Sūkta 108
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 3, 6, 11); triṣṭup (7, 9, 10, 13); nicṛttriṣṭup (1, 8, 12); bhurikpaṅkti (4); paṅktiḥ (5)
2nd set of styles triṣṭubh
-
Ṛk 1
य इं॑द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ ।
तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥य इन्द्राग्नी चित्रतमो रथो वाम् अभि विश्वानि भुवनानि चष्टे |
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ||yá indrāgnī citrátamo rátho vāmabhí víśvāni bhúvanāni cáṣṭe ǀ
ténā́ yātam sarátham tasthivā́ṃsā́thā sómasya pibatam sutásya ǁya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe |
tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya ||यः । इ॒न्द्रा॒ग्नी॒ इति॑ । चि॒त्रऽत॑मः । रथः॑ । वा॒म् । अ॒भि । विश्वा॑नि । भुव॑नानि । चष्टे॑ ।
तेन॑ । आ । या॒त॒म् । स॒ऽरथ॑म् । त॒स्थि॒ऽवांसा॑ । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यः । इन्द्राग्नी इति । चित्रऽतमः । रथः । वाम् । अभि । विश्वानि । भुवनानि । चष्टे ।
तेन । आ । यातम् । सऽरथम् । तस्थिऽवांसा । अथ । सोमस्य । पिबतम् । सुतस्य ॥yáḥ ǀ indrāgnī íti ǀ citrá-tamaḥ ǀ ráthaḥ ǀ vām ǀ abhí ǀ víśvāni ǀ bhúvanāni ǀ cáṣṭe ǀ
téna ǀ ā́ ǀ yātam ǀ sa-rátham ǀ tasthi-vā́ṃsā ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyaḥ ǀ indrāgnī iti ǀ citra-tamaḥ ǀ rathaḥ ǀ vām ǀ abhi ǀ viśvāni ǀ bhuvanāni ǀ caṣṭe ǀ
tena ǀ ā ǀ yātam ǀ sa-ratham ǀ tasthi-vāṃsā ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.1 Aṣṭaka 1.7.26.1Anuvāka 1.16.11
-
Ṛk 2
याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रं ।
तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिंद्राग्नी॒ मन॑से यु॒वभ्यां॑ ॥यावद् इदम् भुवनं विश्वम् अस्त्य् उरुव्यचा वरिमता गभीरम् |
तावां अयम् पातवे सोमो अस्त्व् अरम् इन्द्राग्नी मनसे युवभ्याम् ||yā́vadidám bhúvanam víśvamástyuruvyácā varimátā gabhīrám ǀ
tā́vām̐ ayám pā́tave sómo astváramindrāgnī mánase yuvábhyām ǁyāvad idam bhuvanaṃ viśvam asty uruvyacā varimatā gabhīram |
tāvāṃ ayam pātave somo astv aram indrāgnī manase yuvabhyām ||याव॑त् । इ॒दम् । भुव॑नम् । विश्व॑म् । अस्ति॑ । उ॒रु॒ऽव्यचा॑ । व॒रि॒मता॑ । ग॒भी॒रम् ।
तावा॑न् । अ॒यम् । पात॑वे । सोमः॑ । अ॒स्तु॒ । अर॑म् । इ॒न्द्रा॒ग्नी॒ इति॑ । मन॑से । यु॒वऽभ्या॑म् ॥यावत् । इदम् । भुवनम् । विश्वम् । अस्ति । उरुऽव्यचा । वरिमता । गभीरम् ।
तावान् । अयम् । पातवे । सोमः । अस्तु । अरम् । इन्द्राग्नी इति । मनसे । युवऽभ्याम् ॥yā́vat ǀ idám ǀ bhúvanam ǀ víśvam ǀ ásti ǀ uru-vyácā ǀ varimátā ǀ gabhīrám ǀ
tā́vān ǀ ayám ǀ pā́tave ǀ sómaḥ ǀ astu ǀ áram ǀ indrāgnī íti ǀ mánase ǀ yuvá-bhyām ǁyāvat ǀ idam ǀ bhuvanam ǀ viśvam ǀ asti ǀ uru-vyacā ǀ varimatā ǀ gabhīram ǀ
tāvān ǀ ayam ǀ pātave ǀ somaḥ ǀ astu ǀ aram ǀ indrāgnī iti ǀ manase ǀ yuva-bhyām ǁ1.108.2 Aṣṭaka 1.7.26.2Anuvāka 1.16.12
-
Ṛk 3
च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ ।
