Sūkta 143
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles jagatī (2-4, 6); nicṛjjagatī (1, 7); virāḍjagatī (5); nicṛttriṣṭup (8)
2nd set of styles jagatī (1-7); triṣṭubh (8)
-
Ṛk 1
प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये॑ वा॒चो म॒तिं सह॑सः सू॒नवे॑ भरे ।
अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता॑ पृथि॒व्यां न्यसी॑ददृ॒त्वियः॑ ॥प्र तव्यसीं नव्यसीं धीतिम् अग्नये वाचो मतिं सहसः सूनवे भरे |
अपां नपाद् यो वसुभिः सह प्रियो होता पृथिव्यां न्य् असीदद् ऋत्वियः ||prá távyasīm návyasīm dhītímagnáye vācó matím sáhasaḥ sūnáve bhare ǀ
apā́m nápādyó vásubhiḥ sahá priyó hótā pṛthivyā́m nyásīdadṛtvíyaḥ ǁpra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare |
apāṃ napād yo vasubhiḥ saha priyo hotā pṛthivyāṃ ny asīdad ṛtviyaḥ ||प्र । तव्य॑सीम् । नव्य॑सीम् । धी॒तिम् । अ॒ग्नये॑ । वा॒चः । म॒तिम् । सह॑सः । सू॒नवे॑ । भ॒रे॒ ।
अ॒पाम् । नपा॑त् । यः । वसु॑ऽभिः । स॒ह । प्रि॒यः । होता॑ । पृ॒थि॒व्याम् । नि । असी॑दत् । ऋ॒त्वियः॑ ॥प्र । तव्यसीम् । नव्यसीम् । धीतिम् । अग्नये । वाचः । मतिम् । सहसः । सूनवे । भरे ।
अपाम् । नपात् । यः । वसुऽभिः । सह । प्रियः । होता । पृथिव्याम् । नि । असीदत् । ऋत्वियः ॥prá ǀ távyasīm ǀ návyasīm ǀ dhītím ǀ agnáye ǀ vācáḥ ǀ matím ǀ sáhasaḥ ǀ sūnáve ǀ bhare ǀ
apā́m ǀ nápāt ǀ yáḥ ǀ vásu-bhiḥ ǀ sahá ǀ priyáḥ ǀ hótā ǀ pṛthivyā́m ǀ ní ǀ ásīdat ǀ ṛtvíyaḥ ǁpra ǀ tavyasīm ǀ navyasīm ǀ dhītim ǀ agnaye ǀ vācaḥ ǀ matim ǀ sahasaḥ ǀ sūnave ǀ bhare ǀ
apām ǀ napāt ǀ yaḥ ǀ vasu-bhiḥ ǀ saha ǀ priyaḥ ǀ hotā ǀ pṛthivyām ǀ ni ǀ asīdat ǀ ṛtviyaḥ ǁ1.143.1 Aṣṭaka 2.2.12.1Anuvāka 1.21.40
-
Ṛk 2
स जाय॑मानः पर॒मे व्यो॑मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने ।
अ॒स्य क्रत्वा॑ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा॑ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ॥स जायमानः परमे व्योमन्य् आविर् अग्निर् अभवन् मातरिश्वने |
अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ||sá jā́yamānaḥ paramé vyómanyāvíragnírabhavanmātaríśvane ǀ
asyá krátvā samidhānásya majmánā prá dyā́vā śocíḥ pṛthivī́ arocayat ǁsa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane |
asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat ||सः । जाय॑मानः । प॒र॒मे । विऽओ॑मनि । आ॒विः । अ॒ग्निः । अ॒भ॒व॒त् । मा॒त॒रिश्व॑ने ।
अ॒स्य । क्रत्वा॑ । स॒म्ऽइ॒धा॒नस्य॑ । म॒ज्मना॑ । प्र । द्यावा॑ । शो॒चिः । पृ॒थि॒वी इति॑ । अ॒रो॒च॒य॒त् ॥सः । जायमानः । परमे । विऽओमनि । आविः । अग्निः । अभवत् । मातरिश्वने ।
अस्य । क्रत्वा । सम्ऽइधानस्य । मज्मना । प्र । द्यावा । शोचिः । पृथिवी इति । अरोचयत् ॥sáḥ ǀ jā́yamānaḥ ǀ paramé ǀ ví-omani ǀ āvíḥ ǀ agníḥ ǀ abhavat ǀ mātaríśvane ǀ
