Ṛgveda · Maṇḍala 1 · Sūkta 124
Ṛk 1.124.8
Saṃhitā
स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।
व्यु॒च्छंती॑ र॒श्मिभिः॒ सूर्य॑स्यां॒ज्यं॑क्ते समन॒गा इ॑व॒ व्राः ॥
स्वसा स्वस्रे ज्यायस्यै योनिम् आरैग् अपैत्य् अस्याः प्रतिचक्ष्येव |
व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्य् अङ्क्ते समनगा इव व्राः ||
svásā svásre jyā́yasyai yónimāraigápaityasyāḥ praticákṣyeva ǀ
vyucchántī raśmíbhiḥ sū́ryasyāñjyáṅkte samanagā́ iva vrā́ḥ ǁ
svasā svasre jyāyasyai yonim āraig apaity asyāḥ praticakṣyeva |
vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ ||
Padapāṭha
खसा॑ । स्वस्रे॑ । ज्याय॑स्यै । योनि॑म् । अ॒रै॒क् । अप॑ । ए॒ति॒ । अ॒स्याः॒ । प्र॒ति॒चक्ष्य॑ऽइव ।
वि॒ऽउ॒च्छन्ती॑ । र॒श्मिऽभिः॑ । सूर्य॑स्य । अ॒ञ्जि । अ॒ङ्क्ते॒ । स॒म॒न॒गाःऽइ॑व । व्राः ॥
खसा । स्वस्रे । ज्यायस्यै । योनिम् । अरैक् । अप । एति । अस्याः । प्रतिचक्ष्यऽइव ।
विऽउच्छन्ती । रश्मिऽभिः । सूर्यस्य । अञ्जि । अङ्क्ते । समनगाःऽइव । व्राः ॥
khásā ǀ svásre ǀ jyā́yasyai ǀ yónim ǀ araik ǀ ápa ǀ eti ǀ asyāḥ ǀ praticákṣya-iva ǀ
vi-ucchántī ǀ raśmí-bhiḥ ǀ sū́ryasya ǀ añjí ǀ aṅkte ǀ samanagā́ḥ-iva ǀ vrā́ḥ ǁ
khasā ǀ svasre ǀ jyāyasyai ǀ yonim ǀ araik ǀ apa ǀ eti ǀ asyāḥ ǀ praticakṣya-iva ǀ
vi-ucchantī ǀ raśmi-bhiḥ ǀ sūryasya ǀ añji ǀ aṅkte ǀ samanagāḥ-iva ǀ vrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.124.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.08.00
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.