Ṛgveda · Maṇḍala 1 · Sūkta 108
Ṛk 1.108.4
Saṃhitā
समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा ।
ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेंद्रा॑ग्नी सौमन॒साय॑ यातं ॥
समिद्धेष्व् अग्निष्व् आनजाना यतस्रुचा बर्हिर् उ तिस्तिराणा |
तीव्रैः सोमैः परिषिक्तेभिर् अर्वाग् एन्द्राग्नी सौमनसाय यातम् ||
sámiddheṣvagníṣvānajānā́ yatásrucā barhíru tistirāṇā́ ǀ
tīvráiḥ sómaiḥ páriṣiktebhirarvā́géndrāgnī saumanasā́ya yātam ǁ
samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā |
tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam ||
Padapāṭha
सम्ऽइ॑द्धेषु । अ॒ग्निषु॑ । आ॒न॒जा॒ना । य॒तऽस्रु॑चा । ब॒र्हिः । ऊं॒ इति॑ । ति॒स्ति॒रा॒णा ।
ती॒व्रैः । सोमैः॑ । परि॑ऽसिक्तेभिः । अ॒र्वाक् । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ॥
सम्ऽइद्धेषु । अग्निषु । आनजाना । यतऽस्रुचा । बर्हिः । ऊं इति । तिस्तिराणा ।
तीव्रैः । सोमैः । परिऽसिक्तेभिः । अर्वाक् । आ । इन्द्राग्नी इति । सौमनसाय । यातम् ॥
sám-iddheṣu ǀ agníṣu ǀ ānajānā́ ǀ yatá-srucā ǀ barhíḥ ǀ ūṃ íti ǀ tistirāṇā́ ǀ
tīvráiḥ ǀ sómaiḥ ǀ pári-siktebhiḥ ǀ arvā́k ǀ ā́ ǀ indrāgnī íti ǀ saumanasā́ya ǀ yātam ǁ
sam-iddheṣu ǀ agniṣu ǀ ānajānā ǀ yata-srucā ǀ barhiḥ ǀ ūṃ iti ǀ tistirāṇā ǀ
tīvraiḥ ǀ somaiḥ ǀ pari-siktebhiḥ ǀ arvāk ǀ ā ǀ indrāgnī iti ǀ saumanasāya ǀ yātam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.108.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.26.04
- Maṇḍala · Anuvāka · Ṛk
- 1.16.014
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.