Ṛgveda · Maṇḍala 1 · Sūkta 124
Ṛk 1.124.4
Saṃhitā
उपो॑ अदर्शि शुं॒ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।
अ॒द्म॒सन्न स॑स॒तो बो॒धयं॑ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णां ॥
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविर् अकृत प्रियाणि |
अद्मसन् न ससतो बोधयन्ती शश्वत्तमागात् पुनर् एयुषीणाम् ||
úpo adarśi śundhyúvo ná vákṣo nodhā́ ivāvírakṛta priyā́ṇi ǀ
admasánná sasató bodháyantī śaśvattamā́gātpúnareyúṣīṇām ǁ
upo adarśi śundhyuvo na vakṣo nodhā ivāvir akṛta priyāṇi |
admasan na sasato bodhayantī śaśvattamāgāt punar eyuṣīṇām ||
Padapāṭha
उपो॒ इति॑ । अ॒द॒र्शि॒ । शु॒न्ध्युवः॑ । न । वक्षः॑ । नो॒धाःऽइ॑व । आ॒विः । अ॒कृ॒त॒ । प्रि॒याणि॑ ।
अ॒द्म॒ऽसत् । न । स॒स॒तः । बो॒धय॑न्ती । श॒श्व॒त्ऽत॒मा । आ । अ॒गा॒त् । पुनः॑ । आ॒ऽई॒युषी॑णाम् ॥
उपो इति । अदर्शि । शुन्ध्युवः । न । वक्षः । नोधाःऽइव । आविः । अकृत । प्रियाणि ।
अद्मऽसत् । न । ससतः । बोधयन्ती । शश्वत्ऽतमा । आ । अगात् । पुनः । आऽईयुषीणाम् ॥
úpo íti ǀ adarśi ǀ śundhyúvaḥ ǀ ná ǀ vákṣaḥ ǀ nodhā́ḥ-iva ǀ āvíḥ ǀ akṛta ǀ priyā́ṇi ǀ
adma-sát ǀ ná ǀ sasatáḥ ǀ bodháyantī ǀ śaśvat-tamā́ ǀ ā́ ǀ agāt ǀ púnaḥ ǀ ā-īyúṣīṇām ǁ
upo iti ǀ adarśi ǀ śundhyuvaḥ ǀ na ǀ vakṣaḥ ǀ nodhāḥ-iva ǀ āviḥ ǀ akṛta ǀ priyāṇi ǀ
adma-sat ǀ na ǀ sasataḥ ǀ bodhayantī ǀ śaśvat-tamā ǀ ā ǀ agāt ǀ punaḥ ǀ ā-īyuṣīṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.124.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.07.00
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.