Ṛgveda · Maṇḍala 1 · Sūkta 143
Ṛk 1.143.5
Saṃhitā
न यो वरा॑य म॒रुता॑मिव स्व॒नः सेने॑व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ ।
अ॒ग्निर्जंभै॑स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्त्स वना॒ न्यृं॑जते ॥
न यो वराय मरुताम् इव स्वनः सेनेव सृष्टा दिव्या यथाशनिः |
अग्निर् जम्भैस् तिगितैर् अत्ति भर्वति योधो न शत्रून् स वना न्य् ऋञ्जते ||
ná yó várāya marútāmiva svanáḥ séneva sṛṣṭā́ divyā́ yáthāśániḥ ǀ
agnírjámbhaistigitáiratti bhárvati yodhó ná śátrūntsá vánā nyṛ́ñjate ǁ
na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ |
agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate ||
Padapāṭha
न । यः । वरा॑य । म॒रुता॑म्ऽइव । स्व॒नः । सेना॑ऽइव । सृ॒ष्टा । दि॒व्या । यथा॑ । अ॒शनिः॑ ।
अ॒ग्निः । जम्भैः॑ । ति॒गि॒तैः । अ॒त्ति॒ । भर्व॑ति । यो॒धः । न । शत्रू॑न् । सः । वना॑ । नि । ऋ॒ञ्ज॒ते॒ ॥
न । यः । वराय । मरुताम्ऽइव । स्वनः । सेनाऽइव । सृष्टा । दिव्या । यथा । अशनिः ।
अग्निः । जम्भैः । तिगितैः । अत्ति । भर्वति । योधः । न । शत्रून् । सः । वना । नि । ऋञ्जते ॥
ná ǀ yáḥ ǀ várāya ǀ marútām-iva ǀ svanáḥ ǀ sénā-iva ǀ sṛṣṭā́ ǀ divyā́ ǀ yáthā ǀ aśániḥ ǀ
agníḥ ǀ jámbhaiḥ ǀ tigitáiḥ ǀ atti ǀ bhárvati ǀ yodháḥ ǀ ná ǀ śátrūn ǀ sáḥ ǀ vánā ǀ ní ǀ ṛñjate ǁ
na ǀ yaḥ ǀ varāya ǀ marutām-iva ǀ svanaḥ ǀ senā-iva ǀ sṛṣṭā ǀ divyā ǀ yathā ǀ aśaniḥ ǀ
agniḥ ǀ jambhaiḥ ǀ tigitaiḥ ǀ atti ǀ bharvati ǀ yodhaḥ ǀ na ǀ śatrūn ǀ saḥ ǀ vanā ǀ ni ǀ ṛñjate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.143.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.12.05
- Maṇḍala · Anuvāka · Ṛk
- 1.21.044
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.