Ṛgveda · Maṇḍala 1

Sūkta 186

Viśvedevās, Savitṛ · Aryaman, Mitra, Varuṇa, Viśvedevās · Agni, Varuṇa, Viśvedevās · Uṣas, Night, Viśvedevās · Viśvedevās · Agastya Maitrāvaruṇi · 11 ṛks

Link
Devatā देवता
1: Viśvedevās, Savitṛ; 2: Aryaman, Mitra, Varuṇa, Viśvedevās; 3: Agni, Varuṇa, Viśvedevās; 4: Uṣas, Night, Viśvedevās; 5-11: Viśvedevās
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles triṣṭup (1, 8, 9); bhurikpaṅkti (3, 5, 7); nicṛttriṣṭup (2, 4); paṅktiḥ (6); svarāṭpaṅkti (10); bhuriktriṣṭup (11)

2nd set of styles triṣṭubh

  1. Ṛk 1

    आ न॒ इळा॑भिर्वि॒दथे॑ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए॑तु ।
    अपि॒ यथा॑ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ॥

    आ न इऌआभिर् विदथे सुशस्ति विश्वानरः सविता देव एतु |
    अपि यथा युवानो मत्सथा नो विश्वं जगद् अभिपित्वे मनीषा ||

    ā́ na íḷābhirvidáthe suśastí viśvā́naraḥ savitā́ devá etu ǀ
    ápi yáthā yuvāno mátsathā no víśvam jágadabhipitvé manīṣā́ ǁ

    ā na iḷābhir vidathe suśasti viśvānaraḥ savitā deva etu |
    api yathā yuvāno matsathā no viśvaṃ jagad abhipitve manīṣā ||

    आ । नः॒ । इळा॑भिः । वि॒दथे॑ । सु॒ऽश॒स्ति । वि॒श्वान॑रः । स॒वि॒ता । दे॒वः । ए॒तु॒ ।
    अपि॑ । यथा॑ । यु॒वा॒नः॒ । मत्स॑थ । नः॒ । विश्व॑म् । जग॑त् । अ॒भि॒ऽपि॒त्वे । म॒नी॒षा ॥

    आ । नः । इळाभिः । विदथे । सुऽशस्ति । विश्वानरः । सविता । देवः । एतु ।
    अपि । यथा । युवानः । मत्सथ । नः । विश्वम् । जगत् । अभिऽपित्वे । मनीषा ॥

    ā́ ǀ naḥ ǀ íḷābhiḥ ǀ vidáthe ǀ su-śastí ǀ viśvā́naraḥ ǀ savitā́ ǀ deváḥ ǀ etu ǀ
    ápi ǀ yáthā ǀ yuvānaḥ ǀ mátsatha ǀ naḥ ǀ víśvam ǀ jágat ǀ abhi-pitvé ǀ manīṣā́ ǁ

    ā ǀ naḥ ǀ iḷābhiḥ ǀ vidathe ǀ su-śasti ǀ viśvānaraḥ ǀ savitā ǀ devaḥ ǀ etu ǀ
    api ǀ yathā ǀ yuvānaḥ ǀ matsatha ǀ naḥ ǀ viśvam ǀ jagat ǀ abhi-pitve ǀ manīṣā ǁ

    1.186.1 Aṣṭaka 2.5.4.0

  2. Ṛk 2

    आ नो॒ विश्व॒ आस्क्रा॑ गमंतु दे॒वा मि॒त्रो अ॑र्य॒मा वरु॑णः स॒जोषाः॑ ।
    भुव॒न्यथा॑ नो॒ विश्वे॑ वृ॒धासः॒ कर॑न्त्सु॒षाहा॑ विथु॒रं न शवः॑ ॥

    आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः |
    भुवन् यथा नो विश्वे वृधासः करन् सुषाहा विथुरं न शवः ||

    ā́ no víśva ā́skrā gamantu devā́ mitró aryamā́ váruṇaḥ sajóṣāḥ ǀ
    bhúvanyáthā no víśve vṛdhā́saḥ kárantsuṣā́hā vithurám ná śávaḥ ǁ

    ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ |
    bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śavaḥ ||

