Ṛgveda · Maṇḍala 1 · Sūkta 105
Ṛk 1.105.13
Saṃhitā
अग्ने॒ तव॒ त्यदु॒क्थ्यं॑ दे॒वेष्व॒स्त्याप्यं॑ ।
स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अग्ने तव त्यद् उक्थ्यं देवेष्व् अस्त्य् आप्यम् |
स नः सत्तो मनुष्वद् आ देवान् यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी ||
ágne táva tyádukthyám devéṣvastyā́pyam ǀ
sá naḥ sattó manuṣvádā́ devā́nyakṣi vidúṣṭaro vittám me asyá rodasī ǁ
agne tava tyad ukthyaṃ deveṣv asty āpyam |
sa naḥ satto manuṣvad ā devān yakṣi viduṣṭaro vittam me asya rodasī ||
Padapāṭha
अग्ने॑ । तव॑ । त्यत् । उ॒क्थ्य॑म् । दे॒वेषु॑ । अ॒स्ति॒ । आप्य॑म् ।
सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुःऽत॑रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अग्ने । तव । त्यत् । उक्थ्यम् । देवेषु । अस्ति । आप्यम् ।
सः । नः । सत्तः । मनुष्वत् । आ । देवान् । यक्षि । विदुःऽतरः । वित्तम् । मे । अस्य । रोदसी इति ॥
ágne ǀ táva ǀ tyát ǀ ukthyám ǀ devéṣu ǀ asti ǀ ā́pyam ǀ
sáḥ ǀ naḥ ǀ sattáḥ ǀ manuṣvát ǀ ā́ ǀ devā́n ǀ yakṣi ǀ vidúḥ-taraḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁ
agne ǀ tava ǀ tyat ǀ ukthyam ǀ deveṣu ǀ asti ǀ āpyam ǀ
saḥ ǀ naḥ ǀ sattaḥ ǀ manuṣvat ǀ ā ǀ devān ǀ yakṣi ǀ viduḥ-taraḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.105.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.22.03
- Maṇḍala · Anuvāka · Ṛk
- 1.15.119
- Devatā देवता
- 1-14, 16-19: Viśvedevās; 15: Varuṇa, Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa Or Trita Āptya
- Chandas छन्दस्
- Paṅkti, Mahābṛhatī Of The Yavamadhyā Type, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.