Ṛgveda · Maṇḍala 1 · Sūkta 166
Ṛk 1.166.13
Saṃhitā
तद्वो॑ जामि॒त्वं म॑रुतः॒ परे॑ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त ।
अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या॑ सा॒कं नरो॑ दं॒सनै॒रा चि॑कित्रिरे ॥
तद् वो जामित्वम् मरुतः परे युगे पुरू यच् छंसम् अमृतास आवत |
अया धिया मनवे श्रुष्टिम् आव्या साकं नरो दंसनैर् आ चिकित्रिरे ||
tádvo jāmitvám marutaḥ páre yugé purū́ yáccháṃsamamṛtāsa ā́vata ǀ
ayā́ dhiyā́ mánave śruṣṭímā́vyā sākám náro daṃsánairā́ cikitrire ǁ
tad vo jāmitvam marutaḥ pare yuge purū yac chaṃsam amṛtāsa āvata |
ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire ||
Padapāṭha
तत् । वः॒ । जा॒मि॒ऽत्वम् । म॒रु॒तः॒ । परे॑ । यु॒गे । पु॒रु । यत् । शंस॑म् । अ॒मृ॒ता॒सः॒ । आव॑त ।
अ॒या । धि॒या । मन॑वे । श्रु॒ष्टिम् । आव्य॑ । सा॒कम् । नरः॑ । दं॒सनैः॑ । आ । चि॒कि॒त्रि॒रे॒ ॥
तत् । वः । जामिऽत्वम् । मरुतः । परे । युगे । पुरु । यत् । शंसम् । अमृतासः । आवत ।
अया । धिया । मनवे । श्रुष्टिम् । आव्य । साकम् । नरः । दंसनैः । आ । चिकित्रिरे ॥
tát ǀ vaḥ ǀ jāmi-tvám ǀ marutaḥ ǀ páre ǀ yugé ǀ purú ǀ yát ǀ śáṃsam ǀ amṛtāsaḥ ǀ ā́vata ǀ
ayā́ ǀ dhiyā́ ǀ mánave ǀ śruṣṭím ǀ ā́vya ǀ sākám ǀ náraḥ ǀ daṃsánaiḥ ǀ ā́ ǀ cikitrire ǁ
tat ǀ vaḥ ǀ jāmi-tvam ǀ marutaḥ ǀ pare ǀ yuge ǀ puru ǀ yat ǀ śaṃsam ǀ amṛtāsaḥ ǀ āvata ǀ
ayā ǀ dhiyā ǀ manave ǀ śruṣṭim ǀ āvya ǀ sākam ǀ naraḥ ǀ daṃsanaiḥ ǀ ā ǀ cikitrire ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.166.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.03.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.