    आ । नः॒ । विश्वे॑ । आस्क्राः॑ । ग॒म॒न्तु॒ । दे॒वाः । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । स॒ऽजोषाः॑ ।
    भुव॑न् । यथा॑ । नः॒ । विश्वे॑ । वृ॒धासः॑ । कर॑न् । सु॒ऽसहा॑ । वि॒थु॒रम् । न । शवः॑ ॥

    आ । नः । विश्वे । आस्क्राः । गमन्तु । देवाः । मित्रः । अर्यमा । वरुणः । सऽजोषाः ।
    भुवन् । यथा । नः । विश्वे । वृधासः । करन् । सुऽसहा । विथुरम् । न । शवः ॥

    ā́ ǀ naḥ ǀ víśve ǀ ā́skrāḥ ǀ gamantu ǀ devā́ḥ ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ sa-jóṣāḥ ǀ
    bhúvan ǀ yáthā ǀ naḥ ǀ víśve ǀ vṛdhā́saḥ ǀ káran ǀ su-sáhā ǀ vithurám ǀ ná ǀ śávaḥ ǁ

    ā ǀ naḥ ǀ viśve ǀ āskrāḥ ǀ gamantu ǀ devāḥ ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ sa-joṣāḥ ǀ
    bhuvan ǀ yathā ǀ naḥ ǀ viśve ǀ vṛdhāsaḥ ǀ karan ǀ su-sahā ǀ vithuram ǀ na ǀ śavaḥ ǁ

    1.186.2 Aṣṭaka 2.5.4.0

  3. Ṛk 3

    प्रेष्ठं॑ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः॑ ।
    अस॒द्यथा॑ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ॥

    प्रेष्ठं वो अतिथिं गृणीषे ऽग्निं शस्तिभिस् तुर्वणिः सजोषाः |
    असद् यथा नो वरुणः सुकीर्तिर् इषश् च पर्षद् अरिगूर्तः सूरिः ||

    préṣṭham vo átithim gṛṇīṣe’gním śastíbhisturváṇiḥ sajóṣāḥ ǀ
    ásadyáthā no váruṇaḥ sukīrtíríṣaśca parṣadarigūrtáḥ sūríḥ ǁ

    preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ |
    asad yathā no varuṇaḥ sukīrtir iṣaś ca parṣad arigūrtaḥ sūriḥ ||

    प्रेष्ठ॑म् । वः॒ । अति॑थिम् । गृ॒णी॒षे॒ । अ॒ग्निम् । श॒स्तिऽभिः॑ । तु॒र्वणिः॑ । स॒ऽजोषाः॑ ।
    अस॑त् । यथा॑ । नः॒ । वरु॑णः । सु॒ऽकी॒र्तिः । इषः॑ । च॒ । प॒र्ष॒त् । अ॒रि॒ऽगू॒र्तः । सू॒रिः ॥

    प्रेष्ठम् । वः । अतिथिम् । गृणीषे । अग्निम् । शस्तिऽभिः । तुर्वणिः । सऽजोषाः ।
    असत् । यथा । नः । वरुणः । सुऽकीर्तिः । इषः । च । पर्षत् । अरिऽगूर्तः । सूरिः ॥

    préṣṭham ǀ vaḥ ǀ átithim ǀ gṛṇīṣe ǀ agním ǀ śastí-bhiḥ ǀ turváṇiḥ ǀ sa-jóṣāḥ ǀ
    ásat ǀ yáthā ǀ naḥ ǀ váruṇaḥ ǀ su-kīrtíḥ ǀ íṣaḥ ǀ ca ǀ parṣat ǀ ari-gūrtáḥ ǀ sūríḥ ǁ

    preṣṭham ǀ vaḥ ǀ atithim ǀ gṛṇīṣe ǀ agnim ǀ śasti-bhiḥ ǀ turvaṇiḥ ǀ sa-joṣāḥ ǀ
    asat ǀ yathā ǀ naḥ ǀ varuṇaḥ ǀ su-kīrtiḥ ǀ iṣaḥ ǀ ca ǀ parṣat ǀ ari-gūrtaḥ ǀ sūriḥ ǁ