ताविं॑द्राग्नी स॒ध्र्यं॑चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथां ॥चक्राथे हि सध्र्यङ् नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः |
ताव् इन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ||cakrā́the hí sadhryáṅnā́ma bhadrám sadhrīcīnā́ vṛtrahaṇā utá sthaḥ ǀ
tā́vindrāgnī sadhryáñcā niṣádyā vṛ́ṣṇaḥ sómasya vṛṣaṇā́ vṛṣethām ǁcakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ |
tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām ||च॒क्राथे॒ इति॑ । हि । स॒ध्र्य॑क् । नाम॑ । भ॒द्रम् । स॒ध्री॒ची॒ना । वृ॒त्र॒ऽह॒नौ॒ । उ॒त । स्थः॒ ।
तौ । इ॒न्द्रा॒ग्नी॒ इति॑ । स॒ध्र्य॑ञ्चा । नि॒ऽसद्य॑ । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ॥चक्राथे इति । हि । सध्र्यक् । नाम । भद्रम् । सध्रीचीना । वृत्रऽहनौ । उत । स्थः ।
तौ । इन्द्राग्नी इति । सध्र्यञ्चा । निऽसद्य । वृष्णः । सोमस्य । वृषणा । आ । वृषेथाम् ॥cakrā́the íti ǀ hí ǀ sadhryák ǀ nā́ma ǀ bhadrám ǀ sadhrīcīnā́ ǀ vṛtra-hanau ǀ utá ǀ sthaḥ ǀ
táu ǀ indrāgnī íti ǀ sadhryáñcā ǀ ni-sádya ǀ vṛ́ṣṇaḥ ǀ sómasya ǀ vṛṣaṇā ǀ ā́ ǀ vṛṣethām ǁcakrāthe iti ǀ hi ǀ sadhryak ǀ nāma ǀ bhadram ǀ sadhrīcīnā ǀ vṛtra-hanau ǀ uta ǀ sthaḥ ǀ
tau ǀ indrāgnī iti ǀ sadhryañcā ǀ ni-sadya ǀ vṛṣṇaḥ ǀ somasya ǀ vṛṣaṇā ǀ ā ǀ vṛṣethām ǁ1.108.3 Aṣṭaka 1.7.26.3Anuvāka 1.16.13
-
Ṛk 4
समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा ।
ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेंद्रा॑ग्नी सौमन॒साय॑ यातं ॥समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा |
तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ||sámiddheṣvagníṣvānajānā́ yatásrucā barhíru tistirāṇā́ ǀ
tīvráiḥ sómaiḥ páriṣiktebhirarvā́géndrāgnī saumanasā́ya yātam ǁsamiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā |
tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam ||सम्ऽइ॑द्धेषु । अ॒ग्निषु॑ । आ॒न॒जा॒ना । य॒तऽस्रु॑चा । ब॒र्हिः । ऊं॒ इति॑ । ति॒स्ति॒रा॒णा ।
ती॒व्रैः । सोमैः॑ । परि॑ऽसिक्तेभिः । अ॒र्वाक् । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ॥सम्ऽइद्धेषु । अग्निषु । आनजाना । यतऽस्रुचा । बर्हिः । ऊं इति । तिस्तिराणा ।
तीव्रैः । सोमैः । परिऽसिक्तेभिः । अर्वाक् । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ॥sám-iddheṣu ǀ agníṣu ǀ ānajānā́ ǀ yatá-srucā ǀ barhíḥ ǀ ūṃ íti ǀ tistirāṇā́ ǀ
tīvráiḥ ǀ sómaiḥ ǀ pári-siktebhiḥ ǀ arvā́k ǀ ā́ ǀ indrāgnī íti ǀ saumanasā́ya ǀ yātam ǁsam-iddheṣu ǀ agniṣu ǀ ānajānā ǀ yata-srucā ǀ barhiḥ ǀ ūṃ iti ǀ tistirāṇā ǀ
tīvraiḥ ǀ somaiḥ ǀ pari-siktebhiḥ ǀ arvāk ǀ ā ǀ indrāgnī iti ǀ saumanasāya ǀ yātam ǁ1.108.4 Aṣṭaka 1.7.26.4Anuvāka 1.16.14
-
Ṛk 5
यानीं॑द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि ।
या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यानीन्द्राग्नी चक्रथुर् वीर्याणि यानि रूपाण्य् उत वृष्ण्यानि |
या वाम् प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ||yā́nīndrāgnī cakráthurvīryā́ṇi yā́ni rūpā́ṇyutá vṛ́ṣṇyāni ǀ
yā́ vām pratnā́ni sakhyā́ śivā́ni tébhiḥ sómasya pibatam sutásya ǁyānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni |
yā vām pratnāni sakhyā śivāni tebhiḥ somasya pibataṃ sutasya ||यानि॑ । इ॒न्द्रा॒ग्नी॒ इति॑ । च॒क्रथुः॑ । वी॒र्या॑णि । यानि॑ । रू॒पाणि॑ । उ॒त । वृष्ण्या॑नि ।
या । वा॒म् । प्र॒त्नानि॑ । स॒ख्या । शि॒वानि॑ । तेभिः॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यानि । इन्द्राग्नी इति । चक्रथुः । वीर्याणि । यानि । रूपाणि । उत । वृष्ण्यानि ।
या । वाम् । प्रत्नानि । सख्या । शिवानि । तेभिः । सोमस्य । पिबतम् । सुतस्य ॥yā́ni ǀ indrāgnī íti ǀ cakráthuḥ ǀ vīryā́ṇi ǀ yā́ni ǀ rūpā́ṇi ǀ utá ǀ vṛ́ṣṇyāni ǀ
yā́ ǀ vām ǀ pratnā́ni ǀ sakhyā́ ǀ śivā́ni ǀ tébhiḥ ǀ sómasya ǀ pibatam ǀ sutásya ǁyāni ǀ indrāgnī iti ǀ cakrathuḥ ǀ vīryāṇi ǀ yāni ǀ rūpāṇi ǀ uta ǀ vṛṣṇyāni ǀ
yā ǀ vām ǀ pratnāni ǀ sakhyā ǀ śivāni ǀ tebhiḥ ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.5 Aṣṭaka 1.7.26.5Anuvāka 1.16.15
-
Ṛk 6
यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ ।
तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् अब्रवम् प्रथमं वां वृणानो ऽयं सोमो असुरैर् नो विहव्यः |
तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádábravam prathamám vām vṛṇānó’yám sómo ásurairno vihávyaḥ ǀ
tā́m satyā́m śraddhā́mabhyā́ hí yātámáthā sómasya pibatam sutásya ǁyad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ |
tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya ||यत् । अब्र॑वम् । प्र॒थ॒मम् । वा॒म् । वृ॒णा॒नः । अ॒यम् । सोमः॑ । असु॑रैः । नः॒ । वि॒ऽहव्यः॑ ।
ताम् । स॒त्याम् । श्र॒द्धाम् । अ॒भि । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । अब्रवम् । प्रथमम् । वाम् । वृणानः । अयम् । सोमः । असुरैः । नः । विऽहव्यः ।
ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ ábravam ǀ prathamám ǀ vām ǀ vṛṇānáḥ ǀ ayám ǀ sómaḥ ǀ ásuraiḥ ǀ naḥ ǀ vi-hávyaḥ ǀ
tā́m ǀ satyā́m ǀ śraddhā́m ǀ abhí ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ abravam ǀ prathamam ǀ vām ǀ vṛṇānaḥ ǀ ayam ǀ somaḥ ǀ asuraiḥ ǀ naḥ ǀ vi-havyaḥ ǀ
tām ǀ satyām ǀ śraddhām ǀ abhi ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.6 Aṣṭaka 1.7.27.1Anuvāka 1.16.16
-
Ṛk 7
यदिं॑द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् इन्द्राग्नी मदथः स्वे दुरोणे यद् ब्रह्मणि राजनि वा यजत्रा |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádindrāgnī mádathaḥ své duroṇé yádbrahmáṇi rā́jani vā yajatrā ǀ
átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁyad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । मद॑थः । स्वे । दु॒रो॒णे । यत् । ब्र॒ह्मणि॑ । राज॑नि । वा॒ । य॒ज॒त्रा॒ ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । मदथः । स्वे । दुरोणे । यत् । ब्रह्मणि । राजनि । वा । यजत्रा ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ indrāgnī íti ǀ mádathaḥ ǀ své ǀ duroṇé ǀ yát ǀ brahmáṇi ǀ rā́jani ǀ vā ǀ yajatrā ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ indrāgnī iti ǀ madathaḥ ǀ sve ǀ duroṇe ǀ yat ǀ brahmaṇi ǀ rājani ǀ vā ǀ yajatrā ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.7 Aṣṭaka 1.7.27.2Anuvāka 1.16.17
