Ṛgveda · Maṇḍala 1

Sūkta 48

Uṣas · Praskaṇva Kāṇva · 16 ṛks

Link
Devatā देवता
Uṣas
Ṛṣi ऋषि
Praskaṇva Kāṇva
Chandas छन्दस्
Bṛhatī, Satobṛhatī
Metres by ṛk

1st set of styles virāṭpathyābṛhatī (1, 3, 7, 9); nicṛtsataḥ paṅkti (2, 10, 16); nicṛtpathyābṛhatī (5, 11, 13); virāṭsataḥpaṅkti (4, 14); bhurigbṛhatī (6); paṅktiḥ (8); bṛhatī (12); pathyāvṛhatī (15)

2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13, 15); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16)

  1. Ṛk 1

    स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
    स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥

    सह वामेन न उषो व्य् उच्छा दुहितर् दिवः |
    सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ||

    sahá vāména na uṣo vyúcchā duhitardivaḥ ǀ
    sahá dyumnéna bṛhatā́ vibhāvari rāyā́ devi dā́svatī ǁ

    saha vāmena na uṣo vy ucchā duhitar divaḥ |
    saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī ||

    स॒ह । वा॒मेन॑ । नः॒ । उ॒षः॒ । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
    स॒ह । द्यु॒म्नेन॑ । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । रा॒या । दे॒वि॒ । दास्व॑ती ॥

    सह । वामेन । नः । उषः । वि । उच्छ । दुहितः । दिवः ।
    सह । द्युम्नेन । बृहता । विभाऽवरि । राया । देवि । दास्वती ॥

    sahá ǀ vāména ǀ naḥ ǀ uṣaḥ ǀ ví ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ
    sahá ǀ dyumnéna ǀ bṛhatā́ ǀ vibhā-vari ǀ rāyā́ ǀ devi ǀ dā́svatī ǁ

    saha ǀ vāmena ǀ naḥ ǀ uṣaḥ ǀ vi ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ
    saha ǀ dyumnena ǀ bṛhatā ǀ vibhā-vari ǀ rāyā ǀ devi ǀ dāsvatī ǁ

    1.48.1 Aṣṭaka 1.4.3.1Anuvāka 1.9.50

  2. Ṛk 2

    अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवंत॒ वस्त॑वे ।
    उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोनां॑ ॥

    अश्वावतीर् गोमतीर् विश्वसुविदो भूरि च्यवन्त वस्तवे |
    उद् ईरय प्रति मा सूनृता उषश् चोद राधो मघोनाम् ||

    áśvāvatīrgómatīrviśvasuvído bhū́ri cyavanta vástave ǀ
    údīraya práti mā sūnṛ́tā uṣaścóda rā́dho maghónām ǁ

    aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave |
    ud īraya prati mā sūnṛtā uṣaś coda rādho maghonām ||

    अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्व॒ऽसु॒विदः॑ । भूरि॑ । च्य॒व॒न्त॒ । वस्त॑वे ।
    उत् । ई॒र॒य॒ । प्रति॑ । मा॒ । सू॒नृताः॑ । उ॒षः॒ । चोद॑ । राधः॑ । म॒घोना॑म् ॥

    अश्वऽवतीः । गोऽमतीः । विश्वऽसुविदः । भूरि । च्यवन्त । वस्तवे ।
    उत् । ईरय । प्रति । मा । सूनृताः । उषः । चोद । राधः । मघोनाम् ॥

    áśva-vatīḥ ǀ gó-matīḥ ǀ viśva-suvídaḥ ǀ bhū́ri ǀ cyavanta ǀ vástave ǀ
    út ǀ īraya ǀ práti ǀ mā ǀ sūnṛ́tāḥ ǀ uṣaḥ ǀ códa ǀ rā́dhaḥ ǀ maghónām ǁ

    aśva-vatīḥ ǀ go-matīḥ ǀ viśva-suvidaḥ ǀ bhūri ǀ cyavanta ǀ vastave ǀ
    ut ǀ īraya ǀ prati ǀ mā ǀ sūnṛtāḥ ǀ uṣaḥ ǀ coda ǀ rādhaḥ ǀ maghonām ǁ

    1.48.2 Aṣṭaka 1.4.3.2Anuvāka 1.9.51

  3. Ṛk 3

    उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नां ।
    ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥

    उवासोषा उच्छाच् च नु देवी जीरा रथानाम् |
    ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ||

    uvā́soṣā́ ucchā́cca nú devī́ jīrā́ ráthānām ǀ
    yé asyā ācáraṇeṣu dadhriré samudré ná śravasyávaḥ ǁ

    uvāsoṣā ucchāc ca nu devī jīrā rathānām |
    ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||

    उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् ।
    ये । अ॒स्याः॒ । आ॒ऽचर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑ ॥

    उवास । उषाः । उच्छात् । च । नु । देवी । जीरा । रथानाम् ।
    ये । अस्याः । आऽचरणेषु । दध्रिरे । समुद्रे । न । श्रवस्यवः ॥

    uvā́sa ǀ uṣā́ḥ ǀ ucchā́t ǀ ca ǀ nú ǀ devī́ ǀ jīrā́ ǀ ráthānām ǀ
    yé ǀ asyāḥ ǀ ā-cáraṇeṣu ǀ dadhriré ǀ samudré ǀ ná ǀ śravasyávaḥ ǁ

    uvāsa ǀ uṣāḥ ǀ ucchāt ǀ ca ǀ nu ǀ devī ǀ jīrā ǀ rathānām ǀ
    ye ǀ asyāḥ ǀ ā-caraṇeṣu ǀ dadhrire ǀ samudre ǀ na ǀ śravasyavaḥ ǁ

    1.48.3 Aṣṭaka 1.4.3.3Anuvāka 1.9.52

  4. Ṛk 4

    उषो॒ ये ते॒ प्र यामे॑षु युं॒जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
    अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णां ॥

    उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः |
    अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ||

    úṣo yé te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ ǀ
    átrā́ha tátkáṇva eṣām káṇvatamo nā́ma gṛṇāti nṛṇā́m ǁ

    uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
    atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām ||

    उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ ।
    अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑ऽतमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम् ॥

    उषः । ये । ते । प्र । यामेषु । युञ्जते । मनः । दानाय । सूरयः ।
    अत्र । अह । तत् । कण्वः । एषाम् । कण्वऽतमः । नाम । गृणाति । नृणाम् ॥

    úṣaḥ ǀ yé ǀ te ǀ prá ǀ yā́meṣu ǀ yuñjáte ǀ mánaḥ ǀ dānā́ya ǀ sūráyaḥ ǀ
    átra ǀ áha ǀ tát ǀ káṇvaḥ ǀ eṣām ǀ káṇva-tamaḥ ǀ nā́ma ǀ gṛṇāti ǀ nṛṇā́m ǁ

    uṣaḥ ǀ ye ǀ te ǀ pra ǀ yāmeṣu ǀ yuñjate ǀ manaḥ ǀ dānāya ǀ sūrayaḥ ǀ
    atra ǀ aha ǀ tat ǀ kaṇvaḥ ǀ eṣām ǀ kaṇva-tamaḥ ǀ nāma ǀ gṛṇāti ǀ nṛṇām ǁ

    1.48.4 Aṣṭaka 1.4.3.4Anuvāka 1.9.53

  5. Ṛk 5

    आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुंज॒ती ।
    ज॒रयं॑ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥

    आ घा योषेव सूनर्य् उषा याति प्रभुञ्जती |
    जरयन्ती वृजनम् पद्वद् ईयत उत् पातयति पक्षिणः ||

    ā́ ghā yóṣeva sūnáryuṣā́ yāti prabhuñjatī́ ǀ
    jaráyantī vṛ́janam padvádīyata útpātayati pakṣíṇaḥ ǁ

    ā ghā yoṣeva sūnary uṣā yāti prabhuñjatī |
    jarayantī vṛjanam padvad īyata ut pātayati pakṣiṇaḥ ||

    आ । घ॒ । योषा॑ऽइव । सू॒नरी॑ । उ॒षाः । या॒ति॒ । प्र॒ऽभु॒ञ्ज॒ती ।
    ज॒रय॑न्ती । वृज॑नम् । प॒त्ऽवत् । ई॒य॒ते॒ । उत् । पा॒त॒य॒ति॒ । प॒क्षिणः॑ ॥

    आ । घ । योषाऽइव । सूनरी । उषाः । याति । प्रऽभुञ्जती ।
    जरयन्ती । वृजनम् । पत्ऽवत् । ईयते । उत् । पातयति । पक्षिणः ॥