    1.186.3 Aṣṭaka 2.5.4.0

  4. Ṛk 4

    उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः ।
    स॒मा॒ने अह॑न्वि॒मिमा॑नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ॥

    उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः |
    समाने अहन् विमिमानो अर्कं विषुरूपे पयसि सस्मिन्न् ऊधन् ||

    úpa va éṣe námasā jigīṣóṣā́sānáktā sudúgheva dhenúḥ ǀ
    samāné áhanvimímāno arkám víṣurūpe páyasi sásminnū́dhan ǁ

    upa va eṣe namasā jigīṣoṣāsānaktā sudugheva dhenuḥ |
    samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan ||

    उप॑ । वः॒ । आ । ई॒षे॒ । नम॑सा । जि॒गी॒षा । उ॒षसा॒नक्ता॑ । सु॒दुघा॑ऽइव । धे॒नुः ।
    स॒मा॒ने । अह॑न् । वि॒ऽमिमा॑नः । अ॒र्कम् । विषु॑ऽरूपे । पय॑सि । सस्मि॑न् । ऊध॑न् ॥

    उप । वः । आ । ईषे । नमसा । जिगीषा । उषसानक्ता । सुदुघाऽइव । धेनुः ।
    समाने । अहन् । विऽमिमानः । अर्कम् । विषुऽरूपे । पयसि । सस्मिन् । ऊधन् ॥

    úpa ǀ vaḥ ǀ ā́ ǀ īṣe ǀ námasā ǀ jigīṣā́ ǀ uṣásānáktā ǀ sudúghā-iva ǀ dhenúḥ ǀ
    samāné ǀ áhan ǀ vi-mímānaḥ ǀ arkám ǀ víṣu-rūpe ǀ páyasi ǀ sásmin ǀ ū́dhan ǁ

    upa ǀ vaḥ ǀ ā ǀ īṣe ǀ namasā ǀ jigīṣā ǀ uṣasānaktā ǀ sudughā-iva ǀ dhenuḥ ǀ
    samāne ǀ ahan ǀ vi-mimānaḥ ǀ arkam ǀ viṣu-rūpe ǀ payasi ǀ sasmin ǀ ūdhan ǁ

    1.186.4 Aṣṭaka 2.5.4.0

  5. Ṛk 5

    उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॒॑ मय॑स्कः॒ शिशुं॒ न पि॒प्युषी॑व वेति॒ सिंधुः॑ ।
    येन॒ नपा॑तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वहं॑ति ॥

    उत नो ऽहिर् बुध्न्यो मयस् कः शिशुं न पिप्युषीव वेति सिन्धुः |
    येन नपातम् अपां जुनाम मनोजुवो वृषणो यं वहन्ति ||

    utá nó’hirbudhnyó máyaskaḥ śíśum ná pipyúṣīva veti síndhuḥ ǀ
    yéna nápātamapā́m junā́ma manojúvo vṛ́ṣaṇo yám váhanti ǁ

    uta no 'hir budhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ |
    yena napātam apāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti ||

    उ॒त । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । मयः॑ । क॒रिति॑ कः । शिशु॑म् । न । पि॒प्युषी॑ऽइव । वे॒ति॒ । सिन्धुः॑ ।
    येन॑ । नपा॑तम् । अ॒पाम् । जु॒नाम॑ । म॒नः॒ऽजुवः॑ । वृष॑णः । यम् । वह॑न्ति ॥

    उत । नः । अहिः । बुध्न्यः । मयः । करिति कः । शिशुम् । न । पिप्युषीऽइव । वेति । सिन्धुः ।
    येन । नपातम् । अपाम् । जुनाम । मनःऽजुवः । वृषणः । यम् । वहन्ति ॥

    utá ǀ naḥ ǀ áhiḥ ǀ budhnyáḥ ǀ máyaḥ ǀ karíti kaḥ ǀ śíśum ǀ ná ǀ pipyúṣī-iva ǀ veti ǀ síndhuḥ ǀ
    yéna ǀ nápātam ǀ apā́m ǀ junā́ma ǀ manaḥ-júvaḥ ǀ vṛ́ṣaṇaḥ ǀ yám ǀ váhanti ǁ

    uta ǀ naḥ ǀ ahiḥ ǀ budhnyaḥ ǀ mayaḥ ǀ kariti kaḥ ǀ śiśum ǀ na ǀ pipyuṣī-iva ǀ veti ǀ sindhuḥ ǀ
    yena ǀ napātam ǀ apām ǀ junāma ǀ manaḥ-juvaḥ ǀ vṛṣaṇaḥ ǀ yam ǀ vahanti ǁ

