Ṛgveda · Maṇḍala 1 · Sūkta 124
Ṛk 1.124.9
Saṃhitā
आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।
ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छंतु सु॒दिना॑ उ॒षासः॑ ॥
आसाम् पूर्वासाम् अहसु स्वसॄणाम् अपरा पूर्वाम् अभ्य् एति पश्चात् |
ताः प्रत्नवन् नव्यसीर् नूनम् अस्मे रेवद् उच्छन्तु सुदिना उषासः ||
āsā́m pū́rvāsāmáhasu svásṝṇāmáparā pū́rvāmabhyéti paścā́t ǀ
tā́ḥ pratnavánnávyasīrnūnámasmé reváducchantu sudínā uṣā́saḥ ǁ
āsām pūrvāsām ahasu svasṝṇām aparā pūrvām abhy eti paścāt |
tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ ||
Padapāṭha
आ॒साम् । पूर्वा॑साम् । अह॑ऽसु । स्वसॄ॑णाम् । अप॑रा । पूर्वा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
ताः । प्र॒त्न॒ऽवत् । नव्य॑सीः । नू॒नम् । अ॒स्मे इति॑ । रे॒वत् । उ॒च्छ॒न्तु॒ । सु॒ऽदिनाः॑ । उ॒षसः॑ ॥
आसाम् । पूर्वासाम् । अहऽसु । स्वसॄणाम् । अपरा । पूर्वाम् । अभि । एति । पश्चात् ।
ताः । प्रत्नऽवत् । नव्यसीः । नूनम् । अस्मे इति । रेवत् । उच्छन्तु । सुऽदिनाः । उषसः ॥
āsā́m ǀ pū́rvāsām ǀ áha-su ǀ svásṝṇām ǀ áparā ǀ pū́rvām ǀ abhí ǀ eti ǀ paścā́t ǀ
tā́ḥ ǀ pratna-vát ǀ návyasīḥ ǀ nūnám ǀ asmé íti ǀ revát ǀ ucchantu ǀ su-dínāḥ ǀ uṣásaḥ ǁ
āsām ǀ pūrvāsām ǀ aha-su ǀ svasṝṇām ǀ aparā ǀ pūrvām ǀ abhi ǀ eti ǀ paścāt ǀ
tāḥ ǀ pratna-vat ǀ navyasīḥ ǀ nūnam ǀ asme iti ǀ revat ǀ ucchantu ǀ su-dināḥ ǀ uṣasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.124.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.08.00
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.