Ṛgveda · Maṇḍala 1 · Sūkta 166
Ṛk 1.166.10
Saṃhitā
भूरी॑णि भ॒द्रा नर्ये॑षु बा॒हुषु॒ वक्षः॑सु रु॒क्मा र॑भ॒सासो॑ अं॒जयः॑ ।
अंसे॒ष्वेताः॑ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो॑ धिरे ॥
भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः |
अंसेष्व् एताः पविषु क्षुरा अधि वयो न पक्षान् व्य् अनु श्रियो धिरे ||
bhū́rīṇi bhadrā́ náryeṣu bāhúṣu vákṣaḥsu rukmā́ rabhasā́so añjáyaḥ ǀ
áṃseṣvétāḥ pavíṣu kṣurā́ ádhi váyo ná pakṣā́nvyánu śríyo dhire ǁ
bhūrīṇi bhadrā naryeṣu bāhuṣu vakṣassu rukmā rabhasāso añjayaḥ |
aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire ||
Padapāṭha
भूरी॑णि । भ॒द्रा । नर्ये॑षु । बा॒हुषु॑ । वक्षः॑ऽसु । रु॒क्माः । र॒भ॒सासः॑ । अ॒ञ्जयः॑ ।
अंसे॑षु । एताः॑ । प॒विषु॑ । क्षु॒राः । अधि॑ । वयः॑ । न । प॒क्षान् । वि । अनु॑ । श्रियः॑ । धि॒रे॒ ॥
भूरीणि । भद्रा । नर्येषु । बाहुषु । वक्षःऽसु । रुक्माः । रभसासः । अञ्जयः ।
अंसेषु । एताः । पविषु । क्षुराः । अधि । वयः । न । पक्षान् । वि । अनु । श्रियः । धिरे ॥
bhū́rīṇi ǀ bhadrā́ ǀ náryeṣu ǀ bāhúṣu ǀ vákṣaḥ-su ǀ rukmā́ḥ ǀ rabhasā́saḥ ǀ añjáyaḥ ǀ
áṃseṣu ǀ étāḥ ǀ pavíṣu ǀ kṣurā́ḥ ǀ ádhi ǀ váyaḥ ǀ ná ǀ pakṣā́n ǀ ví ǀ ánu ǀ śríyaḥ ǀ dhire ǁ
bhūrīṇi ǀ bhadrā ǀ naryeṣu ǀ bāhuṣu ǀ vakṣaḥ-su ǀ rukmāḥ ǀ rabhasāsaḥ ǀ añjayaḥ ǀ
aṃseṣu ǀ etāḥ ǀ paviṣu ǀ kṣurāḥ ǀ adhi ǀ vayaḥ ǀ na ǀ pakṣān ǀ vi ǀ anu ǀ śriyaḥ ǀ dhire ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.166.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.02.00
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.