asyá ǀ krátvā ǀ sam-idhānásya ǀ majmánā ǀ prá ǀ dyā́vā ǀ śocíḥ ǀ pṛthivī́ íti ǀ arocayat ǁsaḥ ǀ jāyamānaḥ ǀ parame ǀ vi-omani ǀ āviḥ ǀ agniḥ ǀ abhavat ǀ mātariśvane ǀ
asya ǀ kratvā ǀ sam-idhānasya ǀ majmanā ǀ pra ǀ dyāvā ǀ śociḥ ǀ pṛthivī iti ǀ arocayat ǁ1.143.2 Aṣṭaka 2.2.12.2Anuvāka 1.21.41
-
Ṛk 3
अ॒स्य त्वे॒षा अ॒जरा॑ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती॑कस्य सु॒द्युतः॑ ।
भात्व॑क्षसो॒ अत्य॒क्तुर्न सिंध॑वो॒ऽग्ने रे॑जंते॒ अस॑संतो अ॒जराः॑ ॥अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः |
भात्वक्षसो अत्य् अक्तुर् न सिन्धवो ऽग्ने रेजन्ते अससन्तो अजराः ||asyá tveṣā́ ajárā asyá bhānávaḥ susaṃdṛ́śaḥ suprátīkasya sudyútaḥ ǀ
bhā́tvakṣaso átyaktúrná síndhavo’gné rejante ásasanto ajárāḥ ǁasya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ |
bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ ||अ॒स्य । त्वे॒षाः । अ॒जराः॑ । अ॒स्य । भा॒नवः॑ । सु॒ऽस॒न्दृशः॑ । सु॒ऽप्रती॑कस्य । सु॒ऽद्युतः॑ ।
भाऽत्व॑क्षसः । अति॑ । अ॒क्तुः । न । सिन्ध॑वः । अ॒ग्नेः । रे॒ज॒न्ते॒ । अस॑सन्तः । अ॒जराः॑ ॥अस्य । त्वेषाः । अजराः । अस्य । भानवः । सुऽसन्दृशः । सुऽप्रतीकस्य । सुऽद्युतः ।
भाऽत्वक्षसः । अति । अक्तुः । न । सिन्धवः । अग्नेः । रेजन्ते । अससन्तः । अजराः ॥asyá ǀ tveṣā́ḥ ǀ ajárāḥ ǀ asyá ǀ bhānávaḥ ǀ su-sandṛ́śaḥ ǀ su-prátīkasya ǀ su-dyútaḥ ǀ
bhā́-tvakṣasaḥ ǀ áti ǀ aktúḥ ǀ ná ǀ síndhavaḥ ǀ agnéḥ ǀ rejante ǀ ásasantaḥ ǀ ajárāḥ ǁasya ǀ tveṣāḥ ǀ ajarāḥ ǀ asya ǀ bhānavaḥ ǀ su-sandṛśaḥ ǀ su-pratīkasya ǀ su-dyutaḥ ǀ
bhā-tvakṣasaḥ ǀ ati ǀ aktuḥ ǀ na ǀ sindhavaḥ ǀ agneḥ ǀ rejante ǀ asasantaḥ ǀ ajarāḥ ǁ1.143.3 Aṣṭaka 2.2.12.3Anuvāka 1.21.42
-
Ṛk 4
यमे॑रि॒रे भृग॑वो वि॒श्ववे॑दसं॒ नाभा॑ पृथि॒व्या भुव॑नस्य म॒ज्मना॑ ।
अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ॥यम् एरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना |
अग्निं तं गीर्भिर् हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ||yámeriré bhṛ́gavo viśvávedasam nā́bhā pṛthivyā́ bhúvanasya majmánā ǀ
agním tám gīrbhírhinuhi svá ā́ dáme yá éko vásvo váruṇo ná rā́jati ǁyam erire bhṛgavo viśvavedasaṃ nābhā pṛthivyā bhuvanasya majmanā |
agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati ||यम् । आ॒ऽई॒रि॒रे । भृग॑वः । वि॒श्वऽवे॑दसम् । नाभा॑ । पृ॒थि॒व्याः । भुव॑नस्य । म॒ज्मना॑ ।
अ॒ग्निम् । तम् । गीः॒ऽभिः । हि॒नु॒हि॒ । स्वे । आ । दमे॑ । यः । एकः॑ । वस्वः॑ । वरु॑णः । न । राज॑ति ॥यम् । आऽईरिरे । भृगवः । विश्वऽवेदसम् । नाभा । पृथिव्याः । भुवनस्य । मज्मना ।
अग्निम् । तम् । गीःऽभिः । हिनुहि । स्वे । आ । दमे । यः । एकः । वस्वः । वरुणः । न । राजति ॥yám ǀ ā-īriré ǀ bhṛ́gavaḥ ǀ viśvá-vedasam ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ bhúvanasya ǀ majmánā ǀ