-
Ṛk 8
यदिं॑द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádindrāgnī yáduṣu turváśeṣu yáddruhyúṣvánuṣu pūrúṣu stháḥ ǀ
átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁyad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । यदु॑षु । तु॒र्वशे॑षु । यत् । द्रु॒ह्युषु॑ । अनु॑षु । पू॒रुषु॑ । स्थः ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । यदुषु । तुर्वशेषु । यत् । द्रुह्युषु । अनुषु । पूरुषु । स्थः ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ indrāgnī íti ǀ yáduṣu ǀ turváśeṣu ǀ yát ǀ druhyúṣu ǀ ánuṣu ǀ pūrúṣu ǀ stháḥ ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ indrāgnī iti ǀ yaduṣu ǀ turvaśeṣu ǀ yat ǀ druhyuṣu ǀ anuṣu ǀ pūruṣu ǀ sthaḥ ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.8 Aṣṭaka 1.7.27.3Anuvāka 1.16.18
-
Ṛk 9
यदिं॑द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् इन्द्राग्नी अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्याम् उत स्थः |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádindrāgnī avamásyām pṛthivyā́m madhyamásyām paramásyāmutá stháḥ ǀ
átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁyad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒मस्या॑म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या॑म् । प॒र॒मस्या॑म् । उ॒त । स्थः ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । अवमस्याम् । पृथिव्याम् । मध्यमस्याम् । परमस्याम् । उत । स्थः ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ indrāgnī íti ǀ avamásyām ǀ pṛthivyā́m ǀ madhyamásyām ǀ paramásyām ǀ utá ǀ stháḥ ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ indrāgnī iti ǀ avamasyām ǀ pṛthivyām ǀ madhyamasyām ǀ paramasyām ǀ uta ǀ sthaḥ ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.9 Aṣṭaka 1.7.27.4Anuvāka 1.16.19
-
Ṛk 10
यदिं॑द्राग्नी पर॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्या॑मव॒मस्या॑मु॒त स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् इन्द्राग्नी परमस्याम् पृथिव्याम् मध्यमस्याम् अवमस्याम् उत स्थः |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádindrāgnī paramásyām pṛthivyā́m madhyamásyāmavamásyāmutá stháḥ ǀ
átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁyad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । प॒र॒मस्या॑म् । पृ॒थि॒व्याम् । म॒ध्य॒मस्या॑म् । अ॒व॒मस्या॑म् । उ॒त । स्थः ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । परमस्याम् । पृथिव्याम् । मध्यमस्याम् । अवमस्याम् । उत । स्थः ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ indrāgnī íti ǀ paramásyām ǀ pṛthivyā́m ǀ madhyamásyām ǀ avamásyām ǀ utá ǀ stháḥ ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ indrāgnī iti ǀ paramasyām ǀ pṛthivyām ǀ madhyamasyām ǀ avamasyām ǀ uta ǀ sthaḥ ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.10 Aṣṭaka 1.7.27.5Anuvāka 1.16.20