    ā́ ǀ gha ǀ yóṣā-iva ǀ sūnárī ǀ uṣā́ḥ ǀ yāti ǀ pra-bhuñjatī́ ǀ
    jaráyantī ǀ vṛ́janam ǀ pat-vát ǀ īyate ǀ út ǀ pātayati ǀ pakṣíṇaḥ ǁ

    ā ǀ gha ǀ yoṣā-iva ǀ sūnarī ǀ uṣāḥ ǀ yāti ǀ pra-bhuñjatī ǀ
    jarayantī ǀ vṛjanam ǀ pat-vat ǀ īyate ǀ ut ǀ pātayati ǀ pakṣiṇaḥ ǁ

    1.48.5 Aṣṭaka 1.4.3.5Anuvāka 1.9.54

  6. Ṛk 6

    वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती ।
    वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥

    वि या सृजति समनं व्य् अर्थिनः पदं न वेत्य् ओदती |
    वयो नकिष् टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ||

    ví yā́ sṛjáti sámanam vyárthínaḥ padám ná vetyódatī ǀ
    váyo nákiṣṭe paptivā́ṃsa āsate vyúṣṭau vājinīvati ǁ

    vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī |
    vayo nakiṣ ṭe paptivāṃsa āsate vyuṣṭau vājinīvati ||

    वि । या । सृ॒जति॑ । सम॑नम् । वि । अ॒र्थिनः॑ । प॒दम् । न । वे॒ति॒ । ओद॑ती ।
    वयः॑ । नकिः॑ । ते॒ । प॒प्ति॒वांसः॑ । आ॒स॒ते॒ । विऽउ॑ष्टौ । वा॒जि॒नी॒ऽव॒ति॒ ॥

    वि । या । सृजति । समनम् । वि । अर्थिनः । पदम् । न । वेति । ओदती ।
    वयः । नकिः । ते । पप्तिवांसः । आसते । विऽउष्टौ । वाजिनीऽवति ॥

    ví ǀ yā́ ǀ sṛjáti ǀ sámanam ǀ ví ǀ arthínaḥ ǀ padám ǀ ná ǀ veti ǀ ódatī ǀ
    váyaḥ ǀ nákiḥ ǀ te ǀ paptivā́ṃsaḥ ǀ āsate ǀ ví-uṣṭau ǀ vājinī-vati ǁ

    vi ǀ yā ǀ sṛjati ǀ samanam ǀ vi ǀ arthinaḥ ǀ padam ǀ na ǀ veti ǀ odatī ǀ
    vayaḥ ǀ nakiḥ ǀ te ǀ paptivāṃsaḥ ǀ āsate ǀ vi-uṣṭau ǀ vājinī-vati ǁ

    1.48.6 Aṣṭaka 1.4.4.1Anuvāka 1.9.55

  7. Ṛk 7

    ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
    श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥

    एषायुक्त परावतः सूर्यस्योदयनाद् अधि |
    शतं रथेभिः सुभगोषा इयं वि यात्य् अभि मानुषान् ||

    eṣā́yukta parāvátaḥ sū́ryasyodáyanādádhi ǀ
    śatám ráthebhiḥ subhágoṣā́ iyám ví yātyabhí mā́nuṣān ǁ

    eṣāyukta parāvataḥ sūryasyodayanād adhi |
    śataṃ rathebhiḥ subhagoṣā iyaṃ vi yāty abhi mānuṣān ||

    ए॒षा । अ॒यु॒क्त॒ । प॒रा॒ऽवतः॑ । सूर्य॑स्य । उ॒त्ऽअय॑नात् । अधि॑ ।
    श॒तम् । रथे॑भिः । सु॒ऽभगा॑ । उ॒षाः । इ॒यम् । वि । या॒ति॒ । अ॒भि । मानु॑षान् ॥

    एषा । अयुक्त । पराऽवतः । सूर्यस्य । उत्ऽअयनात् । अधि ।
    शतम् । रथेभिः । सुऽभगा । उषाः । इयम् । वि । याति । अभि । मानुषान् ॥

    eṣā́ ǀ ayukta ǀ parā-vátaḥ ǀ sū́ryasya ǀ ut-áyanāt ǀ ádhi ǀ
    śatám ǀ ráthebhiḥ ǀ su-bhágā ǀ uṣā́ḥ ǀ iyám ǀ ví ǀ yāti ǀ abhí ǀ mā́nuṣān ǁ

    eṣā ǀ ayukta ǀ parā-vataḥ ǀ sūryasya ǀ ut-ayanāt ǀ adhi ǀ
    śatam ǀ rathebhiḥ ǀ su-bhagā ǀ uṣāḥ ǀ iyam ǀ vi ǀ yāti ǀ abhi ǀ mānuṣān ǁ

