Sūkta 155
- Devatā देवता
- 1, 3-6: Viṣṇu; 2: Indra, Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles bhuriktriṣṭup (1, 3, 6); nicṛjjagatī (2); svarāṭtriṣṭup (4); nicṛttriṣṭup (5)
2nd set of styles jagatī
-
Ṛk 1
प्र वः॒ पांत॒मंध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत ।
या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥प्र वः पान्तम् अन्धसो धियायते महे शूराय विष्णवे चार्चत |
या सानुनि पर्वतानाम् अदाभ्या महस् तस्थतुर् अर्वतेव साधुना ||prá vaḥ pā́ntamándhaso dhiyāyaté mahé śū́rāya víṣṇave cārcata ǀ
yā́ sā́nuni párvatānāmádābhyā mahástastháturárvateva sādhúnā ǁpra vaḥ pāntam andhaso dhiyāyate mahe śūrāya viṣṇave cārcata |
yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā ||प्र । वः॒ । पान्त॑म् । अन्ध॑सः । धि॒या॒ऽय॒ते । म॒हे । शूरा॑य । विष्ण॑वे । च॒ । अ॒र्च॒त॒ ।
या । सानु॑नि । पर्व॑तानाम् । अदा॑भ्या । म॒हः । त॒स्थतुः॑ । अर्व॑ताऽइव । सा॒धुना॑ ॥प्र । वः । पान्तम् । अन्धसः । धियाऽयते । महे । शूराय । विष्णवे । च । अर्चत ।
या । सानुनि । पर्वतानाम् । अदाभ्या । महः । तस्थतुः । अर्वताऽइव । साधुना ॥prá ǀ vaḥ ǀ pā́ntam ǀ ándhasaḥ ǀ dhiyā-yaté ǀ mahé ǀ śū́rāya ǀ víṣṇave ǀ ca ǀ arcata ǀ
yā́ ǀ sā́nuni ǀ párvatānām ǀ ádābhyā ǀ maháḥ ǀ tasthátuḥ ǀ árvatā-iva ǀ sādhúnā ǁpra ǀ vaḥ ǀ pāntam ǀ andhasaḥ ǀ dhiyā-yate ǀ mahe ǀ śūrāya ǀ viṣṇave ǀ ca ǀ arcata ǀ
yā ǀ sānuni ǀ parvatānām ǀ adābhyā ǀ mahaḥ ǀ tasthatuḥ ǀ arvatā-iva ǀ sādhunā ǁ1.155.1 Aṣṭaka 2.2.25.1Anuvāka 1.21.109
-
Ṛk 2
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिंद्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।
या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति |
या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ||tveṣámitthā́ samáraṇam śímīvatoríndrāviṣṇū sutapā́ vāmuruṣyati ǀ
yā́ mártyāya pratidhīyámānamítkṛśā́norásturasanā́muruṣyáthaḥ ǁtveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati |
yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ ||त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।
या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥त्वेषम् । इत्था । सम्ऽअरणम् । शिमीऽवतोः । इन्द्राविष्णू इति । सुतऽपाः । वाम् । उरुष्यति ।
या । मर्त्याय । प्रतिऽधीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः ॥tveṣám ǀ itthā́ ǀ sam-áraṇam ǀ śímī-vatoḥ ǀ índrāviṣṇū íti ǀ suta-pā́ḥ ǀ vām ǀ uruṣyati ǀ
yā́ ǀ mártyāya ǀ prati-dhīyámānam ǀ ít ǀ kṛśā́noḥ ǀ ástuḥ ǀ asanā́m ǀ uruṣyáthaḥ ǁtveṣam ǀ itthā ǀ sam-araṇam ǀ śimī-vatoḥ ǀ indrāviṣṇū iti ǀ suta-pāḥ ǀ vām ǀ uruṣyati ǀ
yā ǀ martyāya ǀ prati-dhīyamānam ǀ it ǀ kṛśānoḥ ǀ astuḥ ǀ asanām ǀ uruṣyathaḥ ǁ1.155.2 Aṣṭaka 2.2.25.2Anuvāka 1.21.110