    1.186.5 Aṣṭaka 2.5.4.0

  6. Ṛk 6

    उ॒त न॑ ईं॒ त्वष्टा गं॒त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः॑ ।
    आ वृ॑त्र॒हेंद्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग॑म्याः ॥

    उत न ईं त्वष्टा गन्त्व् अच्छा स्मत् सूरिभिर् अभिपित्वे सजोषाः |
    आ वृत्रहेन्द्रश् चर्षणिप्रास् तुविष्टमो नरां न इह गम्याः ||

    utá na īm tváṣṭā́ gantvácchā smátsūríbhirabhipitvé sajóṣāḥ ǀ
    ā́ vṛtrahéndraścarṣaṇiprā́stuvíṣṭamo narā́m na ihá gamyāḥ ǁ

    uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ |
    ā vṛtrahendraś carṣaṇiprās tuviṣṭamo narāṃ na iha gamyāḥ ||

    उ॒त । नः॒ । ई॒म् । त्वष्टा॑ । आ । ग॒न्तु॒ । अच्छ॑ । स्मत् । सू॒रिऽभिः॑ । अ॒भि॒ऽपि॒त्वे । स॒ऽजोषाः॑ ।
    आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽप्राः । तु॒विःऽत॑मः । न॒राम् । नः॒ । इ॒ह । ग॑म्याः ॥

    उत । नः । ईम् । त्वष्टा । आ । गन्तु । अच्छ । स्मत् । सूरिऽभिः । अभिऽपित्वे । सऽजोषाः ।
    आ । वृत्रऽहा । इन्द्रः । चर्षणिऽप्राः । तुविःऽतमः । नराम् । नः । इह । गम्याः ॥

    utá ǀ naḥ ǀ īm ǀ tváṣṭā ǀ ā́ ǀ gantu ǀ áccha ǀ smát ǀ sūrí-bhiḥ ǀ abhi-pitvé ǀ sa-jóṣāḥ ǀ
    ā́ ǀ vṛtra-hā́ ǀ índraḥ ǀ carṣaṇi-prā́ḥ ǀ tuvíḥ-tamaḥ ǀ narā́m ǀ naḥ ǀ ihá ǀ gámyāḥ ǁ

    uta ǀ naḥ ǀ īm ǀ tvaṣṭā ǀ ā ǀ gantu ǀ accha ǀ smat ǀ sūri-bhiḥ ǀ abhi-pitve ǀ sa-joṣāḥ ǀ
    ā ǀ vṛtra-hā ǀ indraḥ ǀ carṣaṇi-prāḥ ǀ tuviḥ-tamaḥ ǀ narām ǀ naḥ ǀ iha ǀ gamyāḥ ǁ

    1.186.6 Aṣṭaka 2.5.5.0

  7. Ṛk 7

    उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहंति ।
    तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः॑ सुर॒भिष्ट॑मं न॒रां न॑संत ॥

    उत न ईम् मतयो ऽश्वयोगाः शिशुं न गावस् तरुणं रिहन्ति |
    तम् ईं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ||

    utá na īm matáyó’śvayogāḥ śíśum ná gā́vastáruṇam rihanti ǀ
    támīm gíro jánayo ná pátnīḥ surabhíṣṭamam narā́m nasanta ǁ

    uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti |
    tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta ||

    उ॒त । नः॒ । ई॒म् । म॒तयः॑ । अश्व॑ऽयोगाः । शिशु॑म् । न । गावः॑ । तरु॑णम् । रि॒ह॒न्ति॒ ।
    तम् । ई॒म् । गिरः॑ । जन॑यः । न । पत्नीः॑ । सु॒र॒भिःऽत॑मम् । न॒राम् । न॒स॒न्त॒ ॥

