Ṛk 1.48.13
Saṃhitā
यस्या॒ रुशं॑तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत ।
सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्यं॑ ॥
यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत |
सा नो रयिं विश्ववारं सुपेशसम् उषा ददातु सुग्म्यम् ||
yásyā rúśanto arcáyaḥ práti bhadrā́ ádṛkṣata ǀ
sā́ no rayím viśvávāram supéśasamuṣā́ dadātu súgmyam ǁ
yasyā ruśanto arcayaḥ prati bhadrā adṛkṣata |
sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam ||
Padapāṭha
यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत ।
सा । नः॒ । र॒यिम् । वि॒श्वऽवा॑रम् । सु॒ऽपेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म् ॥
यस्याः । रुशन्तः । अर्चयः । प्रति । भद्राः । अदृक्षत ।
सा । नः । रयिम् । विश्वऽवारम् । सुऽपेशसम् । उषाः । ददातु । सुग्म्यम् ॥
yásyāḥ ǀ rúśantaḥ ǀ arcáyaḥ ǀ práti ǀ bhadrā́ḥ ǀ ádṛkṣata ǀ
sā́ ǀ naḥ ǀ rayím ǀ viśvá-vāram ǀ su-péśasam ǀ uṣā́ḥ ǀ dadātu ǀ súgmyam ǁ
yasyāḥ ǀ ruśantaḥ ǀ arcayaḥ ǀ prati ǀ bhadrāḥ ǀ adṛkṣata ǀ
sā ǀ naḥ ǀ rayim ǀ viśva-vāram ǀ su-peśasam ǀ uṣāḥ ǀ dadātu ǀ sugmyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.048.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.05.03
- Maṇḍala · Anuvāka · Ṛk
- 01.09.062
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.