Ṛgveda · Maṇḍala 1 · Sūkta 105
Ṛk 1.105.6
Saṃhitā
कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णं ।
कद॑र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो॑ वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
कद् व ऋतस्य धर्णसि कद् वरुणस्य चक्षणम् |
कद् अर्यम्णो महस् पथाति क्रामेम दूढ्यो वित्तम् मे अस्य रोदसी ||
kádva ṛtásya dharṇasí kádváruṇasya cákṣaṇam ǀ
kádaryamṇó maháspathā́ti krāmema dūḍhyó vittám me asyá rodasī ǁ
kad va ṛtasya dharṇasi kad varuṇasya cakṣaṇam |
kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī ||
Padapāṭha
कत् । वः॒ । ऋ॒तस्य॑ । ध॒र्ण॒सि । कत् । वरु॑णस्य । चक्ष॑णम् ।
कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति॑ । क्रा॒मे॒म॒ । दुः॒ऽध्यः॑ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
कत् । वः । ऋतस्य । धर्णसि । कत् । वरुणस्य । चक्षणम् ।
कत् । अर्यम्णः । महः । पथा । अति । क्रामेम । दुःऽध्यः । वित्तम् । मे । अस्य । रोदसी इति ॥
kát ǀ vaḥ ǀ ṛtásya ǀ dharṇasí ǀ kát ǀ váruṇasya ǀ cákṣaṇam ǀ
kát ǀ aryamṇáḥ ǀ maháḥ ǀ pathā́ ǀ áti ǀ krāmema ǀ duḥ-dhyáḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁ
kat ǀ vaḥ ǀ ṛtasya ǀ dharṇasi ǀ kat ǀ varuṇasya ǀ cakṣaṇam ǀ
kat ǀ aryamṇaḥ ǀ mahaḥ ǀ pathā ǀ ati ǀ krāmema ǀ duḥ-dhyaḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.105.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.21.01
- Maṇḍala · Anuvāka · Ṛk
- 1.15.112
- Devatā देवता
- 1-14, 16-19: Viśvedevās; 15: Varuṇa, Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa Or Trita Āptya
- Chandas छन्दस्
- Paṅkti, Mahābṛhatī Of The Yavamadhyā Type, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.