-
Ṛk 3
ता ईं॑ वर्धंति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे ।
दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥ता ईं वर्धन्ति मह्य् अस्य पौंस्यं नि मातरा नयति रेतसे भुजे |
दधाति पुत्रो ऽवरम् परम् पितुर् नाम तृतीयम् अधि रोचने दिवः ||tā́ īm vardhanti máhyasya páuṃsyam ní mātárā nayati rétase bhujé ǀ
dádhāti putró’varam páram pitúrnā́ma tṛtī́yamádhi rocané diváḥ ǁtā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje |
dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ ||ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि॑ । अ॒स्य॒ । पौंस्य॑म् । नि । मा॒तरा॑ । न॒य॒ति॒ । रेत॑से । भु॒जे ।
दधा॑ति । पु॒त्रः । अव॑रम् । पर॑म् । पि॒तुः । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥ताः । ईम् । वर्धन्ति । महि । अस्य । पौंस्यम् । नि । मातरा । नयति । रेतसे । भुजे ।
दधाति । पुत्रः । अवरम् । परम् । पितुः । नाम । तृतीयम् । अधि । रोचने । दिवः ॥tā́ḥ ǀ īm ǀ vardhanti ǀ máhi ǀ asya ǀ páuṃsyam ǀ ní ǀ mātárā ǀ nayati ǀ rétase ǀ bhujé ǀ
dádhāti ǀ putráḥ ǀ ávaram ǀ páram ǀ pitúḥ ǀ nā́ma ǀ tṛtī́yam ǀ ádhi ǀ rocané ǀ diváḥ ǁtāḥ ǀ īm ǀ vardhanti ǀ mahi ǀ asya ǀ pauṃsyam ǀ ni ǀ mātarā ǀ nayati ǀ retase ǀ bhuje ǀ
dadhāti ǀ putraḥ ǀ avaram ǀ param ǀ pituḥ ǀ nāma ǀ tṛtīyam ǀ adhi ǀ rocane ǀ divaḥ ǁ1.155.3 Aṣṭaka 2.2.25.3Anuvāka 1.21.111
-
Ṛk 4
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ ।
यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥तत्-तद् इद् अस्य पौंस्यं गृणीमसीनस्य त्रातुर् अवृकस्य मीऌहुषः |
यः पार्थिवानि त्रिभिर् इद् विगामभिर् उरु क्रमिष्टोरुगायाय जीवसे ||táttadídasya páuṃsyam gṛṇīmasīnásya trātúravṛkásya mīḷhúṣaḥ ǀ
yáḥ pā́rthivāni tribhírídvígāmabhirurú krámiṣṭorugāyā́ya jīváse ǁtat-tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīḷhuṣaḥ |
yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase ||तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ ।
यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ । जी॒वसे॑ ॥तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । इनस्य । त्रातुः । अवृकस्य । मीळ्हुषः ।
यः । पार्थिवानि । त्रिऽभिः । इत् । विगामऽभिः । उरु । क्रमिष्ट । उरुऽगायाय । जीवसे ॥tát-tat ǀ ít ǀ asya ǀ páuṃsyam ǀ gṛṇīmasi ǀ inásya ǀ trātúḥ ǀ avṛkásya ǀ mīḷhúṣaḥ ǀ
yáḥ ǀ pā́rthivāni ǀ tri-bhíḥ ǀ ít ǀ vígāma-bhiḥ ǀ urú ǀ krámiṣṭa ǀ uru-gāyā́ya ǀ jīváse ǁtat-tat ǀ it ǀ asya ǀ pauṃsyam ǀ gṛṇīmasi ǀ inasya ǀ trātuḥ ǀ avṛkasya ǀ mīḷhuṣaḥ ǀ
yaḥ ǀ pārthivāni ǀ tri-bhiḥ ǀ it ǀ vigāma-bhiḥ ǀ uru ǀ kramiṣṭa ǀ uru-gāyāya ǀ jīvase ǁ1.155.4 Aṣṭaka 2.2.25.4Anuvāka 1.21.112
-
Ṛk 5
