Ṛgveda · Maṇḍala 1 · Sūkta 105
Ṛk 1.105.9
Saṃhitā
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा॑ मे॒ नाभि॒रात॑ता ।
त्रि॒तस्तद्वे॑दा॒प्त्यः स जा॑मि॒त्वाय॑ रेभति वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अमी ये सप्त रश्मयस् तत्रा मे नाभिर् आतता |
त्रितस् तद् वेदाप्त्यः स जामित्वाय रेभति वित्तम् मे अस्य रोदसी ||
amī́ yé saptá raśmáyastátrā me nā́bhirā́tatā ǀ
tritástádvedāptyáḥ sá jāmitvā́ya rebhati vittám me asyá rodasī ǁ
amī ye sapta raśmayas tatrā me nābhir ātatā |
tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī ||
Padapāṭha
अ॒मी इति॑ । ये । स॒प्त । र॒श्मयः॑ । तत्र॑ । मे॒ । नाभिः॑ । आऽत॑ता ।
त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒ऽत्वाय॑ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अमी इति । ये । सप्त । रश्मयः । तत्र । मे । नाभिः । आऽतता ।
त्रितः । तत् । वेद । आप्त्यः । सः । जामिऽत्वाय । रेभति । वित्तम् । मे । अस्य । रोदसी इति ॥
amī́ íti ǀ yé ǀ saptá ǀ raśmáyaḥ ǀ tátra ǀ me ǀ nā́bhiḥ ǀ ā́-tatā ǀ
tritáḥ ǀ tát ǀ veda ǀ āptyáḥ ǀ sáḥ ǀ jāmi-tvā́ya ǀ rebhati ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁ
amī iti ǀ ye ǀ sapta ǀ raśmayaḥ ǀ tatra ǀ me ǀ nābhiḥ ǀ ā-tatā ǀ
tritaḥ ǀ tat ǀ veda ǀ āptyaḥ ǀ saḥ ǀ jāmi-tvāya ǀ rebhati ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.105.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.21.04
- Maṇḍala · Anuvāka · Ṛk
- 1.15.115
- Devatā देवता
- 1-14, 16-19: Viśvedevās; 15: Varuṇa, Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa Or Trita Āptya
- Chandas छन्दस्
- Paṅkti, Mahābṛhatī Of The Yavamadhyā Type, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.