Ṛgveda · Maṇḍala 1 · Sūkta 143
Ṛk 1.143.6
Saṃhitā
कु॒विन्नो॑ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् ।
चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ॥
कुविन् नो अग्निर् उचथस्य वीर् असद् वसुष् कुविद् वसुभिः कामम् आवरत् |
चोदः कुवित् तुतुज्यात् सातये धियः शुचिप्रतीकं तम् अया धिया गृणे ||
kuvínno agnírucáthasya vī́rásadvásuṣkuvídvásubhiḥ kā́mamāvárat ǀ
codáḥ kuvíttutujyā́tsātáye dhíyaḥ śúcipratīkam támayā́ dhiyā́ gṛṇe ǁ
kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat |
codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe ||
Padapāṭha
कु॒वित् । नः॒ । अ॒ग्निः । उ॒चथ॑स्य । वीः । अस॑त् । वसुः॑ । कु॒वित् । वसु॑ऽभिः । काम॑म् । आ॒ऽवर॑त् ।
चो॒दः । कु॒वित् । तु॒तु॒ज्यात् । सा॒तये॑ । धियः॑ । शुचि॑ऽप्रतीकम् । तम् । अ॒या । धि॒या । गृ॒णे॒ ॥
कुवित् । नः । अग्निः । उचथस्य । वीः । असत् । वसुः । कुवित् । वसुऽभिः । कामम् । आऽवरत् ।
चोदः । कुवित् । तुतुज्यात् । सातये । धियः । शुचिऽप्रतीकम् । तम् । अया । धिया । गृणे ॥
kuvít ǀ naḥ ǀ agníḥ ǀ ucáthasya ǀ vī́ḥ ǀ ásat ǀ vásuḥ ǀ kuvít ǀ vásu-bhiḥ ǀ kā́mam ǀ ā-várat ǀ
codáḥ ǀ kuvít ǀ tutujyā́t ǀ sātáye ǀ dhíyaḥ ǀ śúci-pratīkam ǀ tám ǀ ayā́ ǀ dhiyā́ ǀ gṛṇe ǁ
kuvit ǀ naḥ ǀ agniḥ ǀ ucathasya ǀ vīḥ ǀ asat ǀ vasuḥ ǀ kuvit ǀ vasu-bhiḥ ǀ kāmam ǀ ā-varat ǀ
codaḥ ǀ kuvit ǀ tutujyāt ǀ sātaye ǀ dhiyaḥ ǀ śuci-pratīkam ǀ tam ǀ ayā ǀ dhiyā ǀ gṛṇe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.143.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.12.06
- Maṇḍala · Anuvāka · Ṛk
- 1.21.045
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.