Sūkta 105
- Devatā देवता
- 1-14, 16-19: Viśvedevās; 15: Varuṇa, Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa Or Trita Āptya
- Chandas छन्दस्
- Paṅkti, Mahābṛhatī Of The Yavamadhyā Type, Triṣṭubh
Metres by ṛk
1st set of styles virāṭpaṅkti (3, 4, 6, 9, 15, 18); nicṛtpaṅkti (1, 2, 12, 16, 17); svarāṭpaṅkti (8, 10); paṅktiḥ (11, 14); nicṛdbṛhatī (5); bhurigbṛhatī (7); mahābṛhatī (13); nicṛttriṣṭup (19)
2nd set of styles paṅkti (1-7, 9-18); mahābṛhatī of the yavamadhyā type (8); triṣṭubh (19)
-
Ṛk 1
चं॒द्रमा॑ अ॒प्स्वं१॒॑तरा सु॑प॒र्णो धा॑वते दि॒वि ।
न वो॑ हिरण्यनेमयः प॒दं विं॑दंति विद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि |
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी ||candrámā apsvántárā́ suparṇó dhāvate diví ǀ
ná vo hiraṇyanemayaḥ padám vindanti vidyuto vittám me asyá rodasī ǁcandramā apsv antar ā suparṇo dhāvate divi |
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī ||च॒न्द्रमाः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒ऽप॒र्णः । धा॒व॒ते॒ । दि॒वि ।
न । वः॒ । हि॒र॒ण्य॒ऽने॒म॒यः॒ । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒तः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥चन्द्रमाः । अप्ऽसु । अन्तः । आ । सुऽपर्णः । धावते । दिवि ।
न । वः । हिरण्यऽनेमयः । पदम् । विन्दन्ति । विऽद्युतः । वित्तम् । मे । अस्य । रोदसी इति ॥candrámāḥ ǀ ap-sú ǀ antáḥ ǀ ā́ ǀ su-parṇáḥ ǀ dhāvate ǀ diví ǀ
ná ǀ vaḥ ǀ hiraṇya-nemayaḥ ǀ padám ǀ vindanti ǀ vi-dyutaḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁcandramāḥ ǀ ap-su ǀ antaḥ ǀ ā ǀ su-parṇaḥ ǀ dhāvate ǀ divi ǀ
na ǀ vaḥ ǀ hiraṇya-nemayaḥ ǀ padam ǀ vindanti ǀ vi-dyutaḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.1 Aṣṭaka 1.7.20.1Anuvāka 1.15.107
-
Ṛk 2
अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पतिं॑ ।
तुं॒जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं॑ दुहे वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अर्थम् इद् वा उ अर्थिन आ जाया युवते पतिम् |
तुञ्जाते वृष्ण्यम् पयः परिदाय रसं दुहे वित्तम् मे अस्य रोदसी ||árthamídvā́ u arthína ā́ jāyā́ yuvate pátim ǀ
tuñjā́te vṛ́ṣṇyam páyaḥ paridā́ya rásam duhe vittám me asyá rodasī ǁartham id vā u arthina ā jāyā yuvate patim |
tuñjāte vṛṣṇyam payaḥ paridāya rasaṃ duhe vittam me asya rodasī ||अर्थ॑म् । इत् । वै । ऊं॒ इति॑ । अ॒र्थिनः॑ । आ । जा॒या । यु॒व॒ते॒ । पति॑म् ।
तु॒ञ्जाते॒ इति॑ । वृष्ण्य॑म् । पयः॑ । प॒रि॒ऽदाय॑ । रस॑म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अर्थम् । इत् । वै । ऊं इति । अर्थिनः । आ । जाया । युवते । पतिम् ।
तुञ्जाते इति । वृष्ण्यम् । पयः । परिऽदाय । रसम् । दुहे । वित्तम् । मे । अस्य । रोदसी इति ॥ártham ǀ ít ǀ vái ǀ ūṃ íti ǀ arthínaḥ ǀ ā́ ǀ jāyā́ ǀ yuvate ǀ pátim ǀ
tuñjā́te íti ǀ vṛ́ṣṇyam ǀ páyaḥ ǀ pari-dā́ya ǀ rásam ǀ duhe ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁartham ǀ it ǀ vai ǀ ūṃ iti ǀ arthinaḥ ǀ ā ǀ jāyā ǀ yuvate ǀ patim ǀ
