Ṛgveda · Maṇḍala 1 · Sūkta 109
Ṛk 1.109.3
Saṃhitā
मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः ।
इं॒द्रा॒ग्निभ्यां॒ कं वृष॑णो मदंति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥
मा च्छेद्म रश्मींर् इति नाधमानाः पितॄणां शक्तीर् अनुयच्छमानाः |
इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्य् अद्री धिषणाया उपस्थे ||
mā́ cchedma raśmī́m̐ríti nā́dhamānāḥ pitṝṇā́m śaktī́ranuyácchamānāḥ ǀ
indrāgníbhyām kám vṛ́ṣaṇo madanti tā́ hyádrī dhiṣáṇāyā upásthe ǁ
mā cchedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ |
indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe ||
Padapāṭha
मा । छे॒द्म॒ । र॒श्मीन् । इति॑ । नाध॑मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒ऽयच्छ॑मानाः ।
इ॒न्द्रा॒ग्निऽभ्या॑म् । कम् । वृष॑णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति॑ । धि॒षणा॑याः । उ॒पऽस्थे॑ ॥
मा । छेद्म । रश्मीन् । इति । नाधमानाः । पितॄणाम् । शक्तीः । अनुऽयच्छमानाः ।
इन्द्राग्निऽभ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उपऽस्थे ॥
mā́ ǀ chedma ǀ raśmī́n ǀ íti ǀ nā́dhamānāḥ ǀ pitṝṇā́m ǀ śaktī́ḥ ǀ anu-yácchamānāḥ ǀ
indrāgní-bhyām ǀ kám ǀ vṛ́ṣaṇaḥ ǀ madanti ǀ tā́ ǀ hí ǀ ádrī íti ǀ dhiṣáṇāyāḥ ǀ upá-sthe ǁ
mā ǀ chedma ǀ raśmīn ǀ iti ǀ nādhamānāḥ ǀ pitṝṇām ǀ śaktīḥ ǀ anu-yacchamānāḥ ǀ
indrāgni-bhyām ǀ kam ǀ vṛṣaṇaḥ ǀ madanti ǀ tā ǀ hi ǀ adrī iti ǀ dhiṣaṇāyāḥ ǀ upa-sthe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.109.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.28.03
- Maṇḍala · Anuvāka · Ṛk
- 1.16.026
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.