Sūkta 124
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (1, 3, 6, 9, 10); triṣṭup (4, 7, 11); bhurikpaṅkti (2, 13); paṅktiḥ (5); virāṭpaṅkti (8); virāṭtrisṭup (12)
2nd set of styles triṣṭubh
-
Ṛk 1
उ॒षा उ॒च्छंती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।
दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् |
देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ||uṣā́ ucchántī samidhāné agnā́ udyántsū́rya urviyā́ jyótiraśret ǀ
devó no átra savitā́ nvártham prā́sāvīddvipátprá cátuṣpadityái ǁuṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret |
devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai ||उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् ।
दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥उषाः । उच्छन्ती । सम्ऽइधाने । अग्नौ । उत्ऽयन् । सूर्यः । उर्विया । ज्योतिः । अश्रेत् ।
देवः । नः । अत्र । सविता । नु । अर्थम् । प्र । असावीत् । द्विऽपत् । प्र । चतुःऽपत् । इत्यै ॥uṣā́ḥ ǀ ucchántī ǀ sam-idhāné ǀ agnáu ǀ ut-yán ǀ sū́ryaḥ ǀ urviyā́ ǀ jyótiḥ ǀ aśret ǀ
deváḥ ǀ naḥ ǀ átra ǀ savitā́ ǀ nú ǀ ártham ǀ prá ǀ asāvīt ǀ dvi-pát ǀ prá ǀ cátuḥ-pat ǀ ityái ǁuṣāḥ ǀ ucchantī ǀ sam-idhāne ǀ agnau ǀ ut-yan ǀ sūryaḥ ǀ urviyā ǀ jyotiḥ ǀ aśret ǀ
devaḥ ǀ naḥ ǀ atra ǀ savitā ǀ nu ǀ artham ǀ pra ǀ asāvīt ǀ dvi-pat ǀ pra ǀ catuḥ-pat ǀ ityai ǁ1.124.1 Aṣṭaka 2.1.7.0
-
Ṛk 2
अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ ।
ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि |
ईयुषीणाम् उपमा शश्वतीनाम् आयतीनाम् प्रथमोषा व्य् अद्यौत् ||áminatī dáivyāni vratā́ni praminatī́ manuṣyā́ yugā́ni ǀ
īyúṣīṇāmupamā́ śáśvatīnāmāyatīnā́m prathamóṣā́ vyádyaut ǁaminatī daivyāni vratāni praminatī manuṣyā yugāni |
īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut ||अमि॑नती । दैव्या॑नि । व्र॒तानि॑ । प्र॒ऽमि॒न॒ती । म॒नु॒ष्या॑ । यु॒गानि॑ ।
ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒द्यौ॒त् ॥अमिनती । दैव्यानि । व्रतानि । प्रऽमिनती । मनुष्या । युगानि ।
ईयुषीणाम् । उपऽमा । शश्वतीनाम् । आऽयतीनाम् । प्रथमा । उषाः । वि । अद्यौत् ॥áminatī ǀ dáivyāni ǀ vratā́ni ǀ pra-minatī́ ǀ manuṣyā́ ǀ yugā́ni ǀ
īyúṣīṇām ǀ upa-mā́ ǀ śáśvatīnām ǀ ā-yatīnā́m ǀ prathamā́ ǀ uṣā́ḥ ǀ ví ǀ adyaut ǁaminatī ǀ daivyāni ǀ vratāni ǀ pra-minatī ǀ manuṣyā ǀ yugāni ǀ
īyuṣīṇām ǀ upa-mā ǀ śaśvatīnām ǀ ā-yatīnām ǀ prathamā ǀ uṣāḥ ǀ vi ǀ adyaut ǁ1.124.2 Aṣṭaka 2.1.7.0
-
Ṛk 3
ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् ।
ऋ॒तस्य॒ पंथा॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥एषा दिवो दुहिता प्रत्य् अदर्शि ज्योतिर् वसाना समना पुरस्तात् |
