Ṛgveda · Maṇḍala 1

Sūkta 166

Maruts · Agastya Maitrāvaruṇi · 15 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Jagatī, Triṣṭubh
Metres by ṛk

1st set of styles nicṛjjagatī (3, 5, 6, 12, 13); jagatī (1, 2, 8); bhuriktriṣṭup (7, 9, 10); virāḍjagatī (4); virāṭtrisṭup (11); triṣṭup (14); paṅktiḥ (15)

2nd set of styles jagatī (1-13); triṣṭubh (14-15)

  1. Ṛk 1

    तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ ।
    ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥

    तन् नु वोचाम रभसाय जन्मने पूर्वम् महित्वं वृषभस्य केतवे |
    ऐधेव यामन् मरुतस् तुविष्वणो युधेव शक्रास् तविषाणि कर्तन ||

    tánnú vocāma rabhasā́ya jánmane pū́rvam mahitvám vṛṣabhásya ketáve ǀ
    aidhéva yā́manmarutastuviṣvaṇo yudhéva śakrāstaviṣā́ṇi kartana ǁ

    tan nu vocāma rabhasāya janmane pūrvam mahitvaṃ vṛṣabhasya ketave |
    aidheva yāman marutas tuviṣvaṇo yudheva śakrās taviṣāṇi kartana ||

    तत् । नु । वो॒चा॒म॒ । र॒भ॒साय॑ । जन्म॑ने । पूर्व॑म् । म॒हि॒ऽत्वम् । वृ॒ष॒भस्य॑ । के॒तवे॑ ।
    ऐ॒धाऽइ॑व । याम॑न् । म॒रु॒तः॒ । तु॒वि॒ऽस्व॒नः॒ । यु॒धाऽइ॑व । श॒क्राः॒ । त॒वि॒षाणि॑ । क॒र्त॒न॒ ॥

    तत् । नु । वोचाम । रभसाय । जन्मने । पूर्वम् । महिऽत्वम् । वृषभस्य । केतवे ।
    ऐधाऽइव । यामन् । मरुतः । तुविऽस्वनः । युधाऽइव । शक्राः । तविषाणि । कर्तन ॥

    tát ǀ nú ǀ vocāma ǀ rabhasā́ya ǀ jánmane ǀ pū́rvam ǀ mahi-tvám ǀ vṛṣabhásya ǀ ketáve ǀ
    aidhā́-iva ǀ yā́man ǀ marutaḥ ǀ tuvi-svanaḥ ǀ yudhā́-iva ǀ śakrāḥ ǀ taviṣā́ṇi ǀ kartana ǁ

    tat ǀ nu ǀ vocāma ǀ rabhasāya ǀ janmane ǀ pūrvam ǀ mahi-tvam ǀ vṛṣabhasya ǀ ketave ǀ
    aidhā-iva ǀ yāman ǀ marutaḥ ǀ tuvi-svanaḥ ǀ yudhā-iva ǀ śakrāḥ ǀ taviṣāṇi ǀ kartana ǁ

    1.166.1 Aṣṭaka 2.4.1.0

  2. Ṛk 2

    नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळं॑ति क्री॒ळा वि॒दथे॑षु॒ घृष्व॑यः ।
    नक्षं॑ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धंति॒ स्वत॑वसो हवि॒ष्कृतं॑ ॥

    नित्यं न सूनुम् मधु बिभ्रत उप क्रीऌअन्ति क्रीऌआ विदथेषु घृष्वयः |
    नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ||

    nítyam ná sūnúm mádhu bíbhrata úpa krī́ḷanti krīḷā́ vidátheṣu ghṛ́ṣvayaḥ ǀ
    nákṣanti rudrā́ ávasā namasvínam ná mardhanti svátavaso haviṣkṛ́tam ǁ

    nityaṃ na sūnum madhu bibhrata upa krīḷanti krīḷā vidatheṣu ghṛṣvayaḥ |
    nakṣanti rudrā avasā namasvinaṃ na mardhanti svatavaso haviṣkṛtam ||

    नित्य॑म् । न । सू॒नुम् । मधु॑ । बिभ्र॑तः । उप॑ । क्रीळ॑न्ति । क्री॒ळाः । वि॒दथे॑षु । घृष्व॑यः ।
    नक्ष॑न्ति । रु॒द्राः । अव॑सा । न॒म॒स्विन॑म् । न । म॒र्ध॒न्ति॒ । स्वऽत॑वसः । ह॒विः॒ऽकृत॑म् ॥