agním ǀ tám ǀ gīḥ-bhíḥ ǀ hinuhi ǀ své ǀ ā́ ǀ dáme ǀ yáḥ ǀ ékaḥ ǀ vásvaḥ ǀ váruṇaḥ ǀ ná ǀ rā́jati ǁyam ǀ ā-īrire ǀ bhṛgavaḥ ǀ viśva-vedasam ǀ nābhā ǀ pṛthivyāḥ ǀ bhuvanasya ǀ majmanā ǀ
agnim ǀ tam ǀ gīḥ-bhiḥ ǀ hinuhi ǀ sve ǀ ā ǀ dame ǀ yaḥ ǀ ekaḥ ǀ vasvaḥ ǀ varuṇaḥ ǀ na ǀ rājati ǁ1.143.4 Aṣṭaka 2.2.12.4Anuvāka 1.21.43
-
Ṛk 5
न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ ।
अ॒ग्निर्जंभै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृं॑जते ॥न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः |
अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ||ná yó várāya marútāmiva svanáḥ séneva sṛṣṭā́ divyā́ yáthāśániḥ ǀ
agnírjámbhaistigitáiratti bhárvati yodhó ná śátrūntsá vánā nyṛ́ñjate ǁna yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ |
agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate ||न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ ।
अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । यो॒धः । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥न । यः । वराय । मरुताम्ऽइव । स्वनः । सेनाऽइव । सृष्टा । दिव्या । यथा । अशनिः ।
अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । योधः । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥ná ǀ yáḥ ǀ várāya ǀ marútām-iva ǀ svanáḥ ǀ sénā-iva ǀ sṛṣṭā́ ǀ divyā́ ǀ yáthā ǀ aśániḥ ǀ
agníḥ ǀ jámbhaiḥ ǀ tigitáiḥ ǀ atti ǀ bhárvati ǀ yodháḥ ǀ ná ǀ śátrūn ǀ sáḥ ǀ vánā ǀ ní ǀ ṛñjate ǁna ǀ yaḥ ǀ varāya ǀ marutām-iva ǀ svanaḥ ǀ senā-iva ǀ sṛṣṭā ǀ divyā ǀ yathā ǀ aśaniḥ ǀ
agniḥ ǀ jambhaiḥ ǀ tigitaiḥ ǀ atti ǀ bharvati ǀ yodhaḥ ǀ na ǀ śatrūn ǀ saḥ ǀ vanā ǀ ni ǀ ṛñjate ǁ1.143.5 Aṣṭaka 2.2.12.5Anuvāka 1.21.44
-
Ṛk 6
कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् ।
चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् |
चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ||kuvínno agnírucáthasya vī́rásadvásuṣkuvídvásubhiḥ kā́mamāvárat ǀ
codáḥ kuvíttutujyā́tsātáye dhíyaḥ śúcipratīkam támayā́ dhiyā́ gṛṇe ǁkuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat |
codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe ||कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् ।
चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसुऽभिः । कामम् । आऽवरत् ।
चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचिऽप्रतीकम् । तम् । अया । धिया । गृणे ॥kuvít ǀ naḥ ǀ agníḥ ǀ ucáthasya ǀ vī́ḥ ǀ ásat ǀ vásuḥ ǀ kuvít ǀ vásu-bhiḥ ǀ kā́mam ǀ ā-várat ǀ
codáḥ ǀ kuvít ǀ tutujyā́t ǀ sātáye ǀ dhíyaḥ ǀ śúci-pratīkam ǀ tám ǀ ayā́ ǀ dhiyā́ ǀ gṛṇe ǁkuvit ǀ naḥ ǀ agniḥ ǀ ucathasya ǀ vīḥ ǀ asat ǀ vasuḥ ǀ kuvit ǀ vasu-bhiḥ ǀ kāmam ǀ ā-varat ǀ
codaḥ ǀ kuvit ǀ tutujyāt ǀ sātaye ǀ dhiyaḥ ǀ śuci-pratīkam ǀ tam ǀ ayā ǀ dhiyā ǀ gṛṇe ǁ1.143.6 Aṣṭaka 2.2.12.6Anuvāka 1.21.45
