Ṛgveda · Maṇḍala 1 · Sūkta 105
Ṛk 1.105.5
Saṃhitā
अ॒मी ये दे॑वाः॒ स्थन॑ त्रि॒ष्वा रो॑च॒ने दि॒वः ।
कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अमी ये देवा स्थन त्रिष्व् आ रोचने दिवः |
कद् व ऋतं कद् अनृतं क्व प्रत्ना व आहुतिर् वित्तम् मे अस्य रोदसी ||
amī́ yé devāḥ sthána triṣvā́ rocané diváḥ ǀ
kádva ṛtám kádánṛtam kvá pratnā́ va ā́hutirvittám me asyá rodasī ǁ
amī ye devā sthana triṣv ā rocane divaḥ |
kad va ṛtaṃ kad anṛtaṃ kva pratnā va āhutir vittam me asya rodasī ||
Padapāṭha
अ॒मी इति॑ । ये । दे॒वाः॒ । स्थन॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ।
कत् । वः॒ । ऋ॒तम् । कत् । अनृ॑तम् । क्व॑ । प्र॒त्ना । वः॒ । आऽहु॑तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अमी इति । ये । देवाः । स्थन । त्रिषु । आ । रोचने । दिवः ।
कत् । वः । ऋतम् । कत् । अनृतम् । क्व । प्रत्ना । वः । आऽहुतिः । वित्तम् । मे । अस्य । रोदसी इति ॥
amī́ íti ǀ yé ǀ devāḥ ǀ sthána ǀ triṣú ǀ ā́ ǀ rocané ǀ diváḥ ǀ
kát ǀ vaḥ ǀ ṛtám ǀ kát ǀ ánṛtam ǀ kvá ǀ pratnā́ ǀ vaḥ ǀ ā́-hutiḥ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁ
amī iti ǀ ye ǀ devāḥ ǀ sthana ǀ triṣu ǀ ā ǀ rocane ǀ divaḥ ǀ
kat ǀ vaḥ ǀ ṛtam ǀ kat ǀ anṛtam ǀ kva ǀ pratnā ǀ vaḥ ǀ ā-hutiḥ ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.105.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.20.05
- Maṇḍala · Anuvāka · Ṛk
- 1.15.111
- Devatā देवता
- 1-14, 16-19: Viśvedevās; 15: Varuṇa, Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa Or Trita Āptya
- Chandas छन्दस्
- Paṅkti, Mahābṛhatī Of The Yavamadhyā Type, Triṣṭubh
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.