Ṛk 1.48.3
Saṃhitā
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नां ।
ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥
उवासोषा उच्छाच् च नु देवी जीरा रथानाम् |
ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ||
uvā́soṣā́ ucchā́cca nú devī́ jīrā́ ráthānām ǀ
yé asyā ācáraṇeṣu dadhriré samudré ná śravasyávaḥ ǁ
uvāsoṣā ucchāc ca nu devī jīrā rathānām |
ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ ||
Padapāṭha
उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् ।
ये । अ॒स्याः॒ । आ॒ऽचर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑ ॥
उवास । उषाः । उच्छात् । च । नु । देवी । जीरा । रथानाम् ।
ये । अस्याः । आऽचरणेषु । दध्रिरे । समुद्रे । न । श्रवस्यवः ॥
uvā́sa ǀ uṣā́ḥ ǀ ucchā́t ǀ ca ǀ nú ǀ devī́ ǀ jīrā́ ǀ ráthānām ǀ
yé ǀ asyāḥ ǀ ā-cáraṇeṣu ǀ dadhriré ǀ samudré ǀ ná ǀ śravasyávaḥ ǁ
uvāsa ǀ uṣāḥ ǀ ucchāt ǀ ca ǀ nu ǀ devī ǀ jīrā ǀ rathānām ǀ
ye ǀ asyāḥ ǀ ā-caraṇeṣu ǀ dadhrire ǀ samudre ǀ na ǀ śravasyavaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.048.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.03.03
- Maṇḍala · Anuvāka · Ṛk
- 01.09.052
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.