Ṛk 1.48.11
Saṃhitā
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णंति॒ वह्न॑यः ॥
उषो वाजं हि वंस्व यश् चित्रो मानुषे जने |
तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ||
úṣo vā́jam hí váṃsva yáścitró mā́nuṣe jáne ǀ
ténā́ vaha sukṛ́to adhvarā́m̐ úpa yé tvā gṛṇánti váhnayaḥ ǁ
uṣo vājaṃ hi vaṃsva yaś citro mānuṣe jane |
tenā vaha sukṛto adhvarāṃ upa ye tvā gṛṇanti vahnayaḥ ||
Padapāṭha
उषः॑ । वाज॑म् । हि । वंस्व॑ । यः । चि॒त्रः । मानु॑षे । जने॑ ।
तेन॑ । आ । व॒ह॒ । सु॒ऽकृतः॑ । अ॒ध्व॒रान् । उप॑ । ये । त्वा॒ । गृ॒णन्ति॑ । वह्न॑यः ॥
उषः । वाजम् । हि । वंस्व । यः । चित्रः । मानुषे । जने ।
तेन । आ । वह । सुऽकृतः । अध्वरान् । उप । ये । त्वा । गृणन्ति । वह्नयः ॥
úṣaḥ ǀ vā́jam ǀ hí ǀ váṃsva ǀ yáḥ ǀ citráḥ ǀ mā́nuṣe ǀ jáne ǀ
téna ǀ ā́ ǀ vaha ǀ su-kṛ́taḥ ǀ adhvarā́n ǀ úpa ǀ yé ǀ tvā ǀ gṛṇánti ǀ váhnayaḥ ǁ
uṣaḥ ǀ vājam ǀ hi ǀ vaṃsva ǀ yaḥ ǀ citraḥ ǀ mānuṣe ǀ jane ǀ
tena ǀ ā ǀ vaha ǀ su-kṛtaḥ ǀ adhvarān ǀ upa ǀ ye ǀ tvā ǀ gṛṇanti ǀ vahnayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.048.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.05.01
- Maṇḍala · Anuvāka · Ṛk
- 01.09.060
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.