Ṛgveda · Maṇḍala 1 · Sūkta 109
Ṛk 1.109.1
Saṃhitā
वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निंद्रा॑ग्नी ज्ञा॒स उ॒त वा॑ सजा॒तान् ।
नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं॑ वाज॒यंती॑मतक्षं ॥
वि ह्य् अख्यम् मनसा वस्य इच्छन्न् इन्द्राग्नी ज्ञास उत वा सजातान् |
नान्या युवत् प्रमतिर् अस्ति मह्यं स वां धियं वाजयन्तीम् अतक्षम् ||
ví hyákhyam mánasā vásya icchánníndrāgnī jñāsá utá vā sajātā́n ǀ
nā́nyā́ yuvátprámatirasti máhyam sá vām dhíyam vājayántīmatakṣam ǁ
vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān |
nānyā yuvat pramatir asti mahyaṃ sa vāṃ dhiyaṃ vājayantīm atakṣam ||
Padapāṭha
वि । हि । अख्य॑म् । मन॑सा । वस्यः॑ । इ॒च्छन् । इन्द्रा॑ग्नी॒ इति॑ । ज्ञा॒सः । उ॒त । वा॒ । स॒ऽजा॒तान् ।
न । अ॒न्या । यु॒वत् । प्रऽम॑तिः । अ॒स्ति॒ । मह्य॑म् । सः । वा॒म् । धिय॑म् । वा॒ज॒ऽयन्ती॑म् । अ॒त॒क्ष॒म् ॥
वि । हि । अख्यम् । मनसा । वस्यः । इच्छन् । इन्द्राग्नी इति । ज्ञासः । उत । वा । सऽजातान् ।
न । अन्या । युवत् । प्रऽमतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाजऽयन्तीम् । अतक्षम् ॥
ví ǀ hí ǀ ákhyam ǀ mánasā ǀ vásyaḥ ǀ icchán ǀ índrāgnī íti ǀ jñāsáḥ ǀ utá ǀ vā ǀ sa-jātā́n ǀ
ná ǀ anyā́ ǀ yuvát ǀ prá-matiḥ ǀ asti ǀ máhyam ǀ sáḥ ǀ vām ǀ dhíyam ǀ vāja-yántīm ǀ atakṣam ǁ
vi ǀ hi ǀ akhyam ǀ manasā ǀ vasyaḥ ǀ icchan ǀ indrāgnī iti ǀ jñāsaḥ ǀ uta ǀ vā ǀ sa-jātān ǀ
na ǀ anyā ǀ yuvat ǀ pra-matiḥ ǀ asti ǀ mahyam ǀ saḥ ǀ vām ǀ dhiyam ǀ vāja-yantīm ǀ atakṣam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.109.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.28.01
- Maṇḍala · Anuvāka · Ṛk
- 1.16.024
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.