    उत । नः । ईम् । मतयः । अश्वऽयोगाः । शिशुम् । न । गावः । तरुणम् । रिहन्ति ।
    तम् । ईम् । गिरः । जनयः । न । पत्नीः । सुरभिःऽतमम् । नराम् । नसन्त ॥

    utá ǀ naḥ ǀ īm ǀ matáyaḥ ǀ áśva-yogāḥ ǀ śíśum ǀ ná ǀ gā́vaḥ ǀ táruṇam ǀ rihanti ǀ
    tám ǀ īm ǀ gíraḥ ǀ jánayaḥ ǀ ná ǀ pátnīḥ ǀ surabhíḥ-tamam ǀ narā́m ǀ nasanta ǁ

    uta ǀ naḥ ǀ īm ǀ matayaḥ ǀ aśva-yogāḥ ǀ śiśum ǀ na ǀ gāvaḥ ǀ taruṇam ǀ rihanti ǀ
    tam ǀ īm ǀ giraḥ ǀ janayaḥ ǀ na ǀ patnīḥ ǀ surabhiḥ-tamam ǀ narām ǀ nasanta ǁ

    1.186.7 Aṣṭaka 2.5.5.0

  8. Ṛk 8

    उ॒त न॑ ईं म॒रुतो॑ वृ॒द्धसे॑नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदंतु ।
    पृष॑दश्वासो॒ऽवन॑यो॒ न रथा॑ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ॥

    उत न ईम् मरुतो वृद्धसेनाः स्मद् रोदसी समनसः सदन्तु |
    पृषदश्वासो ऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ||

    utá na īm marúto vṛddhásenāḥ smádródasī sámanasaḥ sadantu ǀ
    pṛ́ṣadaśvāso’vánayo ná ráthā riśā́daso mitrayújo ná devā́ḥ ǁ

    uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu |
    pṛṣadaśvāso 'vanayo na rathā riśādaso mitrayujo na devāḥ ||

    उ॒त । नः॒ । ई॒म् । म॒रुतः॑ । वृ॒द्धऽसे॑नाः॒ । स्मत् । रोद॑सी॒ इति॑ । सऽम॑नसः । स॒द॒न्तु॒ ।
    पृष॑त्ऽअश्वासः । अ॒वन॑यः । न । रथाः॑ । रि॒शाद॑सः । मि॒त्र॒ऽयुजः॑ । न । दे॒वाः ॥

    उत । नः । ईम् । मरुतः । वृद्धऽसेनाः । स्मत् । रोदसी इति । सऽमनसः । सदन्तु ।
    पृषत्ऽअश्वासः । अवनयः । न । रथाः । रिशादसः । मित्रऽयुजः । न । देवाः ॥

    utá ǀ naḥ ǀ īm ǀ marútaḥ ǀ vṛddhá-senāḥ ǀ smát ǀ ródasī íti ǀ sá-manasaḥ ǀ sadantu ǀ
    pṛ́ṣat-aśvāsaḥ ǀ avánayaḥ ǀ ná ǀ ráthāḥ ǀ riśā́dasaḥ ǀ mitra-yújaḥ ǀ ná ǀ devā́ḥ ǁ

    uta ǀ naḥ ǀ īm ǀ marutaḥ ǀ vṛddha-senāḥ ǀ smat ǀ rodasī iti ǀ sa-manasaḥ ǀ sadantu ǀ
    pṛṣat-aśvāsaḥ ǀ avanayaḥ ǀ na ǀ rathāḥ ǀ riśādasaḥ ǀ mitra-yujaḥ ǀ na ǀ devāḥ ǁ

    1.186.8 Aṣṭaka 2.5.5.0

  9. Ṛk 9

    प्र नु यदे॑षां महि॒ना चि॑कि॒त्रे प्र युं॑जते प्र॒युज॒स्ते सु॑वृ॒क्ति ।
    अध॒ यदे॑षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यंत॒ सेनाः॑ ॥