tuñjāte iti ǀ vṛṣṇyam ǀ payaḥ ǀ pari-dāya ǀ rasam ǀ duhe ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.2 Aṣṭaka 1.7.20.2Anuvāka 1.15.108
-
Ṛk 3
मो षु दे॑वा अ॒दः स्व१॒॑रव॑ पादि दि॒वस्परि॑ ।
मा सो॒म्यस्य॑ शं॒भुवः॒ शूने॑ भूम॒ कदा॑ च॒न वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥मो षु देवा अदः स्वर् अव पादि दिवस् परि |
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम् मे अस्य रोदसी ||mó ṣú devā adáḥ sváráva pādi diváspári ǀ
mā́ somyásya śambhúvaḥ śū́ne bhūma kádā caná vittám me asyá rodasī ǁmo ṣu devā adaḥ svar ava pādi divas pari |
mā somyasya śambhuvaḥ śūne bhūma kadā cana vittam me asya rodasī ||मो इति॑ । सु । दे॒वाः॒ । अ॒दः । स्वः॑ । अव॑ । पा॒दि॒ । दि॒वः । परि॑ ।
मा । सो॒म्यस्य॑ । श॒म्ऽभुवः॑ । शूने॑ । भू॒म॒ । कदा॑ । च॒न । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥मो इति । सु । देवाः । अदः । स्वः । अव । पादि । दिवः । परि ।
मा । सोम्यस्य । शम्ऽभुवः । शूने । भूम । कदा । चन । वित्तम् । मे । अस्य । रोदसी इति ॥mó íti ǀ sú ǀ devāḥ ǀ adáḥ ǀ sváḥ ǀ áva ǀ pādi ǀ diváḥ ǀ pári ǀ
mā́ ǀ somyásya ǀ śam-bhúvaḥ ǀ śū́ne ǀ bhūma ǀ kádā ǀ caná ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁmo iti ǀ su ǀ devāḥ ǀ adaḥ ǀ svaḥ ǀ ava ǀ pādi ǀ divaḥ ǀ pari ǀ
mā ǀ somyasya ǀ śam-bhuvaḥ ǀ śūne ǀ bhūma ǀ kadā ǀ cana ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.3 Aṣṭaka 1.7.20.3Anuvāka 1.15.109
-
Ṛk 4
य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो॑चति ।
क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥यज्ञम् पृच्छाम्य् अवमं स तद् दूतो वि वोचति |
क्व ऋतम् पूर्व्यं गतं कस् तद् बिभर्ति नूतनो वित्तम् मे अस्य रोदसी ||yajñám pṛcchāmyavamám sá táddūtó ví vocati ǀ
kvá ṛtám pūrvyám gatám kástádbibharti nū́tano vittám me asyá rodasī ǁyajñam pṛcchāmy avamaṃ sa tad dūto vi vocati |
kva ṛtam pūrvyaṃ gataṃ kas tad bibharti nūtano vittam me asya rodasī ||य॒ज्ञम् । पृ॒च्छा॒मि॒ । अ॒व॒मम् । सः । तत् । दू॒तः । वि । वो॒च॒ति॒ ।
क्व॑ । ऋ॒तम् । पू॒र्व्यम् । ग॒तम् । कः । तत् । बि॒भ॒र्ति॒ । नूत॑नः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥यज्ञम् । पृच्छामि । अवमम् । सः । तत् । दूतः । वि । वोचति ।
क्व । ऋतम् । पूर्व्यम् । गतम् । कः । तत् । बिभर्ति । नूतनः । वित्तम् । मे । अस्य । रोदसी इति ॥yajñám ǀ pṛcchāmi ǀ avamám ǀ sáḥ ǀ tát ǀ dūtáḥ ǀ ví ǀ vocati ǀ
kvá ǀ ṛtám ǀ pūrvyám ǀ gatám ǀ káḥ ǀ tát ǀ bibharti ǀ nū́tanaḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁyajñam ǀ pṛcchāmi ǀ avamam ǀ saḥ ǀ tat ǀ dūtaḥ ǀ vi ǀ vocati ǀ
kva ǀ ṛtam ǀ pūrvyam ǀ gatam ǀ kaḥ ǀ tat ǀ bibharti ǀ nūtanaḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.4 Aṣṭaka 1.7.20.4Anuvāka 1.15.110
-
Ṛk 5
अ॒मी ये दे॑वाः॒ स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः ।
कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः |
कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ||amī́ yé devāḥ sthána triṣvā́ rocané diváḥ ǀ
kádva ṛtám kádánṛtam kvá pratnā́ va ā́hutirvittám me asyá rodasī ǁamī ye devā sthana triṣv ā rocane divaḥ |
kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī ||अ॒मी इति॑ । ये । दे॒वाः॒ । स्थन॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ।
कत् । वः॒ । ऋ॒तम् । कत् । अनृ॑तम् । क्व॑ । प्र॒त्ना । वः॒ । आऽहु॑तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अमी इति । ये । देवाः । स्थन । त्रिषु । आ । रोचने । दिवः ।
कत् । वः । ऋतम् । कत् । अनृतम् । क्व । प्रत्ना । वः । आऽहुतिः । वित्तम् । मे । अस्य । रोदसी इति ॥amī́ íti ǀ yé ǀ devāḥ ǀ sthána ǀ triṣú ǀ ā́ ǀ rocané ǀ diváḥ ǀ
kát ǀ vaḥ ǀ ṛtám ǀ kát ǀ ánṛtam ǀ kvá ǀ pratnā́ ǀ vaḥ ǀ ā́-hutiḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁamī iti ǀ ye ǀ devāḥ ǀ sthana ǀ triṣu ǀ ā ǀ rocane ǀ divaḥ ǀ
kat ǀ vaḥ ǀ ṛtam ǀ kat ǀ anṛtam ǀ kva ǀ pratnā ǀ vaḥ ǀ ā-hutiḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.5 Aṣṭaka 1.7.20.5Anuvāka 1.15.111
-
Ṛk 6
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णं ।
कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् |
कद् अर्यम्णो महस् पथाति क्रामेम दूढ्यो वित्तम् मे अस्य रोदसी ||kádva ṛtásya dharṇasí kádváruṇasya cákṣaṇam ǀ
kádaryamṇó maháspathā́ti krāmema dūḍhyó vittám me asyá rodasī ǁkad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam |
kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī ||कत् । वः॒ । ऋ॒तस्य॑ । ध॒र्ण॒सि । कत् । वरु॑णस्य । चक्ष॑णम् ।
कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति॑ । क्रा॒मे॒म॒ । दुः॒ऽध्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥कत् । वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् ।
कत् । अर्यम्णः । महः । पथा । अति । क्रामेम । दुःऽध्यः । वित्तम् । मे । अस्य । रोदसी इति ॥kát ǀ vaḥ ǀ ṛtásya ǀ dharṇasí ǀ kát ǀ váruṇasya ǀ cákṣaṇam ǀ
kát ǀ aryamṇáḥ ǀ maháḥ ǀ pathā́ ǀ áti ǀ krāmema ǀ duḥ-dhyáḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁkat ǀ vaḥ ǀ ṛtasya ǀ dharṇasi ǀ kat ǀ varuṇasya ǀ cakṣaṇam ǀ
kat ǀ aryamṇaḥ ǀ mahaḥ ǀ pathā ǀ ati ǀ krāmema ǀ duḥ-dhyaḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.6 Aṣṭaka 1.7.21.1Anuvāka 1.15.112
-
Ṛk 7
अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा॑मि॒ कानि॑ चित् ।
तं मा॑ व्यंत्या॒ध्यो॒३॒॑ वृको॒ न तृ॒ष्णजं॑ मृ॒गं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अहं सो अस्मि यः पुरा सुते वदामि कानि चित् |
तम् मा व्यन्त्य् आध्यो वृको न तृष्णजम् मृगं वित्तम् मे अस्य रोदसी ||ahám só asmi yáḥ purā́ suté vádāmi kā́ni cit ǀ
tám mā vyantyādhyó vṛ́ko ná tṛṣṇájam mṛgám vittám me asyá rodasī ǁahaṃ so asmi yaḥ purā sute vadāmi kāni cit |
tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī ||अ॒हम् । सः । अ॒स्मि॒ । यः । पु॒रा । सु॒ते । वदा॑मि । कानि॑ । चि॒त् ।
तम् । मा॒ । व्य॒न्ति॒ । आ॒ऽध्यः॑ । वृकः॑ । न । तृ॒ष्णऽज॑म् । मृ॒गम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अहम् । सः । अस्मि । यः । पुरा । सुते । वदामि । कानि । चित् ।
तम् । मा । व्यन्ति । आऽध्यः । वृकः । न । तृष्णऽजम् । मृगम् । वित्तम् । मे । अस्य । रोदसी इति ॥ahám ǀ sáḥ ǀ asmi ǀ yáḥ ǀ purā́ ǀ suté ǀ vádāmi ǀ kā́ni ǀ cit ǀ