    नित्यम् । न । सूनुम् । मधु । बिभ्रतः । उप । क्रीळन्ति । क्रीळाः । विदथेषु । घृष्वयः ।
    नक्षन्ति । रुद्राः । अवसा । नमस्विनम् । न । मर्धन्ति । स्वऽतवसः । हविःऽकृतम् ॥

    nítyam ǀ ná ǀ sūnúm ǀ mádhu ǀ bíbhrataḥ ǀ úpa ǀ krī́ḷanti ǀ krīḷā́ḥ ǀ vidátheṣu ǀ ghṛ́ṣvayaḥ ǀ
    nákṣanti ǀ rudrā́ḥ ǀ ávasā ǀ namasvínam ǀ ná ǀ mardhanti ǀ svá-tavasaḥ ǀ haviḥ-kṛ́tam ǁ

    nityam ǀ na ǀ sūnum ǀ madhu ǀ bibhrataḥ ǀ upa ǀ krīḷanti ǀ krīḷāḥ ǀ vidatheṣu ǀ ghṛṣvayaḥ ǀ
    nakṣanti ǀ rudrāḥ ǀ avasā ǀ namasvinam ǀ na ǀ mardhanti ǀ sva-tavasaḥ ǀ haviḥ-kṛtam ǁ

    1.166.2 Aṣṭaka 2.4.1.0

  3. Ṛk 3

    यस्मा॒ ऊमा॑सो अ॒मृता॒ अरा॑सत रा॒यस्पोषं॑ च ह॒विषा॑ ददा॒शुषे॑ ।
    उ॒क्षंत्य॑स्मै म॒रुतो॑ हि॒ता इ॑व पु॒रू रजां॑सि॒ पय॑सा मयो॒भुवः॑ ॥

    यस्मा ऊमासो अमृता अरासत रायस् पोषं च हविषा ददाशुषे |
    उक्षन्त्य् अस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ||

    yásmā ū́māso amṛ́tā árāsata rāyáspóṣam ca havíṣā dadāśúṣe ǀ
    ukṣántyasmai marúto hitā́ iva purū́ rájāṃsi páyasā mayobhúvaḥ ǁ

    yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe |
    ukṣanty asmai maruto hitā iva purū rajāṃsi payasā mayobhuvaḥ ||

    यस्मै॑ । ऊमा॑सः । अ॒मृताः॑ । अरा॑सत । रा॒यः । पोष॑म् । च॒ । ह॒विषा॑ । द॒दा॒शुषे॑ ।
    उ॒क्षन्ति॑ । अ॒स्मै॒ । म॒रुतः॑ । हि॒ताःऽइ॑व । पु॒रु । रजां॑सि । पय॑सा । म॒यः॒ऽभुवः॑ ॥

    यस्मै । ऊमासः । अमृताः । अरासत । रायः । पोषम् । च । हविषा । ददाशुषे ।
    उक्षन्ति । अस्मै । मरुतः । हिताःऽइव । पुरु । रजांसि । पयसा । मयःऽभुवः ॥

    yásmai ǀ ū́māsaḥ ǀ amṛ́tāḥ ǀ árāsata ǀ rāyáḥ ǀ póṣam ǀ ca ǀ havíṣā ǀ dadāśúṣe ǀ
    ukṣánti ǀ asmai ǀ marútaḥ ǀ hitā́ḥ-iva ǀ purú ǀ rájāṃsi ǀ páyasā ǀ mayaḥ-bhúvaḥ ǁ

    yasmai ǀ ūmāsaḥ ǀ amṛtāḥ ǀ arāsata ǀ rāyaḥ ǀ poṣam ǀ ca ǀ haviṣā ǀ dadāśuṣe ǀ
    ukṣanti ǀ asmai ǀ marutaḥ ǀ hitāḥ-iva ǀ puru ǀ rajāṃsi ǀ payasā ǀ mayaḥ-bhuvaḥ ǁ

    1.166.3 Aṣṭaka 2.4.1.0

  4. Ṛk 4

    आ ये रजां॑सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा॑सः॒ स्वय॑तासो अध्रजन् ।
    भयं॑ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ॥

    आ ये रजांसि तविषीभिर् अव्यत प्र व एवासः स्वयतासो अध्रजन् |
    भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्व् ऋष्टिषु ||

    ā́ yé rájāṃsi táviṣībhirávyata prá va évāsaḥ sváyatāso adhrajan ǀ
    bháyante víśvā bhúvanāni harmyā́ citró vo yā́maḥ práyatāsvṛṣṭíṣu ǁ

    ā ye rajāṃsi taviṣībhir avyata pra va evāsaḥ svayatāso adhrajan |
    bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu ||

    आ । ये । रजां॑सि । तवि॑षीभिः । अव्य॑त । प्र । वः॒ । एवा॑सः । स्वऽय॑तासः । अ॒ध्र॒ज॒न् ।
    भय॑न्ते । विश्वा॑ । भुव॑नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः॑ । प्रऽय॑तासु । ऋ॒ष्टिषु॑ ॥

    आ । ये । रजांसि । तविषीभिः । अव्यत । प्र । वः । एवासः । स्वऽयतासः । अध्रजन् ।
    भयन्ते । विश्वा । भुवनानि । हर्म्या । चित्रः । वः । यामः । प्रऽयतासु । ऋष्टिषु ॥