    1.48.7 Aṣṭaka 1.4.4.2Anuvāka 1.9.56

  8. Ṛk 8

    विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
    अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥

    विश्वम् अस्या नानाम चक्षसे जगज् ज्योतिष् कृणोति सूनरी |
    अप द्वेषो मघोनी दुहिता दिव उषा उच्छद् अप स्रिधः ||

    víśvamasyā nānāma cákṣase jágajjyótiṣkṛṇoti sūnárī ǀ
    ápa dvéṣo maghónī duhitā́ divá uṣā́ ucchadápa srídhaḥ ǁ

    viśvam asyā nānāma cakṣase jagaj jyotiṣ kṛṇoti sūnarī |
    apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ ||

    विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ।
    अप॑ । द्वेषः॑ । म॒घोनी॑ । दु॒हि॒ता । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥

    विश्वम् । अस्याः । ननाम । चक्षसे । जगत् । ज्योतिः । कृणोति । सूनरी ।
    अप । द्वेषः । मघोनी । दुहिता । दिवः । उषाः । उच्छत् । अप । स्रिधः ॥

    víśvam ǀ asyāḥ ǀ nanāma ǀ cákṣase ǀ jágat ǀ jyótiḥ ǀ kṛṇoti ǀ sūnárī ǀ
    ápa ǀ dvéṣaḥ ǀ maghónī ǀ duhitā́ ǀ diváḥ ǀ uṣā́ḥ ǀ ucchat ǀ ápa ǀ srídhaḥ ǁ

    viśvam ǀ asyāḥ ǀ nanāma ǀ cakṣase ǀ jagat ǀ jyotiḥ ǀ kṛṇoti ǀ sūnarī ǀ
    apa ǀ dveṣaḥ ǀ maghonī ǀ duhitā ǀ divaḥ ǀ uṣāḥ ǀ ucchat ǀ apa ǀ sridhaḥ ǁ

    1.48.8 Aṣṭaka 1.4.4.3Anuvāka 1.9.57

  9. Ṛk 9

    उष॒ आ भा॑हि भा॒नुना॑ चं॒द्रेण॑ दुहितर्दिवः ।
    आ॒वहं॑ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छंती॒ दिवि॑ष्टिषु ॥

    उष आ भाहि भानुना चन्द्रेण दुहितर् दिवः |
    आवहन्ती भूर्य् अस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ||

    úṣa ā́ bhāhi bhānúnā candréṇa duhitardivaḥ ǀ
    āváhantī bhū́ryasmábhyam sáubhagam vyucchántī díviṣṭiṣu ǁ

    uṣa ā bhāhi bhānunā candreṇa duhitar divaḥ |
    āvahantī bhūry asmabhyaṃ saubhagaṃ vyucchantī diviṣṭiṣu ||

    उषः॑ । आ । भा॒हि॒ । भा॒नुना॑ । च॒न्द्रेण॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
    आ॒ऽवह॑न्ती । भूरि॑ । अ॒स्मभ्य॑म् । सौभ॑गम् । वि॒ऽउ॒च्छन्ती॑ । दिवि॑ष्टिषु ॥

    उषः । आ । भाहि । भानुना । चन्द्रेण । दुहितः । दिवः ।
    आऽवहन्ती । भूरि । अस्मभ्यम् । सौभगम् । विऽउच्छन्ती । दिविष्टिषु ॥

    úṣaḥ ǀ ā́ ǀ bhāhi ǀ bhānúnā ǀ candréṇa ǀ duhitaḥ ǀ divaḥ ǀ
    ā-váhantī ǀ bhū́ri ǀ asmábhyam ǀ sáubhagam ǀ vi-ucchántī ǀ díviṣṭiṣu ǁ

    uṣaḥ ǀ ā ǀ bhāhi ǀ bhānunā ǀ candreṇa ǀ duhitaḥ ǀ divaḥ ǀ
    ā-vahantī ǀ bhūri ǀ asmabhyam ǀ saubhagam ǀ vi-ucchantī ǀ diviṣṭiṣu ǁ

    1.48.9 Aṣṭaka 1.4.4.4Anuvāka 1.9.58

  10. Ṛk 10

    विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
    सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हवं॑ ॥

