀ śacībhiḥ ǀ
ime ǀ nu ǀ te ǀ raśmayaḥ ǀ sūryasya ǀ yebhiḥ ǀ sa-pitvam ǀ pitaraḥ ǀ naḥ ǀ āsan ǁ1.109.7 Aṣṭaka 1.7.29.2Anuvāka 1.16.30
-
Ṛk 8
पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इं॑द्राग्नी अवतं॒ भरे॑षु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतम् भरेषु |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||púraṃdarā śíkṣatam vajrahastāsmā́m̐ indrāgnī avatam bháreṣu ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁpurandarā śikṣataṃ vajrahastāsmāṃ indrāgnī avatam bhareṣu |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||पुर॑म्ऽदरा । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥पुरम्ऽदरा । शिक्षतम् । वज्रऽहस्ता । अस्मान् । इन्द्राग्नी इति । अवतम् । भरेषु ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥púram-darā ǀ śíkṣatam ǀ vajra-hastā ǀ asmā́n ǀ indrāgnī íti ǀ avatam ǀ bháreṣu ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁpuram-darā ǀ śikṣatam ǀ vajra-hastā ǀ asmān ǀ indrāgnī iti ǀ avatam ǀ bhareṣu ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.109.8 Aṣṭaka 1.7.29.3Anuvāka 1.16.31
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.