    ā́ ǀ yé ǀ rájāṃsi ǀ táviṣībhiḥ ǀ ávyata ǀ prá ǀ vaḥ ǀ évāsaḥ ǀ svá-yatāsaḥ ǀ adhrajan ǀ
    bháyante ǀ víśvā ǀ bhúvanāni ǀ harmyā́ ǀ citráḥ ǀ vaḥ ǀ yā́maḥ ǀ prá-yatāsu ǀ ṛṣṭíṣu ǁ

    ā ǀ ye ǀ rajāṃsi ǀ taviṣībhiḥ ǀ avyata ǀ pra ǀ vaḥ ǀ evāsaḥ ǀ sva-yatāsaḥ ǀ adhrajan ǀ
    bhayante ǀ viśvā ǀ bhuvanāni ǀ harmyā ǀ citraḥ ǀ vaḥ ǀ yāmaḥ ǀ pra-yatāsu ǀ ṛṣṭiṣu ǁ

    1.166.4 Aṣṭaka 2.4.1.0

  5. Ṛk 5

    यत्त्वे॒षया॑मा न॒दयं॑त॒ पर्व॑तांदि॒वो वा॑ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः ।
    विश्वो॑ वो॒ अज्म॑न्भयते॒ वन॒स्पती॑ रथी॒यंती॑व॒ प्र जि॑हीत॒ ओष॑धिः ॥

    यत् त्वेषयामा नदयन्त पर्वतान् दिवो वा पृष्ठं नर्या अचुच्यवुः |
    विश्वो वो अज्मन् भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ||

    yáttveṣáyāmā nadáyanta párvatāndivó vā pṛṣṭhám náryā ácucyavuḥ ǀ
    víśvo vo ájmanbhayate vánaspátī rathīyántīva prá jihīta óṣadhiḥ ǁ

    yat tveṣayāmā nadayanta parvatān divo vā pṛṣṭhaṃ naryā acucyavuḥ |
    viśvo vo ajman bhayate vanaspatī rathīyantīva pra jihīta oṣadhiḥ ||

    यत् । त्वे॒षऽया॑माः । न॒दय॑न्त । पर्व॑तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः॑ । अचु॑च्यवुः ।
    विश्वः॑ । वः॒ । अज्म॑न् । भ॒य॒ते॒ । वन॒स्पतिः॑ । र॒थि॒यन्ती॑ऽइव । प्र । जि॒ही॒ते॒ । ओष॑धिः ॥

    यत् । त्वेषऽयामाः । नदयन्त । पर्वतान् । दिवः । वा । पृष्ठम् । नर्याः । अचुच्यवुः ।
    विश्वः । वः । अज्मन् । भयते । वनस्पतिः । रथियन्तीऽइव । प्र । जिहीते । ओषधिः ॥

    yát ǀ tveṣá-yāmāḥ ǀ nadáyanta ǀ párvatān ǀ diváḥ ǀ vā ǀ pṛṣṭhám ǀ náryāḥ ǀ ácucyavuḥ ǀ
    víśvaḥ ǀ vaḥ ǀ ájman ǀ bhayate ǀ vánaspátiḥ ǀ rathiyántī-iva ǀ prá ǀ jihīte ǀ óṣadhiḥ ǁ

    yat ǀ tveṣa-yāmāḥ ǀ nadayanta ǀ parvatān ǀ divaḥ ǀ vā ǀ pṛṣṭham ǀ naryāḥ ǀ acucyavuḥ ǀ
    viśvaḥ ǀ vaḥ ǀ ajman ǀ bhayate ǀ vanaspatiḥ ǀ rathiyantī-iva ǀ pra ǀ jihīte ǀ oṣadhiḥ ǁ

    1.166.5 Aṣṭaka 2.4.1.0

  6. Ṛk 6

    यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन ।
    यत्रा॑ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा॑ ॥

    यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिम् पिपर्तन |
    यत्रा वो दिद्युद् रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ||

    yūyám na ugrā marutaḥ sucetúnā́riṣṭagrāmāḥ sumatím pipartana ǀ
    yátrā vo didyúdrádati krívirdatī riṇā́ti paśváḥ súdhiteva barháṇā ǁ

    yūyaṃ na ugrā marutaḥ sucetunāriṣṭagrāmāḥ sumatim pipartana |
    yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā ||

    यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒ऽचे॒तुना॑ । अरि॑ष्टऽग्रामाः । सु॒ऽम॒तिम् । पि॒प॒र्त॒न॒ ।
    यत्र॑ । वः॒ । दि॒द्युत् । रद॑ति । क्रिविः॑ऽदती । रि॒णाति॑ । प॒श्वः । सुधि॑ताऽइव । ब॒र्हणा॑ ॥