    विश्वस्य हि प्राणनं जीवनं त्वे वि यद् उच्छसि सूनरि |
    सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ||

    víśvasya hí prā́ṇanam jī́vanam tvé ví yáducchási sūnari ǀ
    sā́ no ráthena bṛhatā́ vibhāvari śrudhí citrāmaghe hávam ǁ

    viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari |
    sā no rathena bṛhatā vibhāvari śrudhi citrāmaghe havam ||

    विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ ।
    सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । श्रु॒धि । चि॒त्र॒ऽम॒घे॒ । हव॑म् ॥

    विश्वस्य । हि । प्राणनम् । जीवनम् । त्वे इति । वि । यत् । उच्छसि । सूनरि ।
    सा । नः । रथेन । बृहता । विभाऽवरि । श्रुधि । चित्रऽमघे । हवम् ॥

    víśvasya ǀ hí ǀ prā́ṇanam ǀ jī́vanam ǀ tvé íti ǀ ví ǀ yát ǀ ucchási ǀ sūnari ǀ
    sā́ ǀ naḥ ǀ ráthena ǀ bṛhatā́ ǀ vibhā-vari ǀ śrudhí ǀ citra-maghe ǀ hávam ǁ

    viśvasya ǀ hi ǀ prāṇanam ǀ jīvanam ǀ tve iti ǀ vi ǀ yat ǀ ucchasi ǀ sūnari ǀ
    sā ǀ naḥ ǀ rathena ǀ bṛhatā ǀ vibhā-vari ǀ śrudhi ǀ citra-maghe ǀ havam ǁ

    1.48.10 Aṣṭaka 1.4.4.5Anuvāka 1.9.59

  11. Ṛk 11

    उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
    तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णंति॒ वह्न॑यः ॥

    उषो वाजं हि वंस्व यश् चित्रो मानुषे जने |
    तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ||

    úṣo vā́jam hí váṃsva yáścitró mā́nuṣe jáne ǀ
    ténā́ vaha sukṛ́to adhvarā́m̐ úpa yé tvā gṛṇánti váhnayaḥ ǁ

    uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane |
    tenā vaha sukṛto adhvarāṃ upa ye tvā gṛṇanti vahnayaḥ ||

    उषः॑ । वाज॑म् । हि । वंस्व॑ । यः । चि॒त्रः । मानु॑षे । जने॑ ।
    तेन॑ । आ । व॒ह॒ । सु॒ऽकृतः॑ । अ॒ध्व॒रान् । उप॑ । ये । त्वा॒ । गृ॒णन्ति॑ । वह्न॑यः ॥

    उषः । वाजम् । हि । वंस्व । यः । चित्रः । मानुषे । जने ।
    तेन । आ । वह । सुऽकृतः । अध्वरान् । उप । ये । त्वा । गृणन्ति । वह्नयः ॥

    úṣaḥ ǀ vā́jam ǀ hí ǀ váṃsva ǀ yáḥ ǀ citráḥ ǀ mā́nuṣe ǀ jáne ǀ
    téna ǀ ā́ ǀ vaha ǀ su-kṛ́taḥ ǀ adhvarā́n ǀ úpa ǀ yé ǀ tvā ǀ gṛṇánti ǀ váhnayaḥ ǁ

    uṣaḥ ǀ vājam ǀ hi ǀ vaṃsva ǀ yaḥ ǀ citraḥ ǀ mānuṣe ǀ jane ǀ
    tena ǀ ā ǀ vaha ǀ su-kṛtaḥ ǀ adhvarān ǀ upa ǀ ye ǀ tvā ǀ gṛṇanti ǀ vahnayaḥ ǁ

    1.48.11 Aṣṭaka 1.4.5.1Anuvāka 1.9.60

  12. Ṛk 12

    विश्वां॑दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽंतरि॑क्षादुष॒स्त्वं ।
    सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्यं॑ ॥

    विश्वान् देवां आ वह सोमपीतये ऽन्तरिक्षाद् उषस् त्वम् |
    सास्मासु धा गोमद् अश्वावद् उक्थ्यम् उषो वाजं सुवीर्यम् ||

    víśvāndevā́m̐ ā́ vaha sómapītaye’ntárikṣāduṣastvám ǀ
    sā́smā́su dhā gómadáśvāvadukthyámúṣo vā́jam suvī́ryam ǁ

    viśvān devāṃ ā vaha somapītaye 'ntarikṣād uṣas tvam |
    sāsmāsu dhā gomad aśvāvad ukthyam uṣo vājaṃ suvīryam ||

    विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑ऽपीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् ।
    सा । अ॒स्मासु॑ । धाः॒ । गोऽम॑त् । अश्व॑ऽवत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒ऽवीर्य॑म् ॥

    विश्वान् । देवान् । आ । वह । सोमऽपीतये । अन्तरिक्षात् । उषः । त्वम् ।
    सा । अस्मासु । धाः । गोऽमत् । अश्वऽवत् । उक्थ्यम् । उषः । वाजम् । सुऽवीर्यम् ॥

    víśvān ǀ devā́n ǀ ā́ ǀ vaha ǀ sóma-pītaye ǀ antárikṣāt ǀ uṣaḥ ǀ tvám ǀ
    sā́ ǀ asmā́su ǀ dhāḥ ǀ gó-mat ǀ áśva-vat ǀ ukthyám ǀ úṣaḥ ǀ vā́jam ǀ su-vī́ryam ǁ

    viśvān ǀ devān ǀ ā ǀ vaha ǀ soma-pītaye ǀ antarikṣāt ǀ uṣaḥ ǀ tvam ǀ
    sā ǀ asmāsu ǀ dhāḥ ǀ go-mat ǀ aśva-vat ǀ ukthyam ǀ uṣaḥ ǀ vājam ǀ su-vīryam ǁ

    1.48.12 Aṣṭaka 1.4.5.2Anuvāka 1.9.61

  13. Ṛk 13

    यस्या॒ रुशं॑तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत ।
    सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्यं॑ ॥

    यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत |
    सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ||

    yásyā rúśanto arcáyaḥ práti bhadrā́ ádṛkṣata ǀ
    sā́ no rayím viśvávāram supéśasamuṣā́ dadātu súgmyam ǁ

    yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
    sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam ||

    यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत ।
    सा । नः॒ । र॒यिम् । वि॒श्वऽवा॑रम् । सु॒ऽपेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म् ॥

    यस्याः । रुशन्तः । अर्चयः । प्रति । भद्राः । अदृक्षत ।
    सा । नः । रयिम् । विश्वऽवारम् । सुऽपेशसम् । उषाः । ददातु । सुग्म्यम् ॥

    yásyāḥ ǀ rúśantaḥ ǀ arcáyaḥ ǀ práti ǀ bhadrā́ḥ ǀ ádṛkṣata ǀ
    sā́ ǀ naḥ ǀ rayím ǀ viśvá-vāram ǀ su-péśasam ǀ uṣā́ḥ ǀ dadātu ǀ súgmyam ǁ

    yasyāḥ ǀ ruśantaḥ ǀ arcayaḥ ǀ prati ǀ bhadrāḥ ǀ adṛkṣata ǀ
    sā ǀ naḥ ǀ rayim ǀ viśva-vāram ǀ su-peśasam ǀ uṣāḥ ǀ dadātu ǀ sugmyam ǁ

    1.48.13 Aṣṭaka 1.4.5.3Anuvāka 1.9.62

  14. Ṛk 14

    ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
    सा नः॒ स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥

    ये चिद् धि त्वाम् ऋषयः पूर्व ऊतये जुहूरे ऽवसे महि |
    सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ||

    yé ciddhí tvā́mṛ́ṣayaḥ pū́rva ūtáye juhūré’vase mahi ǀ
    sā́ naḥ stómām̐ abhí gṛṇīhi rā́dhasóṣaḥ śukréṇa śocíṣā ǁ

    ye cid dhi tvām ṛṣayaḥ pūrva ūtaye juhūre 'vase mahi |
    sā na stomāṃ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā ||

    ये । चि॒त् । हि । त्वाम् । ऋष॑यः । पूर्वे॑ । ऊ॒तये॑ । जु॒हू॒रे । अव॑से । म॒हि॒ ।
    सा । नः॒ । स्तोमा॑न् । अ॒भि । गृ॒णी॒हि॒ । राध॑सा । उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥

