Ṛgveda · Maṇḍala 1 · Sūkta 108
Ṛk 1.108.6
Saṃhitā
यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ ।
तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥
यद् अब्रवम् प्रथमं वां वृणानो ऽयं सोमो असुरैर् नो विहव्यः |
तां सत्यां श्रद्धाम् अभ्य् आ हि यातम् अथा सोमस्य पिबतं सुतस्य ||
yádábravam prathamám vām vṛṇānó’yám sómo ásurairno vihávyaḥ ǀ
tā́m satyā́m śraddhā́mabhyā́ hí yātámáthā sómasya pibatam sutásya ǁ
yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ |
tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya ||
Padapāṭha
यत् । अब्र॑वम् । प्र॒थ॒मम् । वा॒म् । वृ॒णा॒नः । अ॒यम् । सोमः॑ । असु॑रैः । नः॒ । वि॒ऽहव्यः॑ ।
ताम् । स॒त्याम् । श्र॒द्धाम् । अ॒भि । आ । हि । या॒तम् । अथ॑ । सोम॑स्य । पि॒ब॒त॒म् । सु॒तस्य॑ ॥
यत् । अब्रवम् । प्रथमम् । वाम् । वृणानः । अयम् । सोमः । असुरैः । नः । विऽहव्यः ।
ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ । सोमस्य । पिबतम् । सुतस्य ॥
yát ǀ ábravam ǀ prathamám ǀ vām ǀ vṛṇānáḥ ǀ ayám ǀ sómaḥ ǀ ásuraiḥ ǀ naḥ ǀ vi-hávyaḥ ǀ
tā́m ǀ satyā́m ǀ śraddhā́m ǀ abhí ǀ ā́ ǀ hí ǀ yātám ǀ átha ǀ sómasya ǀ pibatam ǀ sutásya ǁ
yat ǀ abravam ǀ prathamam ǀ vām ǀ vṛṇānaḥ ǀ ayam ǀ somaḥ ǀ asuraiḥ ǀ naḥ ǀ vi-havyaḥ ǀ
tām ǀ satyām ǀ śraddhām ǀ abhi ǀ ā ǀ hi ǀ yātam ǀ atha ǀ somasya ǀ pibatam ǀ sutasya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.108.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.27.01
- Maṇḍala · Anuvāka · Ṛk
- 1.16.016
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.