Ṛgveda · Maṇḍala 1 · Sūkta 108
Ṛk 1.108.8
Saṃhitā
यदिं॑द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यद् इन्द्राग्नी यदुषु तुर्वशेषु यद् द्रुह्युष्व् अनुषु पूरुषु स्थः |
अतः परि वृषणाव् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||
yádindrāgnī yáduṣu turváśeṣu yáddruhyúṣvánuṣu pūrúṣu stháḥ ǀ
átaḥ pári vṛṣaṇāvā́ hí yātámáthā sómasya pibatam sutásya ǁ
yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ |
ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya ||
Padapāṭha
यत् । इ॒न्द्रा॒ग्नी॒ इति॑ । यदु॑षु । तु॒र्वशे॑षु । यत् । द्रु॒ह्युषु॑ । अनु॑षु । पू॒रुषु॑ । स्थः ।
अतः॑ । परि॑ । वृ॒ष॒णौ॒ । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥
यत् । इन्द्राग्नी इति । यदुषु । तुर्वशेषु । यत् । द्रुह्युषु । अनुषु । पूरुषु । स्थः ।
अतः । परि । वृषणौ । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥
yát ǀ indrāgnī íti ǀ yáduṣu ǀ turváśeṣu ǀ yát ǀ druhyúṣu ǀ ánuṣu ǀ pūrúṣu ǀ stháḥ ǀ
átaḥ ǀ pári ǀ vṛṣaṇau ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁ
yat ǀ indrāgnī iti ǀ yaduṣu ǀ turvaśeṣu ǀ yat ǀ druhyuṣu ǀ anuṣu ǀ pūruṣu ǀ sthaḥ ǀ
ataḥ ǀ pari ǀ vṛṣaṇau ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.108.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.27.03
- Maṇḍala · Anuvāka · Ṛk
- 1.16.018
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.