ऋतस्य पन्थाम् अन्व् एति साधु प्रजानतीव न दिशो मिनाति ||eṣā́ divó duhitā́ prátyadarśi jyótirvásānā samanā́ purástāt ǀ
ṛtásya pánthāmánveti sādhú prajānatī́va ná díśo mināti ǁeṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt |
ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti ||ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । ज्योतिः॑ । वसा॑ना । स॒म॒ना । पु॒रस्ता॑त् ।
ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒तीऽइ॑व । न । दिशः॑ । मि॒ना॒ति॒ ॥एषा । दिवः । दुहिता । प्रति । अदर्शि । ज्योतिः । वसाना । समना । पुरस्तात् ।
ऋतस्य । पन्थाम् । अनु । एति । साधु । प्रजानतीऽइव । न । दिशः । मिनाति ॥eṣā́ ǀ diváḥ ǀ duhitā́ ǀ práti ǀ adarśi ǀ jyótiḥ ǀ vásānā ǀ samanā́ ǀ purástāt ǀ
ṛtásya ǀ pánthām ǀ ánu ǀ eti ǀ sādhú ǀ prajānatī́-iva ǀ ná ǀ díśaḥ ǀ mināti ǁeṣā ǀ divaḥ ǀ duhitā ǀ prati ǀ adarśi ǀ jyotiḥ ǀ vasānā ǀ samanā ǀ purastāt ǀ
ṛtasya ǀ panthām ǀ anu ǀ eti ǀ sādhu ǀ prajānatī-iva ǀ na ǀ diśaḥ ǀ mināti ǁ1.124.3 Aṣṭaka 2.1.7.0
-
Ṛk 4
उपो॑ अदर्शि शुं॒ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।
अ॒द्म॒सन्न स॑स॒तो बो॒धयं॑ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णां ॥उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि |
अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ||úpo adarśi śundhyúvo ná vákṣo nodhā́ ivāvírakṛta priyā́ṇi ǀ
admasánná sasató bodháyantī śaśvattamā́gātpúnareyúṣīṇām ǁupo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi |
admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām ||उपो॒ इति॑ । अ॒द॒र्शि॒ । शु॒न्ध्युवः॑ । न । वक्षः॑ । नो॒धाःऽइ॑व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि॑ ।
अ॒द्म॒ऽसत् । न । स॒स॒तः । बो॒धय॑न्ती । श॒श्व॒त्ऽत॒मा । आ । अ॒गा॒त् । पुनः॑ । आ॒ऽई॒युषी॑णाम् ॥उपो इति । अदर्शि । शुन्ध्युवः । न । वक्षः । नोधाःऽइव । आविः । अकृत । प्रियाणि ।
अद्मऽसत् । न । ससतः । बोधयन्ती । शश्वत्ऽतमा । आ । अगात् । पुनः । आऽईयुषीणाम् ॥úpo íti ǀ adarśi ǀ śundhyúvaḥ ǀ ná ǀ vákṣaḥ ǀ nodhā́ḥ-iva ǀ āvíḥ ǀ akṛta ǀ priyā́ṇi ǀ
adma-sát ǀ ná ǀ sasatáḥ ǀ bodháyantī ǀ śaśvat-tamā́ ǀ ā́ ǀ agāt ǀ púnaḥ ǀ ā-īyúṣīṇām ǁupo iti ǀ adarśi ǀ śundhyuvaḥ ǀ na ǀ vakṣaḥ ǀ nodhāḥ-iva ǀ āviḥ ǀ akṛta ǀ priyāṇi ǀ
adma-sat ǀ na ǀ sasataḥ ǀ bodhayantī ǀ śaśvat-tamā ǀ ā ǀ agāt ǀ punaḥ ǀ ā-īyuṣīṇām ǁ1.124.4 Aṣṭaka 2.1.7.0
-
Ṛk 5
पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुं ।
व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णंती॑ पि॒त्रोरु॒पस्था॑ ॥पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्य् अकृत प्र केतुम् |
