Ṛgveda · Maṇḍala 1 · Sūkta 166
Ṛk 1.166.12
Saṃhitā
तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो॑ दा॒त्रमदि॑तेरिव व्र॒तं ।
इंद्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना॑य॒ यस्मै॑ सु॒कृते॒ अरा॑ध्वं ॥
तद् वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रम् अदितेर् इव व्रतम् |
इन्द्रश् चन त्यजसा वि ह्रुणाति तज् जनाय यस्मै सुकृते अराध्वम् ||
tádvaḥ sujātā maruto mahitvanám dīrghám vo dātrámáditeriva vratám ǀ
índraścaná tyájasā ví hruṇāti tájjánāya yásmai sukṛ́te árādhvam ǁ
tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam |
indraś cana tyajasā vi hruṇāti taj janāya yasmai sukṛte arādhvam ||
Padapāṭha
तत् । वः॒ । सु॒ऽजा॒ताः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । वः॒ । दा॒त्रम् । अदि॑तेःऽइव । व्र॒तम् ।
इन्द्रः॑ । च॒न । त्यज॑सा । वि । ह्रु॒णा॒ति॒ । तत् । जना॑य । यस्मै॑ । सु॒ऽकृते॑ । अरा॑ध्वम् ॥
तत् । वः । सुऽजाताः । मरुतः । महिऽत्वनम् । दीर्घम् । वः । दात्रम् । अदितेःऽइव । व्रतम् ।
इन्द्रः । चन । त्यजसा । वि । ह्रुणाति । तत् । जनाय । यस्मै । सुऽकृते । अराध्वम् ॥
tát ǀ vaḥ ǀ su-jātāḥ ǀ marutaḥ ǀ mahi-tvanám ǀ dīrghám ǀ vaḥ ǀ dātrám ǀ áditeḥ-iva ǀ vratám ǀ
índraḥ ǀ caná ǀ tyájasā ǀ ví ǀ hruṇāti ǀ tát ǀ jánāya ǀ yásmai ǀ su-kṛ́te ǀ árādhvam ǁ
tat ǀ vaḥ ǀ su-jātāḥ ǀ marutaḥ ǀ mahi-tvanam ǀ dīrgham ǀ vaḥ ǀ dātram ǀ aditeḥ-iva ǀ vratam ǀ
indraḥ ǀ cana ǀ tyajasā ǀ vi ǀ hruṇāti ǀ tat ǀ janāya ǀ yasmai ǀ su-kṛte ǀ arādhvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.166.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.03.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.