Ṛgveda · Maṇḍala 1 · Sūkta 155
Ṛk 1.155.2
Saṃhitā
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिंद्रा॑विष्णू सुत॒पा वा॑मुरुष्यति ।
या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ॥
त्वेषम् इत्था समरणं शिमीवतोर् इन्द्राविष्णू सुतपा वाम् उरुष्यति |
या मर्त्याय प्रतिधीयमानम् इत् कृशानोर् अस्तुर् असनाम् उरुष्यथः ||
tveṣámitthā́ samáraṇam śímīvatoríndrāviṣṇū sutapā́ vāmuruṣyati ǀ
yā́ mártyāya pratidhīyámānamítkṛśā́norásturasanā́muruṣyáthaḥ ǁ
tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati |
yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ ||
Padapāṭha
त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।
या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥
त्वेषम् । इत्था । सम्ऽअरणम् । शिमीऽवतोः । इन्द्राविष्णू इति । सुतऽपाः । वाम् । उरुष्यति ।
या । मर्त्याय । प्रतिऽधीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः ॥
tveṣám ǀ itthā́ ǀ sam-áraṇam ǀ śímī-vatoḥ ǀ índrāviṣṇū íti ǀ suta-pā́ḥ ǀ vām ǀ uruṣyati ǀ
yā́ ǀ mártyāya ǀ prati-dhīyámānam ǀ ít ǀ kṛśā́noḥ ǀ ástuḥ ǀ asanā́m ǀ uruṣyáthaḥ ǁ
tveṣam ǀ itthā ǀ sam-araṇam ǀ śimī-vatoḥ ǀ indrāviṣṇū iti ǀ suta-pāḥ ǀ vām ǀ uruṣyati ǀ
yā ǀ martyāya ǀ prati-dhīyamānam ǀ it ǀ kṛśānoḥ ǀ astuḥ ǀ asanām ǀ uruṣyathaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.155.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.25.02
- Maṇḍala · Anuvāka · Ṛk
- 1.21.110
- Devatā देवता
- 1, 3-6: Viṣṇu; 2: Indra, Viṣṇu
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.