tám ǀ mā ǀ vyanti ǀ ā-dhyáḥ ǀ vṛ́kaḥ ǀ ná ǀ tṛṣṇá-jam ǀ mṛgám ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁaham ǀ saḥ ǀ asmi ǀ yaḥ ǀ purā ǀ sute ǀ vadāmi ǀ kāni ǀ cit ǀ
tam ǀ mā ǀ vyanti ǀ ā-dhyaḥ ǀ vṛkaḥ ǀ na ǀ tṛṣṇa-jam ǀ mṛgam ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.7 Aṣṭaka 1.7.21.2Anuvāka 1.15.113
-
Ṛk 8
सं मा॑ तपंत्य॒भितः॑ स॒पत्नी॑रिव॒ पर्श॑वः ।
मूषो॒ न शि॒श्ना व्य॑दंति मा॒ध्यः॑ स्तो॒तारं॑ ते शतक्रतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥सम् मा तपन्त्य् अभितः सपत्नीर् इव पर्शवः |
मूषो न शिश्ना व्य् अदन्ति माध्य स्तोतारं ते शतक्रतो वित्तम् मे अस्य रोदसी ||sám mā tapantyabhítaḥ sapátnīriva párśavaḥ ǀ
mū́ṣo ná śiśnā́ vyádanti mādhyáḥ stotā́ram te śatakrato vittám me asyá rodasī ǁsam mā tapanty abhitaḥ sapatnīr iva parśavaḥ |
mūṣo na śiśnā vy adanti mādhya stotāraṃ te śatakrato vittam me asya rodasī ||सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः॑ । स॒पत्नीः॑ऽइव । पर्श॑वः ।
मूषः॑ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒ऽध्यः॑ । स्तो॒तार॑म् । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥सम् । मा । तपन्ति । अभितः । सपत्नीःऽइव । पर्शवः ।
मूषः । न । शिश्ना । वि । अदन्ति । मा । आऽध्यः । स्तोतारम् । ते । शतक्रतो इति शतऽक्रतो । वित्तम् । मे । अस्य । रोदसी इति ॥sám ǀ mā ǀ tapanti ǀ abhítaḥ ǀ sapátnīḥ-iva ǀ párśavaḥ ǀ
mū́ṣaḥ ǀ ná ǀ śiśnā́ ǀ ví ǀ adanti ǀ mā ǀ ā-dhyáḥ ǀ stotā́ram ǀ te ǀ śatakrato íti śata-krato ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁsam ǀ mā ǀ tapanti ǀ abhitaḥ ǀ sapatnīḥ-iva ǀ parśavaḥ ǀ
mūṣaḥ ǀ na ǀ śiśnā ǀ vi ǀ adanti ǀ mā ǀ ā-dhyaḥ ǀ stotāram ǀ te ǀ śatakrato iti śata-krato ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.8 Aṣṭaka 1.7.21.3Anuvāka 1.15.114
-
Ṛk 9
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता ।
त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता |
त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ||amī́ yé saptá raśmáyastátrā me nā́bhirā́tatā ǀ
tritástádvedāptyáḥ sá jāmitvā́ya rebhati vittám me asyá rodasī ǁamī ye sapta raśmayas tatrā me nābhir ātatā |
tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī ||अ॒मी इति॑ । ये । स॒प्त । र॒श्मयः॑ । तत्र॑ । मे॒ । नाभिः॑ । आऽत॑ता ।
त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒ऽत्वाय॑ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अमी इति । ये । सप्त । रश्मयः । तत्र । मे । नाभिः । आऽतता ।
त्रितः । तत् । वेद । आप्त्यः । सः । जामिऽत्वाय । रेभति । वित्तम् । मे । अस्य । रोदसी इति ॥amī́ íti ǀ yé ǀ saptá ǀ raśmáyaḥ ǀ tátra ǀ me ǀ nā́bhiḥ ǀ ā́-tatā ǀ
tritáḥ ǀ tát ǀ veda ǀ āptyáḥ ǀ sáḥ ǀ jāmi-tvā́ya ǀ rebhati ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁamī iti ǀ ye ǀ sapta ǀ raśmayaḥ ǀ tatra ǀ me ǀ nābhiḥ ǀ ā-tatā ǀ
tritaḥ ǀ tat ǀ veda ǀ āptyaḥ ǀ saḥ ǀ jāmi-tvāya ǀ rebhati ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.9 Aṣṭaka 1.7.21.4Anuvāka 1.15.115
-
Ṛk 10
अ॒मी ये पंचो॒क्षणो॒ मध्ये॑ त॒स्थुर्म॒हो दि॒वः ।