    यूयम् । नः । उग्राः । मरुतः । सुऽचेतुना । अरिष्टऽग्रामाः । सुऽमतिम् । पिपर्तन ।
    यत्र । वः । दिद्युत् । रदति । क्रिविःऽदती । रिणाति । पश्वः । सुधिताऽइव । बर्हणा ॥

    yūyám ǀ naḥ ǀ ugrāḥ ǀ marutaḥ ǀ su-cetúnā ǀ áriṣṭa-grāmāḥ ǀ su-matím ǀ pipartana ǀ
    yátra ǀ vaḥ ǀ didyút ǀ rádati ǀ kríviḥ-datī ǀ riṇā́ti ǀ paśváḥ ǀ súdhitā-iva ǀ barháṇā ǁ

    yūyam ǀ naḥ ǀ ugrāḥ ǀ marutaḥ ǀ su-cetunā ǀ ariṣṭa-grāmāḥ ǀ su-matim ǀ pipartana ǀ
    yatra ǀ vaḥ ǀ didyut ǀ radati ǀ kriviḥ-datī ǀ riṇāti ǀ paśvaḥ ǀ sudhitā-iva ǀ barhaṇā ǁ

    1.166.6 Aṣṭaka 2.4.2.0

  7. Ṛk 7

    प्र स्कं॒भदे॑ष्णा अनव॒भ्ररा॑धसोऽलातृ॒णासो॑ वि॒दथे॑षु॒ सुष्टु॑ताः ।
    अर्चं॑त्य॒र्कं म॑दि॒रस्य॑ पी॒तये॑ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या॑ ॥

    प्र स्कम्भदेष्णा अनवभ्रराधसो ऽलातृणासो विदथेषु सुष्टुताः |
    अर्चन्त्य् अर्कम् मदिरस्य पीतये विदुर् वीरस्य प्रथमानि पौंस्या ||

    prá skambhádeṣṇā anavabhrárādhaso’lātṛṇā́so vidátheṣu súṣṭutāḥ ǀ
    árcantyarkám madirásya pītáye vidúrvīrásya prathamā́ni páuṃsyā ǁ

    pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ |
    arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā ||

    प्र । स्क॒म्भऽदे॑ष्णाः । अ॒न॒व॒भ्रऽरा॑धसः । अ॒ला॒तृ॒णासः॑ । वि॒दथे॑षु । सुऽस्तु॑ताः ।
    अर्च॑न्ति । अ॒र्कम् । म॒दि॒रस्य॑ । पी॒तये॑ । वि॒दुः । वी॒रस्य॑ । प्र॒थ॒मानि॑ । पौंस्या॑ ॥

    प्र । स्कम्भऽदेष्णाः । अनवभ्रऽराधसः । अलातृणासः । विदथेषु । सुऽस्तुताः ।
    अर्चन्ति । अर्कम् । मदिरस्य । पीतये । विदुः । वीरस्य । प्रथमानि । पौंस्या ॥

    prá ǀ skambhá-deṣṇāḥ ǀ anavabhrá-rādhasaḥ ǀ alātṛṇā́saḥ ǀ vidátheṣu ǀ sú-stutāḥ ǀ
    árcanti ǀ arkám ǀ madirásya ǀ pītáye ǀ vidúḥ ǀ vīrásya ǀ prathamā́ni ǀ páuṃsyā ǁ

    pra ǀ skambha-deṣṇāḥ ǀ anavabhra-rādhasaḥ ǀ alātṛṇāsaḥ ǀ vidatheṣu ǀ su-stutāḥ ǀ
    arcanti ǀ arkam ǀ madirasya ǀ pītaye ǀ viduḥ ǀ vīrasya ǀ prathamāni ǀ pauṃsyā ǁ

    1.166.7 Aṣṭaka 2.4.2.0

  8. Ṛk 8

    श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त ।
    जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ॥

    शतभुजिभिस् तम् अभिह्रुतेर् अघात् पूर्भी रक्षता मरुतो यम् आवत |
    जनं यम् उग्रास् तवसो विरप्शिनः पाथना शंसात् तनयस्य पुष्टिषु ||

    śatábhujibhistámabhíhruteraghā́tpūrbhī́ rakṣatā maruto yámā́vata ǀ
    jánam yámugrāstavaso virapśinaḥ pāthánā śáṃsāttánayasya puṣṭíṣu ǁ

    śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata |
    janaṃ yam ugrās tavaso virapśinaḥ pāthanā śaṃsāt tanayasya puṣṭiṣu ||

    श॒तभु॑जिऽभिः । तम् । अ॒भिऽह्रु॑तेः । अ॒घात् । पूः॒ऽभिः । र॒क्ष॒त॒ । म॒रु॒तः॒ । यम् । आव॑त ।
    जन॑म् । यम् । उ॒ग्राः॒ । त॒व॒सः॒ । वि॒ऽर॒प्शि॒नः॒ । पा॒थन॑ । शंसा॑त् । तन॑यस्य । पु॒ष्टिषु॑ ॥

    शतभुजिऽभिः । तम् । अभिऽह्रुतेः । अघात् । पूःऽभिः । रक्षत । मरुतः । यम् । आवत ।
    जनम् । यम् । उग्राः । तवसः । विऽरप्शिनः । पाथन । शंसात् । तनयस्य । पुष्टिषु ॥

