Ṛgveda · Maṇḍala 1 · Sūkta 155
Ṛk 1.155.6
Saṃhitā
च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् ।
बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये॑त्याह॒वं ॥
चतुर्भिः साकं नवतिं च नामभिश् चक्रं न वृत्तं व्यतींर् अवीविपत् |
बृहच्छरीरो विमिमान ऋक्वभिर् युवाकुमारः प्रत्य् एत्य् आहवम् ||
catúrbhiḥ sākám navatím ca nā́mabhiścakrám ná vṛttám vyátīm̐ravīvipat ǀ
bṛháccharīro vimímāna ṛ́kvabhiryúvā́kumāraḥ prátyetyāhavám ǁ
caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat |
bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam ||
Padapāṭha
च॒तुःऽभिः॑ । सा॒कम् । न॒व॒तिम् । च॒ । नाम॑ऽभिः । च॒क्रम् । न । वृ॒त्तम् । व्यती॑न् । अ॒वी॒वि॒प॒त् ।
बृ॒हत्ऽश॑रीरः । वि॒ऽमिमा॑नः । ऋक्व॑ऽभिः । युवा॑ । अकु॑मारः । प्रति॑ । ए॒ति॒ । आ॒ऽह॒वम् ॥
चतुःऽभिः । साकम् । नवतिम् । च । नामऽभिः । चक्रम् । न । वृत्तम् । व्यतीन् । अवीविपत् ।
बृहत्ऽशरीरः । विऽमिमानः । ऋक्वऽभिः । युवा । अकुमारः । प्रति । एति । आऽहवम् ॥
catúḥ-bhiḥ ǀ sākám ǀ navatím ǀ ca ǀ nā́ma-bhiḥ ǀ cakrám ǀ ná ǀ vṛttám ǀ vyátīn ǀ avīvipat ǀ
bṛhát-śarīraḥ ǀ vi-mímānaḥ ǀ ṛ́kva-bhiḥ ǀ yúvā ǀ ákumāraḥ ǀ práti ǀ eti ǀ ā-havám ǁ
catuḥ-bhiḥ ǀ sākam ǀ navatim ǀ ca ǀ nāma-bhiḥ ǀ cakram ǀ na ǀ vṛttam ǀ vyatīn ǀ avīvipat ǀ
bṛhat-śarīraḥ ǀ vi-mimānaḥ ǀ ṛkva-bhiḥ ǀ yuvā ǀ akumāraḥ ǀ prati ǀ eti ǀ ā-havam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.155.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.25.06
- Maṇḍala · Anuvāka · Ṛk
- 1.21.114
- Devatā देवता
- 1, 3-6: Viṣṇu; 2: Indra, Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.