Ṛgveda · Maṇḍala 1 · Sūkta 124
Ṛk 1.124.11
Saṃhitā
अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्युं॒क्ते गवा॑मरु॒णाना॒मनी॑कं ।
वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥
अवेयम् अश्वैद् युवतिः पुरस्ताद् युङ्क्ते गवाम् अरुणानाम् अनीकम् |
वि नूनम् उच्छाद् असति प्र केतुर् गृहं-गृहम् उप तिष्ठाते अग्निः ||
áveyámaśvaidyuvatíḥ purástādyuṅkté gávāmaruṇā́nāmánīkam ǀ
ví nūnámucchādásati prá ketúrgṛháṃgṛhamúpa tiṣṭhāte agníḥ ǁ
aveyam aśvaid yuvatiḥ purastād yuṅkte gavām aruṇānām anīkam |
vi nūnam ucchād asati pra ketur gṛhaṃ-gṛham upa tiṣṭhāte agniḥ ||
Padapāṭha
अव॑ । इ॒यम् । अ॒श्वै॒त् । यु॒व॒तिः । पु॒रस्ता॑त् । यु॒ङ्क्ते । गवा॑म् । अ॒रु॒णाना॑म् । अनी॑कम् ।
वि । नू॒नम् । उ॒च्छा॒त् । अस॑ति । प्र । के॒तुः । गृ॒हम्ऽगृ॑हम् । उप॑ । ति॒ष्ठा॒ते॒ । अ॒ग्निः ॥
अव । इयम् । अश्वैत् । युवतिः । पुरस्तात् । युङ्क्ते । गवाम् । अरुणानाम् । अनीकम् ।
वि । नूनम् । उच्छात् । असति । प्र । केतुः । गृहम्ऽगृहम् । उप । तिष्ठाते । अग्निः ॥
áva ǀ iyám ǀ aśvait ǀ yuvatíḥ ǀ purástāt ǀ yuṅkté ǀ gávām ǀ aruṇā́nām ǀ ánīkam ǀ
ví ǀ nūnám ǀ ucchāt ǀ ásati ǀ prá ǀ ketúḥ ǀ gṛhám-gṛham ǀ úpa ǀ tiṣṭhāte ǀ agníḥ ǁ
ava ǀ iyam ǀ aśvait ǀ yuvatiḥ ǀ purastāt ǀ yuṅkte ǀ gavām ǀ aruṇānām ǀ anīkam ǀ
vi ǀ nūnam ǀ ucchāt ǀ asati ǀ pra ǀ ketuḥ ǀ gṛham-gṛham ǀ upa ǀ tiṣṭhāte ǀ agniḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.124.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.09.00
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.