    śatábhuji-bhiḥ ǀ tám ǀ abhí-hruteḥ ǀ aghā́t ǀ pūḥ-bhíḥ ǀ rakṣata ǀ marutaḥ ǀ yám ǀ ā́vata ǀ
    jánam ǀ yám ǀ ugrāḥ ǀ tavasaḥ ǀ vi-rapśinaḥ ǀ pāthána ǀ śáṃsāt ǀ tánayasya ǀ puṣṭíṣu ǁ

    śatabhuji-bhiḥ ǀ tam ǀ abhi-hruteḥ ǀ aghāt ǀ pūḥ-bhiḥ ǀ rakṣata ǀ marutaḥ ǀ yam ǀ āvata ǀ
    janam ǀ yam ǀ ugrāḥ ǀ tavasaḥ ǀ vi-rapśinaḥ ǀ pāthana ǀ śaṃsāt ǀ tanayasya ǀ puṣṭiṣu ǁ

    1.166.8 Aṣṭaka 2.4.2.0

  9. Ṛk 9

    विश्वा॑नि भ॒द्रा म॑रुतो॒ रथे॑षु वो मिथ॒स्पृध्ये॑व तवि॒षाण्याहि॑ता ।
    अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो॑ वश्च॒क्रा स॒मया॒ वि वा॑वृते ॥

    विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्य् आहिता |
    अंसेष्व् आ वः प्रपथेषु खादयो ऽक्षो वश् चक्रा समया वि वावृते ||

    víśvāni bhadrā́ maruto rátheṣu vo mithaspṛ́dhyeva taviṣā́ṇyā́hitā ǀ
    áṃseṣvā́ vaḥ prápatheṣu khādáyó’kṣo vaścakrā́ samáyā ví vāvṛte ǁ

    viśvāni bhadrā maruto ratheṣu vo mithaspṛdhyeva taviṣāṇy āhitā |
    aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte ||

    विश्वा॑नि । भ॒द्रा । म॒रु॒तः॒ । रथे॑षु । वः॒ । मि॒थ॒स्पृध्या॑ऽइव । त॒वि॒षाणि॑ । आऽहि॑ता ।
    अंसे॑षु । आ । वः॒ । प्रऽप॑थेषु । खा॒दयः॑ । अक्षः॑ । वः॒ । च॒क्रा । स॒मया॑ । वि । व॒वृ॒ते॒ ॥

    विश्वानि । भद्रा । मरुतः । रथेषु । वः । मिथस्पृध्याऽइव । तविषाणि । आऽहिता ।
    अंसेषु । आ । वः । प्रऽपथेषु । खादयः । अक्षः । वः । चक्रा । समया । वि । ववृते ॥

    víśvāni ǀ bhadrā́ ǀ marutaḥ ǀ rátheṣu ǀ vaḥ ǀ mithaspṛ́dhyā-iva ǀ taviṣā́ṇi ǀ ā́-hitā ǀ
    áṃseṣu ǀ ā́ ǀ vaḥ ǀ prá-patheṣu ǀ khādáyaḥ ǀ ákṣaḥ ǀ vaḥ ǀ cakrā́ ǀ samáyā ǀ ví ǀ vavṛte ǁ

    viśvāni ǀ bhadrā ǀ marutaḥ ǀ ratheṣu ǀ vaḥ ǀ mithaspṛdhyā-iva ǀ taviṣāṇi ǀ ā-hitā ǀ
    aṃseṣu ǀ ā ǀ vaḥ ǀ pra-patheṣu ǀ khādayaḥ ǀ akṣaḥ ǀ vaḥ ǀ cakrā ǀ samayā ǀ vi ǀ vavṛte ǁ

    1.166.9 Aṣṭaka 2.4.2.0

  10. Ṛk 10

    भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्षः॑सु रु॒क्मा र॑भ॒सासो॑ अं॒जयः॑ ।
    अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥

    भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः |
    अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ||

    bhū́rīṇi bhadrā́ náryeṣu bāhúṣu vákṣaḥsu rukmā́ rabhasā́so añjáyaḥ ǀ
    áṃseṣvétāḥ pavíṣu kṣurā́ ádhi váyo ná pakṣā́nvyánu śríyo dhire ǁ

    bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ |
    aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire ||

    भूरी॑णि । भ॒द्रा । नर्ये॑षु । बा॒हुषु॑ । वक्षः॑ऽसु । रु॒क्माः । र॒भ॒सासः॑ । अ॒ञ्जयः॑ ।
    अंसे॑षु । एताः॑ । प॒विषु॑ । क्षु॒राः । अधि॑ । वयः॑ । न । प॒क्षान् । वि । अनु॑ । श्रियः॑ । धि॒रे॒ ॥