    प्र नु यद् एषाम् महिना चिकित्रे प्र युञ्जते प्रयुजस् ते सुवृक्ति |
    अध यद् एषां सुदिने न शरुर् विश्वम् एरिणम् प्रुषायन्त सेनाः ||

    prá nú yádeṣām mahinā́ cikitré prá yuñjate prayújasté suvṛktí ǀ
    ádha yádeṣām sudíne ná śárurvíśvamériṇam pruṣāyánta sénāḥ ǁ

    pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti |
    adha yad eṣāṃ sudine na śarur viśvam eriṇam pruṣāyanta senāḥ ||

    प्र । नु । यत् । ए॒षा॒म् । म॒हि॒ना । चि॒कि॒त्रे । प्र । यु॒ञ्ज॒ते॒ । प्र॒ऽयुजः॑ । ते । सु॒ऽवृ॒क्ति ।
    अध॑ । यत् । ए॒षा॒म् । सु॒ऽदिने॑ । न । शरुः॑ । विश्व॑म् । आ । इरि॑णम् । प्रु॒षा॒यन्त॑ । सेनाः॑ ॥

    प्र । नु । यत् । एषाम् । महिना । चिकित्रे । प्र । युञ्जते । प्रऽयुजः । ते । सुऽवृक्ति ।
    अध । यत् । एषाम् । सुऽदिने । न । शरुः । विश्वम् । आ । इरिणम् । प्रुषायन्त । सेनाः ॥

    prá ǀ nú ǀ yát ǀ eṣām ǀ mahinā́ ǀ cikitré ǀ prá ǀ yuñjate ǀ pra-yújaḥ ǀ té ǀ su-vṛktí ǀ
    ádha ǀ yát ǀ eṣām ǀ su-díne ǀ ná ǀ śáruḥ ǀ víśvam ǀ ā́ ǀ íriṇam ǀ pruṣāyánta ǀ sénāḥ ǁ

    pra ǀ nu ǀ yat ǀ eṣām ǀ mahinā ǀ cikitre ǀ pra ǀ yuñjate ǀ pra-yujaḥ ǀ te ǀ su-vṛkti ǀ
    adha ǀ yat ǀ eṣām ǀ su-dine ǀ na ǀ śaruḥ ǀ viśvam ǀ ā ǀ iriṇam ǀ pruṣāyanta ǀ senāḥ ǁ

    1.186.9 Aṣṭaka 2.5.5.0

  10. Ṛk 10

    प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि संति॑ ।
    अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा॑ सु॒म्नाय॑ ववृतीय दे॒वान् ॥

    प्रो अश्विनाव् अवसे कृणुध्वम् प्र पूषणं स्वतवसो हि सन्ति |
    अद्वेषो विष्णुर् वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ||

    pró aśvínāvávase kṛṇudhvam prá pūṣáṇam svátavaso hí sánti ǀ
    adveṣó víṣṇurvā́ta ṛbhukṣā́ ácchā sumnā́ya vavṛtīya devā́n ǁ

    pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi |
    adveṣo viṣṇur vāta ṛbhukṣā acchā sumnāya vavṛtīya devān ||

    प्रो इति॑ । अ॒श्विनौ॑ । अव॑से । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । स्वऽत॑वसः । हि । सन्ति॑ ।
    अ॒द्वे॒षः । विष्णुः॑ । वातः॑ । ऋ॒भु॒क्षाः । अच्छ॑ । सु॒म्नाय॑ । व॒वृ॒ती॒य॒ । दे॒वान् ॥

    प्रो इति । अश्विनौ । अवसे । कृणुध्वम् । प्र । पूषणम् । स्वऽतवसः । हि । सन्ति ।
    अद्वेषः । विष्णुः । वातः । ऋभुक्षाः । अच्छ । सुम्नाय । ववृतीय । देवान् ॥

    pró íti ǀ aśvínau ǀ ávase ǀ kṛṇudhvam ǀ prá ǀ pūṣáṇam ǀ svá-tavasaḥ ǀ hí ǀ sánti ǀ
    adveṣáḥ ǀ víṣṇuḥ ǀ vā́taḥ ǀ ṛbhukṣā́ḥ ǀ áccha ǀ sumnā́ya ǀ vavṛtīya ǀ devā́n ǁ

    pro iti ǀ aśvinau ǀ avase ǀ kṛṇudhvam ǀ pra ǀ pūṣaṇam ǀ sva-tavasaḥ ǀ hi ǀ santi ǀ
    adveṣaḥ ǀ viṣṇuḥ ǀ vātaḥ ǀ ṛbhukṣāḥ ǀ accha ǀ sumnāya ǀ vavṛtīya ǀ devān ǁ