व्य् उ प्रथते वितरं वरीय ओभा पृणन्ती पित्रोर् उपस्था ||pū́rve árdhe rájaso aptyásya gávām jánitryakṛta prá ketúm ǀ
vyú prathate vitarám várīya óbhā́ pṛṇántī pitrórupásthā ǁpūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum |
vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā ||पूर्वे॑ । अर्धे॑ । रज॑सः । अ॒प्त्यस्य॑ । गवा॑म् । जनि॑त्री । अ॒कृ॒त॒ । प्र । के॒तुम् ।
वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । आ । उ॒भा । पृ॒णन्ती॑ । पि॒त्रोः । उ॒पऽस्था॑ ॥पूर्वे । अर्धे । रजसः । अप्त्यस्य । गवाम् । जनित्री । अकृत । प्र । केतुम् ।
वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । आ । उभा । पृणन्ती । पित्रोः । उपऽस्था ॥pū́rve ǀ árdhe ǀ rájasaḥ ǀ aptyásya ǀ gávām ǀ jánitrī ǀ akṛta ǀ prá ǀ ketúm ǀ
ví ǀ ūṃ íti ǀ prathate ǀ vi-tarám ǀ várīyaḥ ǀ ā́ ǀ ubhā́ ǀ pṛṇántī ǀ pitróḥ ǀ upá-sthā ǁpūrve ǀ ardhe ǀ rajasaḥ ǀ aptyasya ǀ gavām ǀ janitrī ǀ akṛta ǀ pra ǀ ketum ǀ
vi ǀ ūṃ iti ǀ prathate ǀ vi-taram ǀ varīyaḥ ǀ ā ǀ ubhā ǀ pṛṇantī ǀ pitroḥ ǀ upa-sthā ǁ1.124.5 Aṣṭaka 2.1.7.0
-
Ṛk 6
ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिं ।
अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥एवेद् एषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् |
अरेपसा तन्वा शाशदाना नार्भाद् ईषते न महो विभाती ||evédeṣā́ purutámā dṛśé kám nā́jāmim ná pári vṛṇakti jāmím ǀ
arepásā tanvā́ śā́śadānā nā́rbhādī́ṣate ná mahó vibhātī́ ǁeved eṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim |
arepasā tanvā śāśadānā nārbhād īṣate na maho vibhātī ||ए॒व । इत् । ए॒षा । पु॒रु॒ऽतमा॑ । दृ॒शे । कम् । न । अजा॑मिम् । न । परि॑ । वृ॒ण॒क्ति॒ । जा॒मिम् ।
अ॒रे॒पसा॑ । त॒न्वा॑ । शाश॑दाना । न । अर्भा॑त् । ईष॑ते । न । म॒हः । वि॒ऽभा॒ती ॥एव । इत् । एषा । पुरुऽतमा । दृशे । कम् । न । अजामिम् । न । परि । वृणक्ति । जामिम् ।
अरेपसा । तन्वा । शाशदाना । न । अर्भात् । ईषते । न । महः । विऽभाती ॥evá ǀ ít ǀ eṣā́ ǀ puru-támā ǀ dṛśé ǀ kám ǀ ná ǀ ájāmim ǀ ná ǀ pári ǀ vṛṇakti ǀ jāmím ǀ
arepásā ǀ tanvā́ ǀ śā́śadānā ǀ ná ǀ árbhāt ǀ ī́ṣate ǀ ná ǀ maháḥ ǀ vi-bhātī́ ǁeva ǀ it ǀ eṣā ǀ puru-tamā ǀ dṛśe ǀ kam ǀ na ǀ ajāmim ǀ na ǀ pari ǀ vṛṇakti ǀ jāmim ǀ
arepasā ǀ tanvā ǀ śāśadānā ǀ na ǀ arbhāt ǀ īṣate ǀ na ǀ mahaḥ ǀ vi-bhātī ǁ1.124.6 Aṣṭaka 2.1.8.0
-
Ṛk 7
अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नां ।
जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥अभ्रातेव पुंस एति प्रतीची गर्तारुग् इव सनये धनानाम् |
जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ||abhrātéva puṃsá eti pratīcī́ gartārúgiva sanáye dhánānām ǀ