    भूरीणि । भद्रा । नर्येषु । बाहुषु । वक्षःऽसु । रुक्माः । रभसासः । अञ्जयः ।
    अंसेषु । एताः । पविषु । क्षुराः । अधि । वयः । न । पक्षान् । वि । अनु । श्रियः । धिरे ॥

    bhū́rīṇi ǀ bhadrā́ ǀ náryeṣu ǀ bāhúṣu ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ rabhasā́saḥ ǀ añjáyaḥ ǀ
    áṃseṣu ǀ étāḥ ǀ pavíṣu ǀ kṣurā́ḥ ǀ ádhi ǀ váyaḥ ǀ ná ǀ pakṣā́n ǀ ví ǀ ánu ǀ śríyaḥ ǀ dhire ǁ

    bhūrīṇi ǀ bhadrā ǀ naryeṣu ǀ bāhuṣu ǀ vakṣaḥ-su ǀ rukmāḥ ǀ rabhasāsaḥ ǀ añjayaḥ ǀ
    aṃseṣu ǀ etāḥ ǀ paviṣu ǀ kṣurāḥ ǀ adhi ǀ vayaḥ ǀ na ǀ pakṣān ǀ vi ǀ anu ǀ śriyaḥ ǀ dhire ǁ

    1.166.10 Aṣṭaka 2.4.2.0

  11. Ṛk 11

    म॒हांतो॑ म॒ह्ना वि॒भ्वो॒३॒॑ विभू॑तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ ।
    मं॒द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ संमि॑श्ला॒ इंद्रे॑ म॒रुतः॑ परि॒ष्टुभः॑ ॥

    महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः |
    मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ||

    mahā́nto mahnā́ vibhvó víbhūtayo dūredṛ́śo yé divyā́ iva stṛ́bhiḥ ǀ
    mandrā́ḥ sujihvā́ḥ sváritāra āsábhiḥ sámmiślā índre marútaḥ pariṣṭúbhaḥ ǁ

    mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ |
    mandrāḥ sujihvāḥ svaritāra āsabhiḥ sammiślā indre marutaḥ pariṣṭubhaḥ ||

    म॒हान्तः॑ । म॒ह्ना । वि॒ऽभ्वः॑ । विऽभू॑तयः । दू॒रे॒ऽदृशः॑ । ये । दि॒व्याःऽइ॑व । स्तृऽभिः॑ ।
    म॒न्द्राः । सु॒ऽजि॒ह्वाः । स्वरि॑तारः । आ॒सऽभिः॑ । सम्ऽमि॑श्लाः । इन्द्रे॑ । म॒रुतः॑ । प॒रि॒ऽस्तुभः॑ ॥

    महान्तः । मह्ना । विऽभ्वः । विऽभूतयः । दूरेऽदृशः । ये । दिव्याःऽइव । स्तृऽभिः ।
    मन्द्राः । सुऽजिह्वाः । स्वरितारः । आसऽभिः । सम्ऽमिश्लाः । इन्द्रे । मरुतः । परिऽस्तुभः ॥

    mahā́ntaḥ ǀ mahnā́ ǀ vi-bhváḥ ǀ ví-bhūtayaḥ ǀ dūre-dṛ́śaḥ ǀ yé ǀ divyā́ḥ-iva ǀ stṛ́-bhiḥ ǀ
    mandrā́ḥ ǀ su-jihvā́ḥ ǀ sváritāraḥ ǀ āsá-bhiḥ ǀ sám-miślāḥ ǀ índre ǀ marútaḥ ǀ pari-stúbhaḥ ǁ

    mahāntaḥ ǀ mahnā ǀ vi-bhvaḥ ǀ vi-bhūtayaḥ ǀ dūre-dṛśaḥ ǀ ye ǀ divyāḥ-iva ǀ stṛ-bhiḥ ǀ
    mandrāḥ ǀ su-jihvāḥ ǀ svaritāraḥ ǀ āsa-bhiḥ ǀ sam-miślāḥ ǀ indre ǀ marutaḥ ǀ pari-stubhaḥ ǁ

    1.166.11 Aṣṭaka 2.4.3.0

  12. Ṛk 12

    तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तं ।
    इंद्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वं ॥

    तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् |
    इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ||

    tádvaḥ sujātā maruto mahitvanám dīrghám vo dātrámáditeriva vratám ǀ
    índraścaná tyájasā ví hruṇāti tájjánāya yásmai sukṛ́te árādhvam ǁ

    tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam |
    indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam ||

    तत् । वः॒ । सु॒ऽजा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि॑तेःऽइव । व्र॒तम् ।
    इन्द्रः॑ । च॒न । त्यज॑सा । वि । ह्रु॒णा॒ति॒ । तत् । जना॑य । यस्मै॑ । सु॒ऽकृते॑ । अरा॑ध्वम् ॥

