Ṛgveda · Maṇḍala 1 · Sūkta 105
Ṛk 1.105.18
Saṃhitā
अ॒रु॒णो मा॑ स॒कृद्वृकः॑ प॒था यंतं॑ द॒दर्श॒ हि ।
उज्जि॑हीते नि॒चाय्या॒ तष्टे॑व पृष्ट्याम॒यी वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
अरुणो मा सकृद् वृकः पथा यन्तं ददर्श हि |
उज् जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तम् मे अस्य रोदसी ||
aruṇó mā sakṛ́dvṛ́kaḥ pathā́ yántam dadárśa hí ǀ
újjihīte nicā́yyā táṣṭeva pṛṣṭyāmayī́ vittám me asyá rodasī ǁ
aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi |
uj jihīte nicāyyā taṣṭeva pṛṣṭyāmayī vittam me asya rodasī ||
Padapāṭha
अ॒रु॒णः । मा॒ । स॒कृत् । वृकः॑ । प॒था । यन्त॑म् । द॒दर्श॑ । हि ।
उत् । जि॒ही॒ते॒ । नि॒ऽचाय्य॑ । तष्टा॑ऽइव । पृ॒ष्टि॒ऽआ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥
अरुणः । मा । सकृत् । वृकः । पथा । यन्तम् । ददर्श । हि ।
उत् । जिहीते । निऽचाय्य । तष्टाऽइव । पृष्टिऽआमयी । वित्तम् । मे । अस्य । रोदसी इति ॥
aruṇáḥ ǀ mā ǀ sakṛ́t ǀ vṛ́kaḥ ǀ pathā́ ǀ yántam ǀ dadárśa ǀ hí ǀ
út ǀ jihīte ǀ ni-cā́yya ǀ táṣṭā-iva ǀ pṛṣṭi-āmayī́ ǀ vittám ǀ me ǀ asyá ǀ rodasī íti ǁ
aruṇaḥ ǀ mā ǀ sakṛt ǀ vṛkaḥ ǀ pathā ǀ yantam ǀ dadarśa ǀ hi ǀ
ut ǀ jihīte ǀ ni-cāyya ǀ taṣṭā-iva ǀ pṛṣṭi-āmayī ǀ vittam ǀ me ǀ asya ǀ rodasī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.105.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.23.03
- Maṇḍala · Anuvāka · Ṛk
- 1.15.124
- Devatā देवता
- 1-14, 16-19: Viśvedevās; 15: Varuṇa, Viśvedevās
- Ṛṣi ऋषि
- Kutsa Āṅgirasa Or Trita Āptya
- Chandas छन्दस्
- Paṅkti, Mahābṛhatī Of The Yavamadhyā Type, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.