jāyéva pátya uśatī́ suvā́sā uṣā́ hasréva ní riṇīte ápsaḥ ǁabhrāteva puṃsa eti pratīcī gartārug iva sanaye dhanānām |
jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ ||अ॒भ्रा॒ताऽइ॑व । पुं॒सः । ए॒ति॒ । प्र॒ती॒ची । ग॒र्त॒ऽआ॒रुक्ऽइ॑व । स॒नये॑ । धना॑नाम् ।
जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ । उ॒षाः । ह॒स्राऽइ॑व । नि । रि॒णी॒ते॒ । अप्सः॑ ॥अभ्राताऽइव । पुंसः । एति । प्रतीची । गर्तऽआरुक्ऽइव । सनये । धनानाम् ।
जायाऽइव । पत्ये । उशती । सुऽवासाः । उषाः । हस्राऽइव । नि । रिणीते । अप्सः ॥abhrātā́-iva ǀ puṃsáḥ ǀ eti ǀ pratīcī́ ǀ garta-ārúk-iva ǀ sanáye ǀ dhánānām ǀ
jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǀ uṣā́ḥ ǀ hasrā́-iva ǀ ní ǀ riṇīte ǀ ápsaḥ ǁabhrātā-iva ǀ puṃsaḥ ǀ eti ǀ pratīcī ǀ garta-āruk-iva ǀ sanaye ǀ dhanānām ǀ
jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǀ uṣāḥ ǀ hasrā-iva ǀ ni ǀ riṇīte ǀ apsaḥ ǁ1.124.7 Aṣṭaka 2.1.8.0
-
Ṛk 8
स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।
व्यु॒च्छंती॑ र॒श्मिभिः॒ सूर्य॑स्यां॒ज्यं॑क्ते समन॒गा इ॑व॒ व्राः ॥स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव |
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्य् अङ्क्ते समनगा इव व्राः ||svásā svásre jyā́yasyai yónimāraigápaityasyāḥ praticákṣyeva ǀ
vyucchántī raśmíbhiḥ sū́ryasyāñjyáṅkte samanagā́ iva vrā́ḥ ǁsvasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva |
vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ ||खसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒चक्ष्य॑ऽइव ।
वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥खसा । स्वस्रे । ज्यायस्यै । योनिम् । अरैक् । अप । एति । अस्याः । प्रतिचक्ष्यऽइव ।
विऽउच्छन्ती । रश्मिऽभिः । सूर्यस्य । अञ्जि । अङ्क्ते । समनगाःऽइव । व्राः ॥khásā ǀ svásre ǀ jyā́yasyai ǀ yónim ǀ araik ǀ ápa ǀ eti ǀ asyāḥ ǀ praticákṣya-iva ǀ
vi-ucchántī ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ añjí ǀ aṅkte ǀ samanagā́ḥ-iva ǀ vrā́ḥ ǁkhasā ǀ svasre ǀ jyāyasyai ǀ yonim ǀ araik ǀ apa ǀ eti ǀ asyāḥ ǀ praticakṣya-iva ǀ
vi-ucchantī ǀ raśmi-bhiḥ ǀ sūryasya ǀ añji ǀ aṅkte ǀ samanagāḥ-iva ǀ vrāḥ ǁ1.124.8 Aṣṭaka 2.1.8.0
-
Ṛk 9
आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।
ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छंतु सु॒दिना॑ उ॒षासः॑ ॥आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् |
ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ||āsā́m pū́rvāsāmáhasu svásṝṇāmáparā pū́rvāmabhyéti paścā́t ǀ
tā́ḥ pratnavánnávyasīrnūnámasmé reváducchantu sudínā uṣā́saḥ ǁāsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt |
tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ ||आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसॄ॑णाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥आसाम् । पूर्वासाम् । अहऽसु । स्वसॄणाम् । अपरा । पूर्वाम् । अभि । एति । पश्चात् ।
ताः । प्रत्नऽवत् । नव्यसीः । नूनम् । अस्मे इति । रेवत् । उच्छन्तु । सुऽदिनाः । उषसः ॥āsā́m ǀ pū́rvāsām ǀ áha-su ǀ svásṝṇām ǀ áparā ǀ pū́rvām ǀ abhí ǀ eti ǀ paścā́t ǀ
tā́ḥ ǀ pratna-vát ǀ návyasīḥ ǀ nūnám ǀ asmé íti ǀ revát ǀ ucchantu ǀ su-dínāḥ ǀ uṣásaḥ ǁāsām ǀ pūrvāsām ǀ aha-su ǀ svasṝṇām ǀ aparā ǀ pūrvām ǀ abhi ǀ eti ǀ paścāt ǀ
tāḥ ǀ pratna-vat ǀ navyasīḥ ǀ nūnam ǀ asme iti ǀ revat ǀ ucchantu ǀ su-dināḥ ǀ uṣasaḥ ǁ1.124.9 Aṣṭaka 2.1.8.0
-
Ṛk 10
प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससंतु ।
रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रयं॑ती ॥प्र बोधयोषः पृणतो मघोन्य् अबुध्यमानाः पणयः ससन्तु |
रेवद् उच्छ मघवद्भ्यो मघोनि रेवत् स्तोत्रे सूनृते जारयन्ती ||prá bodhayoṣaḥ pṛṇató maghonyábudhyamānāḥ paṇáyaḥ sasantu ǀ
reváduccha maghávadbhyo maghoni revátstotré sūnṛte jāráyantī ǁpra bodhayoṣaḥ pṛṇato maghony abudhyamānāḥ paṇayaḥ sasantu |
revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī ||प्र । बो॒ध॒य॒ । उ॒षः॒ । पृ॒ण॒तः । म॒घो॒नि॒ । अबु॑ध्यमानाः । प॒णयः॑ । स॒स॒न्तु॒ ।
रे॒वत् । उ॒च्छ॒ । म॒घव॑त्ऽभ्यः । म॒घो॒नि॒ । रे॒वत् । स्तो॒त्रे । सू॒नृ॒ते॒ । ज॒रय॑न्ती ॥प्र । बोधय । उषः । पृणतः । मघोनि । अबुध्यमानाः । पणयः । ससन्तु ।
रेवत् । उच्छ । मघवत्ऽभ्यः । मघोनि । रेवत् । स्तोत्रे । सूनृते । जरयन्ती ॥prá ǀ bodhaya ǀ uṣaḥ ǀ pṛṇatáḥ ǀ maghoni ǀ ábudhyamānāḥ ǀ paṇáyaḥ ǀ sasantu ǀ
revát ǀ uccha ǀ maghávat-bhyaḥ ǀ maghoni ǀ revát ǀ stotré ǀ sūnṛte ǀ jaráyantī ǁpra ǀ bodhaya ǀ uṣaḥ ǀ pṛṇataḥ ǀ maghoni ǀ abudhyamānāḥ ǀ paṇayaḥ ǀ sasantu ǀ
revat ǀ uccha ǀ maghavat-bhyaḥ ǀ maghoni ǀ revat ǀ stotre ǀ sūnṛte ǀ jarayantī ǁ1.124.10 Aṣṭaka 2.1.8.0
-
Ṛk 11
अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्युं॒क्ते गवा॑मरु॒णाना॒मनी॑कं ।
वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् |
वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ||áveyámaśvaidyuvatíḥ purástādyuṅkté gávāmaruṇā́nāmánīkam ǀ
ví nūnámucchādásati prá ketúrgṛháṃgṛhamúpa tiṣṭhāte agníḥ ǁaveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam |
vi nūnam ucchād asati pra ketur gṛhaṃ-gṛham upa tiṣṭhāte agniḥ ||अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् ।
वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥अव । इयम् । अश्वैत् । युवतिः । पुरस्तात् । युङ्क्ते । गवाम् । अरुणानाम् । अनीकम् ।