    तत् । वः । सुऽजाताः । मरुतः । महिऽत्वनम् । दीर्घम् । वः । दात्रम् । अदितेःऽइव । व्रतम् ।
    इन्द्रः । चन । त्यजसा । वि । ह्रुणाति । तत् । जनाय । यस्मै । सुऽकृते । अराध्वम् ॥

    tát ǀ vaḥ ǀ su-jātāḥ ǀ marutaḥ ǀ mahi-tvanám ǀ dīrghám ǀ vaḥ ǀ dātrám ǀ áditeḥ-iva ǀ vratám ǀ
    índraḥ ǀ caná ǀ tyájasā ǀ ví ǀ hruṇāti ǀ tát ǀ jánāya ǀ yásmai ǀ su-kṛ́te ǀ árādhvam ǁ

    tat ǀ vaḥ ǀ su-jātāḥ ǀ marutaḥ ǀ mahi-tvanam ǀ dīrgham ǀ vaḥ ǀ dātram ǀ aditeḥ-iva ǀ vratam ǀ
    indraḥ ǀ cana ǀ tyajasā ǀ vi ǀ hruṇāti ǀ tat ǀ janāya ǀ yasmai ǀ su-kṛte ǀ arādhvam ǁ

    1.166.12 Aṣṭaka 2.4.3.0

  13. Ṛk 13

    तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।
    अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥

    तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत |
    अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ||

    tádvo jāmitvám marutaḥ páre yugé purū́ yáccháṃsamamṛtāsa ā́vata ǀ
    ayā́ dhiyā́ mánave śruṣṭímā́vyā sākám náro daṃsánairā́ cikitrire ǁ

    tad vo jāmitvam marutaḥ pare yuge purū yac chaṃsam amṛtāsa āvata |
    ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire ||

    तत् । वः॒ । जा॒मि॒ऽत्वम् । म॒रु॒तः॒ । परे॑ । यु॒गे । पु॒रु । यत् । शंस॑म् । अ॒मृ॒ता॒सः॒ । आव॑त ।
    अ॒या । धि॒या । मन॑वे । श्रु॒ष्टिम् । आव्य॑ । सा॒कम् । नरः॑ । दं॒सनैः॑ । आ । चि॒कि॒त्रि॒रे॒ ॥

    तत् । वः । जामिऽत्वम् । मरुतः । परे । युगे । पुरु । यत् । शंसम् । अमृतासः । आवत ।
    अया । धिया । मनवे । श्रुष्टिम् । आव्य । साकम् । नरः । दंसनैः । आ । चिकित्रिरे ॥

    tát ǀ vaḥ ǀ jāmi-tvám ǀ marutaḥ ǀ páre ǀ yugé ǀ purú ǀ yát ǀ śáṃsam ǀ amṛtāsaḥ ǀ ā́vata ǀ
    ayā́ ǀ dhiyā́ ǀ mánave ǀ śruṣṭím ǀ ā́vya ǀ sākám ǀ náraḥ ǀ daṃsánaiḥ ǀ ā́ ǀ cikitrire ǁ

    tat ǀ vaḥ ǀ jāmi-tvam ǀ marutaḥ ǀ pare ǀ yuge ǀ puru ǀ yat ǀ śaṃsam ǀ amṛtāsaḥ ǀ āvata ǀ
    ayā ǀ dhiyā ǀ manave ǀ śruṣṭim ǀ āvya ǀ sākam ǀ naraḥ ǀ daṃsanaiḥ ǀ ā ǀ cikitrire ǁ

    1.166.13 Aṣṭaka 2.4.3.0

  14. Ṛk 14

    येन॑ दी॒र्घं म॑रुतः शू॒शवा॑म यु॒ष्माके॑न॒ परी॑णसा तुरासः ।
    आ यत्त॒तन॑न्वृ॒जने॒ जना॑स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्यां ॥

    येन दीर्घम् मरुतः शूशवाम युष्माकेन परीणसा तुरासः |
    आ यत् ततनन् वृजने जनास एभिर् यज्ञेभिस् तद् अभीष्टिम् अश्याम् ||

    yéna dīrghám marutaḥ śūśávāma yuṣmā́kena párīṇasā turāsaḥ ǀ
    ā́ yáttatánanvṛjáne jánāsa ebhíryajñébhistádabhī́ṣṭimaśyām ǁ

    yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ |
    ā yat tatanan vṛjane janāsa ebhir yajñebhis tad abhīṣṭim aśyām ||

    येन॑ । दी॒र्घम् । म॒रु॒तः॒ । शू॒शवा॑म । यु॒ष्माके॑न । परी॑णसा । तु॒रा॒सः॒ ।
    आ । यत् । त॒तन॑न् । वृ॒जने॑ । जना॑सः । ए॒भिः । य॒ज्ञेभिः॑ । तत् । अ॒भि । इष्टि॑म् । अ॒श्या॒म् ॥