द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति ।
तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तयं॑तः पत॒त्रिणः॑ ॥द्वे इद् अस्य क्रमणे स्वर्दृशो ऽभिख्याय मर्त्यो भुरण्यति |
तृतीयम् अस्य नकिर् आ दधर्षति वयश् चन पतयन्तः पतत्रिणः ||dvé ídasya krámaṇe svardṛ́śo’bhikhyā́ya mártyo bhuraṇyati ǀ
tṛtī́yamasya nákirā́ dadharṣati váyaścaná patáyantaḥ patatríṇaḥ ǁdve id asya kramaṇe svardṛśo 'bhikhyāya martyo bhuraṇyati |
tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ ||द्वे इति॑ । इत् । अ॒स्य॒ । क्रम॑णे॒ इति॑ । स्वः॒ऽदृशः॑ । अ॒भि॒ऽख्याय॑ । मर्त्यः॑ । भु॒र॒ण्य॒ति॒ ।
तृ॒तीय॑म् । अ॒स्य॒ । नकिः॑ । आ । द॒ध॒र्ष॒ति॒ । वयः॑ । च॒न । प॒तय॑न्तः । प॒त॒त्रिणः॑ ॥द्वे इति । इत् । अस्य । क्रमणे इति । स्वःऽदृशः । अभिऽख्याय । मर्त्यः । भुरण्यति ।
तृतीयम् । अस्य । नकिः । आ । दधर्षति । वयः । चन । पतयन्तः । पतत्रिणः ॥dvé íti ǀ ít ǀ asya ǀ krámaṇe íti ǀ svaḥ-dṛ́śaḥ ǀ abhi-khyā́ya ǀ mártyaḥ ǀ bhuraṇyati ǀ
tṛtī́yam ǀ asya ǀ nákiḥ ǀ ā́ ǀ dadharṣati ǀ váyaḥ ǀ caná ǀ patáyantaḥ ǀ patatríṇaḥ ǁdve iti ǀ it ǀ asya ǀ kramaṇe iti ǀ svaḥ-dṛśaḥ ǀ abhi-khyāya ǀ martyaḥ ǀ bhuraṇyati ǀ
tṛtīyam ǀ asya ǀ nakiḥ ǀ ā ǀ dadharṣati ǀ vayaḥ ǀ cana ǀ patayantaḥ ǀ patatriṇaḥ ǁ1.155.5 Aṣṭaka 2.2.25.5Anuvāka 1.21.113
-
Ṛk 6
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् ।
बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये॑त्याह॒वं ॥चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतींर् अवीविपत् |
बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ||catúrbhiḥ sākám navatím ca nā́mabhiścakrám ná vṛttám vyátīm̐ravīvipat ǀ
bṛháccharīro vimímāna ṛ́kvabhiryúvā́kumāraḥ prátyetyāhavám ǁcaturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat |
bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam ||च॒तुःऽभिः॑ । सा॒कम् । न॒व॒तिम् । च॒ । नाम॑ऽभिः । च॒क्रम् । न । वृ॒त्तम् । व्यती॑न् । अ॒वी॒वि॒प॒त् ।
बृ॒हत्ऽश॑रीरः । वि॒ऽमिमा॑नः । ऋक्व॑ऽभिः । युवा॑ । अकु॑मारः । प्रति॑ । ए॒ति॒ । आ॒ऽह॒वम् ॥चतुःऽभिः । साकम् । नवतिम् । च । नामऽभिः । चक्रम् । न । वृत्तम् । व्यतीन् । अवीविपत् ।
बृहत्ऽशरीरः । विऽमिमानः । ऋक्वऽभिः । युवा । अकुमारः । प्रति । एति । आऽहवम् ॥catúḥ-bhiḥ ǀ sākám ǀ navatím ǀ ca ǀ nā́ma-bhiḥ ǀ cakrám ǀ ná ǀ vṛttám ǀ vyátīn ǀ avīvipat ǀ
bṛhát-śarīraḥ ǀ vi-mímānaḥ ǀ ṛ́kva-bhiḥ ǀ yúvā ǀ ákumāraḥ ǀ práti ǀ eti ǀ ā-havám ǁcatuḥ-bhiḥ ǀ sākam ǀ navatim ǀ ca ǀ nāma-bhiḥ ǀ cakram ǀ na ǀ vṛttam ǀ vyatīn ǀ avīvipat ǀ
bṛhat-śarīraḥ ǀ vi-mimānaḥ ǀ ṛkva-bhiḥ ǀ yuvā ǀ akumāraḥ ǀ prati ǀ eti ǀ ā-havam ǁ1.155.6 Aṣṭaka 2.2.25.6Anuvāka 1.21.114
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.