दे॒व॒त्रा नु प्र॒वाच्यं॑ सध्रीची॒ना नि वा॑वृतुर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अमी ये पञ्चोक्षणो मध्ये तस्थुर् महो दिवः |
देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर् वित्तम् मे अस्य रोदसी ||amī́ yé páñcokṣáṇo mádhye tasthúrmahó diváḥ ǀ
devatrā́ nú pravā́cyam sadhrīcīnā́ ní vāvṛturvittám me asyá rodasī ǁamī ye pañcokṣaṇo madhye tasthur maho divaḥ |
devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī ||अ॒मी इति॑ । ये । पञ्च॑ । उ॒क्षणः॑ । मध्ये॑ । त॒स्थुः । म॒हः । दि॒वः ।
दे॒व॒ऽत्रा । नु । प्र॒ऽवाच्य॑म् । स॒ध्री॒ची॒नाः । नि । व॒वृ॒तुः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अमी इति । ये । पञ्च । उक्षणः । मध्ये । तस्थुः । महः । दिवः ।
देवऽत्रा । नु । प्रऽवाच्यम् । सध्रीचीनाः । नि । ववृतुः । वित्तम् । मे । अस्य । रोदसी इति ॥amī́ íti ǀ yé ǀ páñca ǀ ukṣáṇaḥ ǀ mádhye ǀ tasthúḥ ǀ maháḥ ǀ diváḥ ǀ
deva-trā́ ǀ nú ǀ pra-vā́cyam ǀ sadhrīcīnā́ḥ ǀ ní ǀ vavṛtuḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁamī iti ǀ ye ǀ pañca ǀ ukṣaṇaḥ ǀ madhye ǀ tasthuḥ ǀ mahaḥ ǀ divaḥ ǀ
deva-trā ǀ nu ǀ pra-vācyam ǀ sadhrīcīnāḥ ǀ ni ǀ vavṛtuḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.10 Aṣṭaka 1.7.21.5Anuvāka 1.15.116
-
Ṛk 11
सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः ।
ते से॑धंति प॒थो वृकं॒ तरं॑तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥सुपर्णा एत आसते मध्य आरोधने दिवः |
ते सेधन्ति पथो वृकं तरन्तं यह्वतीर् अपो वित्तम् मे अस्य रोदसी ||suparṇā́ etá āsate mádhya āródhane diváḥ ǀ
té sedhanti pathó vṛ́kam tárantam yahvátīrapó vittám me asyá rodasī ǁsuparṇā eta āsate madhya ārodhane divaḥ |
te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī ||सु॒ऽप॒र्णाः । ए॒ते । आ॒स॒ते॒ । मध्ये॑ । आ॒ऽरोध॑ने । दि॒वः ।
ते । से॒ध॒न्ति॒ । प॒थः । वृक॑म् । तर॑न्तम् । य॒ह्वतीः॑ । अ॒पः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥सुऽपर्णाः । एते । आसते । मध्ये । आऽरोधने । दिवः ।
ते । सेधन्ति । पथः । वृकम् । तरन्तम् । यह्वतीः । अपः । वित्तम् । मे । अस्य । रोदसी इति ॥su-parṇā́ḥ ǀ eté ǀ āsate ǀ mádhye ǀ ā-ródhane ǀ diváḥ ǀ
té ǀ sedhanti ǀ patháḥ ǀ vṛ́kam ǀ tárantam ǀ yahvátīḥ ǀ apáḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁsu-parṇāḥ ǀ ete ǀ āsate ǀ madhye ǀ ā-rodhane ǀ divaḥ ǀ
te ǀ sedhanti ǀ pathaḥ ǀ vṛkam ǀ tarantam ǀ yahvatīḥ ǀ apaḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.11 Aṣṭaka 1.7.22.1Anuvāka 1.15.117
-
Ṛk 12
नव्यं॒ तदु॒क्थ्यं॑ हि॒तं देवा॑सः सुप्रवाच॒नं ।
ऋ॒तम॑र्षंति॒ सिंध॑वः स॒त्यं ता॑तान॒ सूर्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥नव्यं तद् उक्थ्यं हितं देवासः सुप्रवाचनम् |
ऋतम् अर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तम् मे अस्य रोदसी ||návyam tádukthyám hitám dévāsaḥ supravācanám ǀ
ṛtámarṣanti síndhavaḥ satyám tātāna sū́ryo vittám me asyá rodasī ǁnavyaṃ tad ukthyaṃ hitaṃ devāsaḥ supravācanam |
ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī ||नव्य॑म् । तत् । उ॒क्थ्य॑म् । हि॒तम् । देवा॑सः । सु॒ऽप्र॒वा॒च॒नम् ।