    ये । चित् । हि । त्वाम् । ऋषयः । पूर्वे । ऊतये । जुहूरे । अवसे । महि ।
    सा । नः । स्तोमान् । अभि । गृणीहि । राधसा । उषः । शुक्रेण । शोचिषा ॥

    yé ǀ cit ǀ hí ǀ tvā́m ǀ ṛ́ṣayaḥ ǀ pū́rve ǀ ūtáye ǀ juhūré ǀ ávase ǀ mahi ǀ
    sā́ ǀ naḥ ǀ stómān ǀ abhí ǀ gṛṇīhi ǀ rā́dhasā ǀ úṣaḥ ǀ śukréṇa ǀ śocíṣā ǁ

    ye ǀ cit ǀ hi ǀ tvām ǀ ṛṣayaḥ ǀ pūrve ǀ ūtaye ǀ juhūre ǀ avase ǀ mahi ǀ
    sā ǀ naḥ ǀ stomān ǀ abhi ǀ gṛṇīhi ǀ rādhasā ǀ uṣaḥ ǀ śukreṇa ǀ śociṣā ǁ

    1.48.14 Aṣṭaka 1.4.5.4Anuvāka 1.9.63

  15. Ṛk 15

    उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
    प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥

    उषो यद् अद्य भानुना वि द्वाराव् ऋणवो दिवः |
    प्र नो यच्छताद् अवृकम् पृथु च्छर्दिः प्र देवि गोमतीर् इषः ||

    úṣo yádadyá bhānúnā ví dvā́rāvṛṇávo diváḥ ǀ
    prá no yacchatādavṛkám pṛthú cchardíḥ prá devi gómatīríṣaḥ ǁ

    uṣo yad adya bhānunā vi dvārāv ṛṇavo divaḥ |
    pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ ||

    उषः॑ । यत् । अ॒द्य । भा॒नुना॑ । वि । द्वारौ॑ । ऋ॒णवः॑ । दि॒वः ।
    प्र । नः॒ । य॒च्छ॒ता॒त् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । प्र । दे॒वि॒ । गोऽम॑तीः । इषः॑ ॥

    उषः । यत् । अद्य । भानुना । वि । द्वारौ । ऋणवः । दिवः ।
    प्र । नः । यच्छतात् । अवृकम् । पृथु । छर्दिः । प्र । देवि । गोऽमतीः । इषः ॥

    úṣaḥ ǀ yát ǀ adyá ǀ bhānúnā ǀ ví ǀ dvā́rau ǀ ṛṇávaḥ ǀ diváḥ ǀ
    prá ǀ naḥ ǀ yacchatāt ǀ avṛkám ǀ pṛthú ǀ chardíḥ ǀ prá ǀ devi ǀ gó-matīḥ ǀ íṣaḥ ǁ

    uṣaḥ ǀ yat ǀ adya ǀ bhānunā ǀ vi ǀ dvārau ǀ ṛṇavaḥ ǀ divaḥ ǀ
    pra ǀ naḥ ǀ yacchatāt ǀ avṛkam ǀ pṛthu ǀ chardiḥ ǀ pra ǀ devi ǀ go-matīḥ ǀ iṣaḥ ǁ

    1.48.15 Aṣṭaka 1.4.5.5Anuvāka 1.9.64

  16. Ṛk 16

    सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
    सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥

    सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा सम् इऌआभिर् आ |
    सं द्युम्नेन विश्वतुरोषो महि सं वाजैर् वाजिनीवति ||

    sám no rāyā́ bṛhatā́ viśvápeśasā mimikṣvā́ sámíḷābhirā́ ǀ
    sám dyumnéna viśvatúroṣo mahi sám vā́jairvājinīvati ǁ

    saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḷābhir ā |
    saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati ||

    सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्वऽपे॑शसा । मि॒मि॒क्ष्व । सम् । इळा॑भिः । आ ।
    सम् । द्यु॒म्नेन॑ । वि॒श्व॒ऽतुरा॑ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः॑ । वा॒जि॒नी॒ऽव॒ति॒ ॥

    सम् । नः । राया । बृहता । विश्वऽपेशसा । मिमिक्ष्व । सम् । इळाभिः । आ ।
    सम् । द्युम्नेन । विश्वऽतुरा । उषः । महि । सम् । वाजैः । वाजिनीऽवति ॥

    sám ǀ naḥ ǀ rāyā́ ǀ bṛhatā́ ǀ viśvá-peśasā ǀ mimikṣvá ǀ sám ǀ íḷābhiḥ ǀ ā́ ǀ
    sám ǀ dyumnéna ǀ viśva-túrā ǀ uṣaḥ ǀ mahi ǀ sám ǀ vā́jaiḥ ǀ vājinī-vati ǁ

    sam ǀ naḥ ǀ rāyā ǀ bṛhatā ǀ viśva-peśasā ǀ mimikṣva ǀ sam ǀ iḷābhiḥ ǀ ā ǀ
    sam ǀ dyumnena ǀ viśva-turā ǀ uṣaḥ ǀ mahi ǀ sam ǀ vājaiḥ ǀ vājinī-vati ǁ

    1.48.16 Aṣṭaka 1.4.5.6Anuvāka 1.9.65

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.48 · Uṣas

Interpretations

Kapali Shastri

Ṛk 1

Commentary

Ushas, daughter of Heaven, dawn on us with prosperity; luminous One, dawn with great glory; bountiful Goddess, dawn with wealth.