    येन । दीर्घम् । मरुतः । शूशवाम । युष्माकेन । परीणसा । तुरासः ।
    आ । यत् । ततनन् । वृजने । जनासः । एभिः । यज्ञेभिः । तत् । अभि । इष्टिम् । अश्याम् ॥

    yéna ǀ dīrghám ǀ marutaḥ ǀ śūśávāma ǀ yuṣmā́kena ǀ párīṇasā ǀ turāsaḥ ǀ
    ā́ ǀ yát ǀ tatánan ǀ vṛjáne ǀ jánāsaḥ ǀ ebhíḥ ǀ yajñébhiḥ ǀ tát ǀ abhí ǀ íṣṭim ǀ aśyām ǁ

    yena ǀ dīrgham ǀ marutaḥ ǀ śūśavāma ǀ yuṣmākena ǀ parīṇasā ǀ turāsaḥ ǀ
    ā ǀ yat ǀ tatanan ǀ vṛjane ǀ janāsaḥ ǀ ebhiḥ ǀ yajñebhiḥ ǀ tat ǀ abhi ǀ iṣṭim ǀ aśyām ǁ

    1.166.14 Aṣṭaka 2.4.3.0

  15. Ṛk 15

    ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मां॑दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
    एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

    एष व स्तोमो मरुत इयं गीर् मान्दार्यस्य मान्यस्य कारोः |
    एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ||

    eṣá vaḥ stómo maruta iyám gī́rmāndāryásya mānyásya kāróḥ ǀ
    éṣā́ yāsīṣṭa tanvé vayā́m vidyā́meṣám vṛjánam jīrádānum ǁ

    eṣa va stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ |
    eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum ||

    ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
    आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

    एषः । वः । स्तोमः । मरुतः । इयम् । गीः । मान्दार्यस्य । मान्यस्य । कारोः ।
    आ । इषा । यासीष्ट । तन्वे । वयाम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

    eṣáḥ ǀ vaḥ ǀ stómaḥ ǀ marutaḥ ǀ iyám ǀ gī́ḥ ǀ māndāryásya ǀ mānyásya ǀ kāróḥ ǀ
    ā́ ǀ íṣā́ ǀ yāsīṣṭa ǀ tanvé ǀ vayā́m ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

    eṣaḥ ǀ vaḥ ǀ stomaḥ ǀ marutaḥ ǀ iyam ǀ gīḥ ǀ māndāryasya ǀ mānyasya ǀ kāroḥ ǀ
    ā ǀ iṣā ǀ yāsīṣṭa ǀ tanve ǀ vayām ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

    1.166.15 Aṣṭaka 2.4.3.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.166 · Maruts

Interpretations

Ralph T. H. Griffith

Ṛk 1

Now let us publish, for the vigorous company the herald of the Strong One, their primeval might. With fire upon your way, O Maruts loud of voice, with battle, Mighty Ones, achieve your deeds of strength.

Ṛk 2

Bringing the pleasant meath as ’twere their own dear son, they sport in sportive wise gay at their gatherings. The Rudras come with succour to the worshipper; self-strong they fail not him who offers sacrifice.

Ṛk 3

To whomsoever, bringer of oblations, they immortal guardians, have given plenteous wealth, For him, like loving friends, the Maruts bringing bliss bedew the regions round with milk abundantly.

Ṛk 4

Ye who with mighty powers have stirred the regions up, your coursers have sped forth directed by themselves. All creatures of the earth, all dwellings are afraid, for brilliant is your coming with your spears advanced.

Ṛk 5

When they in dazzling rush have made the mountains roar, and shaken heaven's high back in their heroic strength, Each sovran of the forest fears as ye drive near, aid the shrubs fly before you swift as whirling wheels.

Ṛk 6

Terrible Maruts, ye with ne’er-diminished host, with great benevolence fulfil our heart's desire. Where’er your lightning bites armed with its gory teeth it crunches up the cattle like a well-aimed dart.

Ṛk 7

Givers of during gifts whose bounties never fail, free from ill-will, at sacrifices glorified, They sing their song aloud that they may drink sweet juice: well do they know the Hero's first heroic deeds.

Ṛk 8

With castles hundredfold, O Maruts, guard ye well the man whom ye have loved from ruin and from sin,— The man whom ye the fierce, the Mighty ones who roar, preserve from calumny by cherishing his seed.

Ṛk 9

O Maruts, in your cars are all things that are good: great powers are set as ’twere in rivalry therein. Rings are upon your shoulders when ye journey forth: your axle turns together both the chariot wheels.

Ṛk 10

Held in your manly arms are many goodly things, gold chains are on your chests, and glistering ornaments, Deer-skins are on their shoulders, on their fellies knives: they spread their glory out as birds spread out their wings.

Ṛk 11

Mighty in mightiness, pervading, passing strong, visible from afar as ’twere with stars of heaven, Lovely with pleasant tongues, sweet singers with their mouths, the Maruts, joined with Indra, shout forth all around.

Ṛk 12

This is your majesty, ye Maruts nobly born, far as the sway of Aditi your bounty spreads. Even Indra by desertion never disannuls the boon bestowed by you upon the pious man.

Ṛk 13

This is your kinship, Maruts, that, Immortals, ye were oft in olden time regardful of our call, Having vouchsafed to man a hearing through this prayer, by wondrous deeds the Heroes have displayed their might.

Ṛk 14

That, O ye Maruts, we may long time flourish through your abundant riches, O swift movers, And that our men may spread in the encampment, let me complete the rite with these oblations.