ऋ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥नव्यम् । तत् । उक्थ्यम् । हितम् । देवासः । सुऽप्रवाचनम् ।
ऋतम् । अर्षन्ति । सिन्धवः । सत्यम् । ततान । सूर्यः । वित्तम् । मे । अस्य । रोदसी इति ॥návyam ǀ tát ǀ ukthyám ǀ hitám ǀ dévāsaḥ ǀ su-pravācanám ǀ
ṛtám ǀ arṣanti ǀ síndhavaḥ ǀ satyám ǀ tatāna ǀ sū́ryaḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁnavyam ǀ tat ǀ ukthyam ǀ hitam ǀ devāsaḥ ǀ su-pravācanam ǀ
ṛtam ǀ arṣanti ǀ sindhavaḥ ǀ satyam ǀ tatāna ǀ sūryaḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.12 Aṣṭaka 1.7.22.2Anuvāka 1.15.118
-
Ṛk 13
अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्यं॑ ।
स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् |
स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ||ágne táva tyádukthyám devéṣvastyā́pyam ǀ
sá naḥ sattó manuṣvádā́ devā́nyakṣi vidúṣṭaro vittám me asyá rodasī ǁagne tava tyad ukthyaṃ deveṣv asty āpyam |
sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī ||अग्ने॑ । तव॑ । त्यत् । उ॒क्थ्य॑म् । दे॒वेषु॑ । अ॒स्ति॒ । आप्य॑म् ।
सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुःऽत॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अग्ने । तव । त्यत् । उक्थ्यम् । देवेषु । अस्ति । आप्यम् ।
सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि । विदुःऽतरः । वित्तम् । मे । अस्य । रोदसी इति ॥ágne ǀ táva ǀ tyát ǀ ukthyám ǀ devéṣu ǀ asti ǀ ā́pyam ǀ
sáḥ ǀ naḥ ǀ sattáḥ ǀ manuṣvát ǀ ā́ ǀ devā́n ǀ yakṣi ǀ vidúḥ-taraḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁagne ǀ tava ǀ tyat ǀ ukthyam ǀ deveṣu ǀ asti ǀ āpyam ǀ
saḥ ǀ naḥ ǀ sattaḥ ǀ manuṣvat ǀ ā ǀ devān ǀ yakṣi ǀ viduḥ-taraḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.13 Aṣṭaka 1.7.22.3Anuvāka 1.15.119
-
Ṛk 14
स॒त्तो होता॑ मनु॒ष्वदा दे॒वाँ अच्छा॑ वि॒दुष्ट॑रः ।
अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥सत्तो होता मनुष्वद् आ देवां अच्छा विदुष्टरः |
अग्निर् हव्या सुषूदति देवो देवेषु मेधिरो वित्तम् मे अस्य रोदसी ||sattó hótā manuṣvádā́ devā́m̐ ácchā vidúṣṭaraḥ ǀ
agnírhavyā́ suṣūdati devó devéṣu médhiro vittám me asyá rodasī ǁsatto hotā manuṣvad ā devāṃ acchā viduṣṭaraḥ |
agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī ||स॒त्तः । होता॑ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ॑ । वि॒दुःऽत॑रः ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु॑ । मेधि॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥सत्तः । होता । मनुष्वत् । आ । देवान् । अच्छ । विदुःऽतरः ।
अग्निः । हव्या । सुसूदति । देवः । देवेषु । मेधिरः । वित्तम् । मे । अस्य । रोदसी इति ॥sattáḥ ǀ hótā ǀ manuṣvát ǀ ā́ ǀ devā́n ǀ áccha ǀ vidúḥ-taraḥ ǀ
agníḥ ǀ havyā́ ǀ susūdati ǀ deváḥ ǀ devéṣu ǀ médhiraḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁsattaḥ ǀ hotā ǀ manuṣvat ǀ ā ǀ devān ǀ accha ǀ viduḥ-taraḥ ǀ
agniḥ ǀ havyā ǀ susūdati ǀ devaḥ ǀ deveṣu ǀ medhiraḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.14 Aṣṭaka 1.7.22.4Anuvāka 1.15.120
-
Ṛk 15