Ṛk 2

Commentary

Givers of all wealth have arrived in profusion to lighten us, with powers and intelligences. Ushas, speak to me happy truths, impel for us the affluence of the wealthy.

Ṛk 3

Translation

Desirous of hearing the divinely inspired Word, the Rishis hold to the Waters of the Infinite; so holding they qualify for the art of Inspiration in order to attain the desired ends. Similarly the cars are expectant of the arrival of Ushas.

Commentary

The divine Ushas hath dawned and dawns again, impeller of the cars that are yoked at her coming, even as those keen to hear (the Word) hold to the Ocean.

Ṛk 4

Translation

Kanva, the most wise, the best among those who have attained divinity, knowing the art of offering, proclaims at the break of the dawn the names celebrated for offerings. Hearing them, the sacrificer fired with the spirit of offering becomes ready for action. The glory of this praise at dawn is such that it renders fruitful the impulse to offer among the sacrificers.

Commentary

O Ushas, at thy coming, Kanva, premier of the Kanvas, proclaims the famous names of the wise who impel their minds to render offerings (to the Gods).

Ṛk 5

Translation

That at dawn, creatures waking up from sleep turn to their tasks, birds fly, is the outer meaning. The inner sense is: at the dawn of the divine knowledge, the motion of the inner sacrificer gains speed and though he stays here on earth, his upward movement to the other worlds fructifies.

Commentary

Ushas arrives tending all; she leads like a good matron, ends the unwanted (darkness), stirs up the footed, flies the winged.

Ṛk 6

Translation

In the exterr.al sense it is the birds. In the inner, it is the seekings for Knowledge that soar upwards.

Commentary

She who impels the active and the aspiring, gladdens with her rays, stays not. O opulent One, at thy rising, the soaring birds rest not.

Ṛk 7

Commentary

She has harnessed her hundred cars. From beyond the station of the rising of the sun, auspicious Ushas advances with her cars towards men.

Ṛk 8

Commentary

The entire world prostrates for her sight. Fulfilling leader, she manifests the truth-light of the sun. Opulent daughter of Heaven, she puts away the malevolents and the suckers.

Ṛk 9

Commentary

Shine around with thy delightful lustre, O Ushas, daughter of Heaven, bringing to us the ample felicities of the sunlit days, beam forth.

Ṛk 10

Commentary

Happy leader, thou dawnest, for the breath and life of all rests in thee. Lustrous One, come to us in thy large car. O thou of variegated wealth, listen to our call.

Ṛk 11

Translation

Usha accepts the plenitude offered by the Yajamana and leads him to the heavenward path (sacrifice).

Commentary

O Ushas, accept thou the plenitude which is cherished among men. Accepting, reach to the rites the accomplished offerers who bear thy grace and laud thee.

Ṛk 12

Commentary

Ushas, bring all the Gods from the firmament to drink the Soma. Ushas, such as thou art, do thou establish in us the plenitude of intelligences and powers and hero-might lauded in hymns.

Ṛk 13

Commentary

May Ushas whose auspicious lustres are seen resplendent all around grant us the treasure, cherished by all, fair of form, easy of access.

Ṛk 14

Commentary

Mighty One, the celebrated seers of old invoked thee for their protection, their increase; O Ushas, opulent and bright of lustre, voice thy acceptance of our lauds.

Ṛk 15

Translation

Doors: in the external sense they are doors extending from quarter to quarter, enveloped in darkness. In the inner context, they are outer and the inner doors of Heaven, opened by Ushas, the Dawn.

Commentary

O Ushas, thou openest the twin doors of Heaven with thy light; do thou give us a divine home, inviolable, wide. Goddess, give us in plenty the impulsions of luminous intelligence.

Ṛk 16

Commentary

O Ushas, bring to us wealth thai is abundant and variegated in form. Bring us to the seeing speech. Mighty One, bring us to the all-conquering Light. Bring us, prosperous One, to the plenitudes.