    1.186.10 Aṣṭaka 2.5.5.0

  11. Ṛk 11

    इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।
    नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    इयं सा वो अस्मे दीधितिर् यजत्रा अपिप्राणी च सदनी च भूयाः |
    नि या देवेषु यतते वसूयुर् विद्यामेषं वृजनं जीरदानुम् ||

    iyám sā́ vo asmé dī́dhitiryajatrā apiprā́ṇī ca sádanī ca bhūyāḥ ǀ
    ní yā́ devéṣu yátate vasūyúrvidyā́meṣám vṛjánam jīrádānum ǁ

    iyaṃ sā vo asme dīdhitir yajatrā apiprāṇī ca sadanī ca bhūyāḥ |
    ni yā deveṣu yatate vasūyur vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ ।
    नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    इयम् । सा । वः । अस्मे इति । दीधितिः । यजत्राः । अपिऽप्राणी । च । सदनी । च । भूयाः ।
    नि । या । देवेषु । यतते । वसुऽयुः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    iyám ǀ sā́ ǀ vaḥ ǀ asmé íti ǀ dī́dhitiḥ ǀ yajatrāḥ ǀ api-prā́ṇī ǀ ca ǀ sádanī ǀ ca ǀ bhūyāḥ ǀ
    ní ǀ yā́ ǀ devéṣu ǀ yátate ǀ vasu-yúḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    iyam ǀ sā ǀ vaḥ ǀ asme iti ǀ dīdhitiḥ ǀ yajatrāḥ ǀ api-prāṇī ǀ ca ǀ sadanī ǀ ca ǀ bhūyāḥ ǀ
    ni ǀ yā ǀ deveṣu ǀ yatate ǀ vasu-yuḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.186.11 Aṣṭaka 2.5.5.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.186 · Viśvedevās, Savitṛ · Aryaman, Mitra, Varuṇa, Viśvedevās · Agni, Varuṇa, Viśvedevās · Uṣas, Night, Viśvedevās · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

LOVED of all men, may Savitar, through praises offered as sacred food, come to our synod, That you too, through-our hymn, ye ever-youthful, may gladden, at your visit, all our people.

Ṛk 2

To us may all the Gods come trooped together, Aryaman, Mitra, Varuṇa concordant, That all may be promoters of our welfare, and with great might preserve our strength from slackness.

Ṛk 3

Agni I sing, the guest you love most dearly: the Conqueror through our lauds is friendly-minded. That he may be our Varuṇa rich in glory and send food like a prince praised by the godly.

Ṛk 4

To you I seek with reverence, Night and Morning, like a cow good to milk, with hope to conquer, Preparing on a common day the praise. song with milk of various hues within this udder.

Ṛk 5

May the great Dragon of the Deep rejoice us: as one who nourishes her young comes Sindhu, With whom we will incite the Child of Waters whom vigorous course swift as thought bring hither.

Ṛk 6

Moreover Tvaṣṭar also shall approach us, one-minded with the princes at his visit. Hither shall come the Vṛtra-slayer Indra, Ruler of men, as strongest of the Heroes.

Ṛk 7

Him too our hymns delight, that yoke swift horses, like mother cows who lick their tender youngling. To him our songs shall yield themselves like spouses, to him the most delightful of the Heroes.

Ṛk 8

So may the Maruts, armed with mighty weapons, rest here on heaven and earth with hearts in concord, As Gods whose cars have dappled steeds like torrents, destroyers of the foe allies of Mitra.

Ṛk 9

They hasten on to happy termination their orders when they are made known by glory. As on a fair bright day the arrow flieth o’er all the barren soil their missiles sparkle.

Ṛk 10

Incline the Aśvins to show grace, and Pūṣan, for power and might have they, their own possession. Friendly are Viṣṇu, Vāta, and Ṛbhukṣan so may I bring the Gods to make us happy.