ब्रह्मा॑ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी॑महे ।
व्यू॑र्णोति हृ॒दा म॒तिं नव्यो॑ जायतामृ॒तं वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥ब्रह्मा कृणोति वरुणो गातुविदं तम् ईमहे |
व्य् ऊर्णोति हृदा मतिं नव्यो जायताम् ऋतं वित्तम् मे अस्य रोदसी ||bráhmā kṛṇoti váruṇo gātuvídam támīmahe ǀ
vyū́rṇoti hṛdā́ matím návyo jāyatāmṛtám vittám me asyá rodasī ǁbrahmā kṛṇoti varuṇo gātuvidaṃ tam īmahe |
vy ūrṇoti hṛdā matiṃ navyo jāyatām ṛtaṃ vittam me asya rodasī ||ब्रह्मा॑ । कृ॒णो॒ति॒ । वरु॑णः । गा॒तु॒ऽविद॑म् । तम् । ई॒म॒हे॒ ।
वि । ऊ॒र्णो॒ति॒ । हृ॒दा । म॒तिम् । नव्यः॑ । जा॒य॒ता॒म् । ऋ॒तम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥ब्रह्मा । कृणोति । वरुणः । गातुऽविदम् । तम् । ईमहे ।
वि । ऊर्णोति । हृदा । मतिम् । नव्यः । जायताम् । ऋतम् । वित्तम् । मे । अस्य । रोदसी इति ॥bráhmā ǀ kṛṇoti ǀ váruṇaḥ ǀ gātu-vídam ǀ tám ǀ īmahe ǀ
ví ǀ ūrṇoti ǀ hṛdā́ ǀ matím ǀ návyaḥ ǀ jāyatām ǀ ṛtám ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁbrahmā ǀ kṛṇoti ǀ varuṇaḥ ǀ gātu-vidam ǀ tam ǀ īmahe ǀ
vi ǀ ūrṇoti ǀ hṛdā ǀ matim ǀ navyaḥ ǀ jāyatām ǀ ṛtam ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.15 Aṣṭaka 1.7.22.5Anuvāka 1.15.121
-
Ṛk 16
अ॒सौ यः पंथा॑ आदि॒त्यो दि॒वि प्र॒वाच्यं॑ कृ॒तः ।
न स दे॑वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः |
न स देवा अतिक्रमे तम् मर्तासो न पश्यथ वित्तम् मे अस्य रोदसी ||asáu yáḥ pánthā ādityó diví pravā́cyam kṛtáḥ ǀ
ná sá devā atikráme tám martāso ná paśyatha vittám me asyá rodasī ǁasau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ |
na sa devā atikrame tam martāso na paśyatha vittam me asya rodasī ||अ॒सौ । यः । पन्थाः॑ । आ॒दि॒त्यः । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तः ।
न । सः । दे॒वाः॒ । अ॒ति॒ऽक्रमे॑ । तम् । म॒र्ता॒सः॒ । न । प॒श्य॒थ॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥असौ । यः । पन्थाः । आदित्यः । दिवि । प्रऽवाच्यम् । कृतः ।
न । सः । देवाः । अतिऽक्रमे । तम् । मर्तासः । न । पश्यथ । वित्तम् । मे । अस्य । रोदसी इति ॥asáu ǀ yáḥ ǀ pánthāḥ ǀ ādityáḥ ǀ diví ǀ pra-vā́cyam ǀ kṛtáḥ ǀ
ná ǀ sáḥ ǀ devāḥ ǀ ati-kráme ǀ tám ǀ martāsaḥ ǀ ná ǀ paśyatha ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁasau ǀ yaḥ ǀ panthāḥ ǀ ādityaḥ ǀ divi ǀ pra-vācyam ǀ kṛtaḥ ǀ
na ǀ saḥ ǀ devāḥ ǀ ati-krame ǀ tam ǀ martāsaḥ ǀ na ǀ paśyatha ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.16 Aṣṭaka 1.7.23.1Anuvāka 1.15.122
-
Ṛk 17
त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये॑ ।
तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं॑हूर॒णादु॒रु वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥त्रितः कूपे ऽवहितो देवान् हवत ऊतये |
तच् छुश्राव बृहस्पतिः कृण्वन्न् अंहूरणाद् उरु वित्तम् मे अस्य रोदसी ||tritáḥ kū́pé’vahito devā́nhavata ūtáye ǀ
tácchuśrāva bṛ́haspátiḥ kṛṇvánnaṃhūraṇā́durú vittám me asyá rodasī ǁtritaḥ kūpe 'vahito devān havata ūtaye |
tac chuśrāva bṛhaspatiḥ kṛṇvann aṃhūraṇād uru vittam me asya rodasī ||त्रि॒तः । कूपे॑ । अव॑ऽहितः । दे॒वान् । ह॒व॒ते॒ । ऊ॒तये॑ ।