-
Ṛk 7
घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋं॑जते ।
इंधा॑नो अ॒क्रो वि॒दथे॑षु॒ दीद्य॑च्छु॒क्रव॑र्णा॒मुदु॑ नो यंसते॒ धियं॑ ॥घृतप्रतीकं व ऋतस्य धूर्षदम् अग्निम् मित्रं न समिधान ऋञ्जते |
इन्धानो अक्रो विदथेषु दीद्यच् छुक्रवर्णाम् उद् उ नो यंसते धियम् ||ghṛtápratīkam va ṛtásya dhūrṣádamagním mitrám ná samidhāná ṛñjate ǀ
índhāno akró vidátheṣu dī́dyacchukrávarṇāmúdu no yaṃsate dhíyam ǁghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate |
indhāno akro vidatheṣu dīdyac chukravarṇām ud u no yaṃsate dhiyam ||घृ॒तऽप्र॑तीकम् । वः॒ । ऋ॒तस्य॑ । धूः॒ऽसद॑म् । अ॒ग्निम् । मि॒त्रम् । न । स॒म्ऽइ॒धा॒नः । ऋ॒ञ्ज॒ते॒ ।
इन्धा॑नः । अ॒क्रः । वि॒दथे॑षु । दीद्य॑त् । शु॒क्रऽव॑र्णाम् । उत् । ऊं॒ इति॑ । नः॒ । यं॒स॒ते॒ । धिय॑म् ॥घृतऽप्रतीकम् । वः । ऋतस्य । धूःऽसदम् । अग्निम् । मित्रम् । न । सम्ऽइधानः । ऋञ्जते ।
इन्धानः । अक्रः । विदथेषु । दीद्यत् । शुक्रऽवर्णाम् । उत् । ऊं इति । नः । यंसते । धियम् ॥ghṛtá-pratīkam ǀ vaḥ ǀ ṛtásya ǀ dhūḥ-sádam ǀ agním ǀ mitrám ǀ ná ǀ sam-idhānáḥ ǀ ṛñjate ǀ
índhānaḥ ǀ akráḥ ǀ vidátheṣu ǀ dī́dyat ǀ śukrá-varṇām ǀ út ǀ ūṃ íti ǀ naḥ ǀ yaṃsate ǀ dhíyam ǁghṛta-pratīkam ǀ vaḥ ǀ ṛtasya ǀ dhūḥ-sadam ǀ agnim ǀ mitram ǀ na ǀ sam-idhānaḥ ǀ ṛñjate ǀ
indhānaḥ ǀ akraḥ ǀ vidatheṣu ǀ dīdyat ǀ śukra-varṇām ǀ ut ǀ ūṃ iti ǀ naḥ ǀ yaṃsate ǀ dhiyam ǁ1.143.7 Aṣṭaka 2.2.12.7Anuvāka 1.21.46
-
Ṛk 8
अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि॑र्नः पा॒युभिः॑ पाहि श॒ग्मैः ।
अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ॥अप्रयुच्छन्न् अप्रयुच्छद्भिर् अग्ने शिवेभिर् नः पायुभिः पाहि शग्मैः |
अदब्धेभिर् अदृपितेभिर् इष्टे ऽनिमिषद्भिः परि पाहि नो जाः ||áprayucchannáprayucchadbhiragne śivébhirnaḥ pāyúbhiḥ pāhi śagmáiḥ ǀ
ádabdhebhirádṛpitebhiriṣṭé’nimiṣadbhiḥ pári pāhi no jā́ḥ ǁaprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ |
adabdhebhir adṛpitebhir iṣṭe 'nimiṣadbhiḥ pari pāhi no jāḥ ||अप्र॑ऽयुच्छन् । अप्र॑युच्छत्ऽभिः । अ॒ग्ने॒ । शि॒वेभिः॑ । नः॒ । पा॒युऽभिः॑ । पा॒हि॒ । श॒ग्मैः ।
अद॑ब्धेभिः । अदृ॑पितेभिः । इ॒ष्टे॒ । अनि॑मिषत्ऽभिः । परि॑ । पा॒हि॒ । नः॒ । जाः ॥अप्रऽयुच्छन् । अप्रयुच्छत्ऽभिः । अग्ने । शिवेभिः । नः । पायुऽभिः । पाहि । शग्मैः ।
अदब्धेभिः । अदृपितेभिः । इष्टे । अनिमिषत्ऽभिः । परि । पाहि । नः । जाः ॥ápra-yucchan ǀ áprayucchat-bhiḥ ǀ agne ǀ śivébhiḥ ǀ naḥ ǀ pāyú-bhiḥ ǀ pāhi ǀ śagmáiḥ ǀ
ádabdhebhiḥ ǀ ádṛpitebhiḥ ǀ iṣṭe ǀ ánimiṣat-bhiḥ ǀ pári ǀ pāhi ǀ naḥ ǀ jā́ḥ ǁapra-yucchan ǀ aprayucchat-bhiḥ ǀ agne ǀ śivebhiḥ ǀ naḥ ǀ pāyu-bhiḥ ǀ pāhi ǀ śagmaiḥ ǀ
adabdhebhiḥ ǀ adṛpitebhiḥ ǀ iṣṭe ǀ animiṣat-bhiḥ ǀ pari ǀ pāhi ǀ naḥ ǀ jāḥ ǁ1.143.8 Aṣṭaka 2.2.12.8Anuvāka 1.21.47
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.