Ṛgveda · Maṇḍala 1 · Sūkta 124
Ṛk 1.124.1
Saṃhitā
उ॒षा उ॒च्छंती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।
दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥
उषा उच्छन्ती समिधाने अग्ना उद्यन् सूर्य उर्विया ज्योतिर् अश्रेत् |
देवो नो अत्र सविता न्व् अर्थम् प्रासावीद् द्विपत् प्र चतुष्पद् इत्यै ||
uṣā́ ucchántī samidhāné agnā́ udyántsū́rya urviyā́ jyótiraśret ǀ
devó no átra savitā́ nvártham prā́sāvīddvipátprá cátuṣpadityái ǁ
uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret |
devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai ||
Padapāṭha
उ॒षाः । उ॒च्छन्ती॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । उ॒त्ऽयन् । सूर्यः॑ । उ॒र्वि॒या । ज्योतिः॑ । अ॒श्रे॒त् ।
दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । नु । अर्थ॑म् । प्र । अ॒सा॒वी॒त् । द्वि॒ऽपत् । प्र । चतुः॑ऽपत् । इ॒त्यै ॥
उषाः । उच्छन्ती । सम्ऽइधाने । अग्नौ । उत्ऽयन् । सूर्यः । उर्विया । ज्योतिः । अश्रेत् ।
देवः । नः । अत्र । सविता । नु । अर्थम् । प्र । असावीत् । द्विऽपत् । प्र । चतुःऽपत् । इत्यै ॥
uṣā́ḥ ǀ ucchántī ǀ sam-idhāné ǀ agnáu ǀ ut-yán ǀ sū́ryaḥ ǀ urviyā́ ǀ jyótiḥ ǀ aśret ǀ
deváḥ ǀ naḥ ǀ átra ǀ savitā́ ǀ nú ǀ ártham ǀ prá ǀ asāvīt ǀ dvi-pát ǀ prá ǀ cátuḥ-pat ǀ ityái ǁ
uṣāḥ ǀ ucchantī ǀ sam-idhāne ǀ agnau ǀ ut-yan ǀ sūryaḥ ǀ urviyā ǀ jyotiḥ ǀ aśret ǀ
devaḥ ǀ naḥ ǀ atra ǀ savitā ǀ nu ǀ artham ǀ pra ǀ asāvīt ǀ dvi-pat ǀ pra ǀ catuḥ-pat ǀ ityai ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.124.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.07.00
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.