तत् । शु॒श्रा॒व॒ । बृह॒स्पतिः॑ । कृ॒ण्वन् । अं॒हू॒र॒णात् । उ॒रु । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥त्रितः । कूपे । अवऽहितः । देवान् । हवते । ऊतये ।
तत् । शुश्राव । बृहस्पतिः । कृण्वन् । अंहूरणात् । उरु । वित्तम् । मे । अस्य । रोदसी इति ॥tritáḥ ǀ kū́pe ǀ áva-hitaḥ ǀ devā́n ǀ havate ǀ ūtáye ǀ
tát ǀ śuśrāva ǀ bṛ́haspátiḥ ǀ kṛṇván ǀ aṃhūraṇā́t ǀ urú ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁtritaḥ ǀ kūpe ǀ ava-hitaḥ ǀ devān ǀ havate ǀ ūtaye ǀ
tat ǀ śuśrāva ǀ bṛhaspatiḥ ǀ kṛṇvan ǀ aṃhūraṇāt ǀ uru ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.17 Aṣṭaka 1.7.23.2Anuvāka 1.15.123
-
Ṛk 18
अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यंतं॑ द॒दर्श॒ हि ।
उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि |
उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ||aruṇó mā sakṛ́dvṛ́kaḥ pathā́ yántam dadárśa hí ǀ
újjihīte nicā́yyā táṣṭeva pṛṣṭyāmayī́ vittám me asyá rodasī ǁaruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi |
uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī ||अ॒रु॒णः । मा॒ । स॒कृत् । वृकः॑ । प॒था । यन्त॑म् । द॒दर्श॑ । हि ।
उत् । जि॒ही॒ते॒ । नि॒ऽचाय्य॑ । तष्टा॑ऽइव । पृ॒ष्टि॒ऽआ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥अरुणः । मा । सकृत् । वृकः । पथा । यन्तम् । ददर्श । हि ।
उत् । जिहीते । निऽचाय्य । तष्टाऽइव । पृष्टिऽआमयी । वित्तम् । मे । अस्य । रोदसी इति ॥aruṇáḥ ǀ mā ǀ sakṛ́t ǀ vṛ́kaḥ ǀ pathā́ ǀ yántam ǀ dadárśa ǀ hí ǀ
út ǀ jihīte ǀ ni-cā́yya ǀ táṣṭā-iva ǀ pṛṣṭi-āmayī́ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁaruṇaḥ ǀ mā ǀ sakṛt ǀ vṛkaḥ ǀ pathā ǀ yantam ǀ dadarśa ǀ hi ǀ
ut ǀ jihīte ǀ ni-cāyya ǀ taṣṭā-iva ǀ pṛṣṭi-āmayī ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ1.105.18 Aṣṭaka 1.7.23.3Anuvāka 1.15.124
-
Ṛk 19
ए॒नांगू॒षेण॑ व॒यमिंद्र॑वंतो॒ऽभि ष्या॑म वृ॒जने॒ सर्व॑वीराः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥एनाङ्गूषेण वयम् इन्द्रवन्तो ऽभि ष्याम वृजने सर्ववीराः |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||enā́ṅgūṣéṇa vayámíndravanto’bhí ṣyāma vṛjáne sárvavīrāḥ ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁenāṅgūṣeṇa vayam indravanto 'bhi ṣyāma vṛjane sarvavīrāḥ |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||ए॒ना । आ॒ङ्गू॒षेण॑ । व॒यम् । इन्द्र॑ऽवन्तः । अ॒भि । स्या॒म॒ । वृ॒जने॑ । सर्व॑ऽवीराः ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥एना । आङ्गूषेण । वयम् । इन्द्रऽवन्तः । अभि । स्याम । वृजने । सर्वऽवीराः ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥enā́ ǀ āṅgūṣéṇa ǀ vayám ǀ índra-vantaḥ ǀ abhí ǀ syāma ǀ vṛjáne ǀ sárva-vīrāḥ ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁenā ǀ āṅgūṣeṇa ǀ vayam ǀ indra-vantaḥ ǀ abhi ǀ syāma ǀ vṛjane ǀ sarva-vīrāḥ ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.105.19 Aṣṭaka 1.7.23.4Anuvāka 1.15.125
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.