Ṛk 1.48.4
Saṃhitā
उषो॒ ये ते॒ प्र यामे॑षु युं॒जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णां ॥
उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः |
अत्राह तत् कण्व एषां कण्वतमो नाम गृणाति नृणाम् ||
úṣo yé te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ ǀ
átrā́ha tátkáṇva eṣām káṇvatamo nā́ma gṛṇāti nṛṇā́m ǁ
uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ |
atrāha tat kaṇva eṣāṃ kaṇvatamo nāma gṛṇāti nṛṇām ||
Padapāṭha
उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ ।
अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑ऽतमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम् ॥
उषः । ये । ते । प्र । यामेषु । युञ्जते । मनः । दानाय । सूरयः ।
अत्र । अह । तत् । कण्वः । एषाम् । कण्वऽतमः । नाम । गृणाति । नृणाम् ॥
úṣaḥ ǀ yé ǀ te ǀ prá ǀ yā́meṣu ǀ yuñjáte ǀ mánaḥ ǀ dānā́ya ǀ sūráyaḥ ǀ
átra ǀ áha ǀ tát ǀ káṇvaḥ ǀ eṣām ǀ káṇva-tamaḥ ǀ nā́ma ǀ gṛṇāti ǀ nṛṇā́m ǁ
uṣaḥ ǀ ye ǀ te ǀ pra ǀ yāmeṣu ǀ yuñjate ǀ manaḥ ǀ dānāya ǀ sūrayaḥ ǀ
atra ǀ aha ǀ tat ǀ kaṇvaḥ ǀ eṣām ǀ kaṇva-tamaḥ ǀ nāma ǀ gṛṇāti ǀ nṛṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.048.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.03.04
- Maṇḍala · Anuvāka · Ṛk
- 01.09.053
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.