वि । नूनम् । उच्छात् । असति । प्र । केतुः । गृहम्ऽगृहम् । उप । तिष्ठाते । अग्निः ॥áva ǀ iyám ǀ aśvait ǀ yuvatíḥ ǀ purástāt ǀ yuṅkté ǀ gávām ǀ aruṇā́nām ǀ ánīkam ǀ
ví ǀ nūnám ǀ ucchāt ǀ ásati ǀ prá ǀ ketúḥ ǀ gṛhám-gṛham ǀ úpa ǀ tiṣṭhāte ǀ agníḥ ǁava ǀ iyam ǀ aśvait ǀ yuvatiḥ ǀ purastāt ǀ yuṅkte ǀ gavām ǀ aruṇānām ǀ anīkam ǀ
vi ǀ nūnam ǀ ucchāt ǀ asati ǀ pra ǀ ketuḥ ǀ gṛham-gṛham ǀ upa ǀ tiṣṭhāte ǀ agniḥ ǁ1.124.11 Aṣṭaka 2.1.9.0
-
Ṛk 12
उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ |
अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ||útte váyaścidvasatérapaptannáraśca yé pitubhā́jo vyúṣṭau ǀ
amā́ saté vahasi bhū́ri vāmámúṣo devi dāśúṣe mártyāya ǁut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau |
amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya ||उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।
अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः । विऽउष्टौ ।
अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥út ǀ te ǀ váyaḥ ǀ cit ǀ vasatéḥ ǀ apaptan ǀ náraḥ ǀ ca ǀ yé ǀ pitu-bhā́jaḥ ǀ ví-uṣṭau ǀ
amā́ ǀ saté ǀ vahasi ǀ bhū́ri ǀ vāmám ǀ úṣaḥ ǀ devi ǀ dāśúṣe ǀ mártyāya ǁut ǀ te ǀ vayaḥ ǀ cit ǀ vasateḥ ǀ apaptan ǀ naraḥ ǀ ca ǀ ye ǀ pitu-bhājaḥ ǀ vi-uṣṭau ǀ
amā ǀ sate ǀ vahasi ǀ bhūri ǀ vāmam ǀ uṣaḥ ǀ devi ǀ dāśuṣe ǀ martyāya ǁ1.124.12 Aṣṭaka 2.1.9.0
-
Ṛk 13
अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः ।
यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाजं॑ ॥अस्तोढ्वं स्तोम्या ब्रह्मणा मे ऽवीवृधध्वम् उशतीर् उषासः |
युष्माकं देवीर् अवसा सनेम सहस्रिणं च शतिनं च वाजम् ||ástoḍhvam stomyā bráhmaṇā mé’vīvṛdhadhvamuśatī́ruṣāsaḥ ǀ
yuṣmā́kam devīrávasā sanema sahasríṇam ca śatínam ca vā́jam ǁastoḍhvaṃ stomyā brahmaṇā me 'vīvṛdhadhvam uśatīr uṣāsaḥ |
yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam ||अस्तो॑ढ्वम् । स्तो॒म्याः॒ । ब्रह्म॑णा । मे॒ । अवी॑वृधध्वम् । उ॒श॒तीः । उ॒ष॒सः॒ ।
यु॒ष्माक॑म् । दे॒वीः॒ । अव॑सा । स॒ने॒म॒ । स॒ह॒स्रिण॑म् । च॒ । श॒तिन॑म् । च॒ । वाज॑म् ॥अस्तोढ्वम् । स्तोम्याः । ब्रह्मणा । मे । अवीवृधध्वम् । उशतीः । उषसः ।
युष्माकम् । देवीः । अवसा । सनेम । सहस्रिणम् । च । शतिनम् । च । वाजम् ॥ástoḍhvam ǀ stomyāḥ ǀ bráhmaṇā ǀ me ǀ ávīvṛdhadhvam ǀ uśatī́ḥ ǀ uṣasaḥ ǀ
yuṣmā́kam ǀ devīḥ ǀ ávasā ǀ sanema ǀ sahasríṇam ǀ ca ǀ śatínam ǀ ca ǀ vā́jam ǁastoḍhvam ǀ stomyāḥ ǀ brahmaṇā ǀ me ǀ avīvṛdhadhvam ǀ uśatīḥ ǀ uṣasaḥ ǀ
yuṣmākam ǀ devīḥ ǀ avasā ǀ sanema ǀ sahasriṇam ǀ ca ǀ śatinam ǀ ca ǀ vājam ǁ1.124.13 Aṣṭaka 2.1.9.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.