-
Ṛk 11
यदिं॑द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् इन्द्राग्नी दिवि ष्ठो यत् पृथिव्यां यत् पर्वतेष्व् ओषधीष्व् अप्सु |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádindrāgnī diví ṣṭhó yátpṛthivyā́m yátpárvateṣvóṣadhīṣvapsú ǀ
átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁyad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । दि॒वि । स्थः । यत् । पृ॒थि॒व्याम् । यत् । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । दिवि । स्थः । यत् । पृथिव्याम् । यत् । पर्वतेषु । ओषधीषु । अप्ऽसु ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ indrāgnī íti ǀ diví ǀ stháḥ ǀ yát ǀ pṛthivyā́m ǀ yát ǀ párvateṣu ǀ óṣadhīṣu ǀ ap-sú ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ indrāgnī iti ǀ divi ǀ sthaḥ ǀ yat ǀ pṛthivyām ǀ yat ǀ parvateṣu ǀ oṣadhīṣu ǀ ap-su ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.11 Aṣṭaka 1.7.27.6Anuvāka 1.16.21
-
Ṛk 12
यदिं॑द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥यद् इन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||yádindrāgnī úditā sū́ryasya mádhye diváḥ svadháyā mādáyethe ǀ
átaḥ pári vṛ́ṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁyad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । उत्ऽइ॑ता । सूर्य॑स्य । मध्ये॑ । दि॒वः । स्व॒धया॑ । मा॒दये॑थे॒ इति॑ ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥यत् । इन्द्राग्नी इति । उत्ऽइता । सूर्यस्य । मध्ये । दिवः । स्वधया । मादयेथे इति ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥yát ǀ indrāgnī íti ǀ út-itā ǀ sū́ryasya ǀ mádhye ǀ diváḥ ǀ svadháyā ǀ mādáyethe íti ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁyat ǀ indrāgnī iti ǀ ut-itā ǀ sūryasya ǀ madhye ǀ divaḥ ǀ svadhayā ǀ mādayethe iti ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ1.108.12 Aṣṭaka 1.7.27.7Anuvāka 1.16.22
-
Ṛk 13
ए॒वेंद्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||evéndrāgnī papivā́ṃsā sutásya víśvāsmábhyam sám jayatam dhánāni ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁevendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||ए॒व । इ॒न्द्रा॒ग्नी॒ इति॑ । प॒पि॒ऽवांसा॑ । सु॒तस्य॑ । विश्वा॑ । अ॒स्मभ्य॑म् । सम् । ज॒य॒त॒म् । धना॑नि ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥एव । इन्द्राग्नी इति । पपिऽवांसा । सुतस्य । विश्वा । अस्मभ्यम् । सम् । जयतम् । धनानि ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥evá ǀ indrāgnī íti ǀ papi-vā́ṃsā ǀ sutásya ǀ víśvā ǀ asmábhyam ǀ sám ǀ jayatam ǀ dhánāni ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁeva ǀ indrāgnī iti ǀ papi-vāṃsā ǀ sutasya ǀ viśvā ǀ asmabhyam ǀ sam ǀ jayatam ǀ dhanāni ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.108.13 Aṣṭaka 1.7.27.8Anuvāka 1.16.23
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.